| YouTube Channel

दैनन्दिनप्रलयः (dainandinapralayaH)

 
शब्दकल्पद्रुमः
Sanskrit
दैनन्दिनप्रलयः,
पुं,
(दैनन्दिनश्चासौ प्रलयश्चेतिकर्म्मधारयः ।) प्रलयविशेषः यथा, --“चतुर्द्दशेन्द्रावच्छिन्ने ब्रह्मणो दिनमुच्यते ।तावती ब्रह्मणो रात्रिः सा ब्राह्मी निशानृप !
कालरात्रिश्च सा ज्ञेया वेदेषु परिकोर्त्तिता ।एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः
ब्रह्मलोकादधः सर्व्वे लोका दग्धाश्च तत्र वै ।उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना
चन्द्र्यकेब्रह्मपुत्त्राश्च ब्रह्मलोकं गता द्रुतम् ।ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे विधिः
तस्य ब्राह्मीनिशायाञ्च क्षुद्रप्रलय उच्यते ।देवाश्च मुनयश्चैव तत्र दग्धा नरादयः
एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव ।वर्षं द्बादशमासैश्च ब्रह्मसम्बन्धि चैव हि
एवं पञ्चदशाब्दे गते ब्रह्मणो नृप ! ।दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्त्तितः
अहो रात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः ।तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः
आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः
ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः ।इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः ।नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै
ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा ।ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादयस्तथा
गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः ।एवं शतायुःपर्य्यन्तं परमायुश्च ब्रह्मणः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्