| YouTube Channel

दैप् (daip)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दै
मूलधातुः:
दैप्
धात्वर्थः:
शोधने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
दायति
अनुबन्धादिविशेषः:
ऐकारान्तः
धातुप्रदीपः
Sanskrit
दैप् शोधने
- दायति ददौ अवदातम्। मुखम् ।। 928 ।।
क्षीरतरङ्गिणी
Sanskrit
दैप् शोधने
- पकारो दाधाध्वदाप् (1120) इति विशेषणार्थः दायति आवदातं मुखम् इह दाण् दाने (1662) यच्छति, देङ् रक्षणे (1686) दयते, अदादौ दाप् लवने (252) दाति ह्वादौ डुदाञ् दाने (39) दत्ते, ददाति दिवादौ दो अवखण्डने (438) द्यति 893
धातुवृत्तिः
Sanskrit
दैप् (अर्थः) शोधने
पकारो ऽदाबिति विशेषणार्थः अयमेव लाक्षणिकानामपि घुसञ्ज्ञकानां ग्रहणे लिङ्गम् दायतीत्यादि पायतिवत् णिचि ( दापयति अदीदपत् ) दाण् दाने "देङ् रक्षणे' इतीहैवाग्रे "दाप् लवने' इत्यदादौ "डुदाञ् दाने' इति जुहोत्यादौ दो "अवखण्डने' "दीङ् रक्षण' इति दिवादौ 907
कृदन्तरूपमाला
Sanskrit
1 {@“दैप् शोधने”@} 2 ‘दाति दायति दाप्दैपोः दयते रक्षणे ङितः।।’ 3 इति देवः।
दायकः-यिका, दापकः-पिका, दिदासकः-सिका, दादायकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदाप्धातुवत् 4 ज्ञेयानि।
5 6 प्रणिदायन्-प्रनिदायन्-न्ती, इति शतरि रूपमिति विशेषः।
7 अवदातः।
प्रासङ्गिक्यः
01
=>
(८७१)
02
=>
(१-भ्वादिः-९२४। सक। अनि। पर।)
03
=>
(श्लो। ४)
04
=>
(८३३)
05
=>
[पृष्ठम्०७७३+ २३]
06
=>
[[१। शतरि, आयादेशे, ‘शेषे विभाषा--’ (८-४-१८) इति प्रपूर्वकात् नेः णत्वविकल्पे रूपमेवम्।]]
07
=>
[[आ। ‘स्नातावदातः पिबंस्तदाभां जिघ्रन् सुगन्धं विधमन् अघानि।’ धा। का। २। ३३।]]