| YouTube Channel

देहात्मवादी (dehAtmavAdI)

 
शब्दकल्पद्रुमः
Sanskrit
देहात्मवादी, [न्] त्रि, (देहमेवात्मानं पर-ब्रह्म वदतीति वद् + णिनिः ।) चार्व्वाकः ।तस्येदं मतम् शरीरमेवात्मा प्रज्वलितगृहात्स्वपुत्त्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलो-ऽहं कृशोऽहमित्यनुभवाच्च अत्र प्रमाणम् ।देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृताः ।इति शारीरिकसूत्रभाष्यम्
अपि ।“आत्मास्ति देहाद्व्यतिरिक्तभूर्त्ति-र्भोक्ता लोकान्तरितः फलानाम् ।आशेयमाकाशतरोः प्रसूनात्प्रथीयसः स्वादुफलप्रसूतौ
”इति प्रबोधचन्द्रोदयः