| YouTube Channel

देशाखी (dezAkhI)

 
Wordnet
Sanskrit
Synonyms:
देशाखी
noun
षाडवजातेः एका रागिणी।
"देशाखी वसन्ते मध्याह्नकाले गीयते।"
शब्दकल्पद्रुमः
Sanskrit
देशाखी,
स्त्री,
रागिणीविशेषः हनूमन्मतेहिन्दोलरागस्य द्वितीयरागिणी तस्या जातिःषाडषः गृहं गान्धारस्वरः गानसमयः वस-न्तर्त्तौ पूर्व्वाह्णः अस्याः स्वरूपम् सुरूपानारी चन्द्रवदना क्रोधना कलहप्रिया रोमहर्षानिष्कोषकरबालकरा मल्लवत् धूल्यवगुण्ठित-बाहुवक्षाः बलमर्द्दितकक्षस्थापितशत्रुपक्षासर्व्वदा स्वसमीपस्थापितनायका राग-मालामते तु तस्याः स्वरूपं मल्लबत् परस्पर-मल्लक्रीडायां नियुक्ता सा क्रीडामल्लकाष्ठो-त्क्षेपणप्रस्तराद्यु त्तोलनभूमिलुण्ठनादिरूपा ।कल्लिनाथमते वसन्तरागस्य भार्य्या सङ्गीत-दर्पणमते अस्या जातिः संपूर्णः अस्याःस्वरूपं कर्पूरादपि कमनीयाङ्गी कमलराजित-नयना हर्षयुक्ता रसिका अतिधीरा किञ्चित्-सङ्कुचिता दीर्घभुजा मल्लद्युतिमोचिनी ।इति सङ्गीतशास्त्रम्
वाचस्पत्यम्
Sanskrit
देशाखी स्त्री रागिणीभेदे सा हिन्दीलरागस्य द्वितीयभार्य्या संगीतशास्त्रम्