| YouTube Channel

देशान्तरं (dezAntaraM)

 
शब्दकल्पद्रुमः
Sanskrit
देशान्तरं,
क्ली,
(अन्यो देशः मयूरव्यंसकादि-वत् समासः ।) सुमेरुलङ्कयोर्मध्यरेखास्वरूप-देशस्वदेशयोरन्तरयोजनम् इति सिद्धान्तरह-स्यम्
ये उदयान्तरकर्म्मणा लङ्कायामौद-यिका ग्रहा जातास्ते देशान्तरकर्म्मणा स्वपुरो-दयिकाः स्युः तच्च द्बिविधं एकं पूर्व्वापरंद्वितीयं याम्योत्तरं तच्चरसंज्ञमुक्तम् यथा, --“येऽनेन लङ्कोदयकालिकास्तेदेशान्तरेण सुपुरोदये स्युः ।देशान्तरं प्रागपरं तथान्यत्याम्योत्तरं तच्चरसंज्ञमुक्तम्
”इति सिद्धान्तशिरोमणिः
*
देशान्तरपरिभाषायां वृद्धमनुः ।“वाचो यत्र विभिद्यन्ते गिरिर्व्वा व्यवधायकः ।महानद्यन्तरं यच्च तद्देशान्तरमुच्यते
देशनामनदीभेदान्निकटोऽपि भवेद्यदि ।तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा
दशरात्रेण या वार्त्ता यत्र श्रूयतेऽथवा
बृहस्पतिः ।देशान्तरं वदन्त्येके षष्टियोजनमायतम् ।चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव
”इत्युद्वाहतत्त्वम्
“मुनिद्बयवचनोक्तवागादियोजनादिभेदसामञ्ज-स्यार्थम् एवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद्-योजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि एक-वैशिष्ट्ये चत्वारिंशद्योजनोपरि वाणीगिरि-महानद्यन्तरितत्वभेदाभावेऽपिषष्टियोजनोपरिवैदेश्यम् ।” इति शुद्धिचिन्तामणिः