देवीसूक्त (devIsUkta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Aufrecht Catalogus Catalogorum
Englishवाचस्पत्यम्
Sanskritदेवीसूक्त देव्याः तद्देवताकं सूक्तमृकसमुदायः । ऋग्वेदेशाकलसंहितायामतिप्रसिद्धे देवीदेवताके १ सूक्तभेदे“रात्रिसूक्तं जपेदादौ मध्ये सप्तशतीं जपेत् । प्रान्ते तुजपनीयं वै देवीसूक्तमिति क्रमात्” मरीचिकल्पः । तत्रैवपुरश्चरणप्रकरणे “कृष्णाष्टमीं समारभ्य यावत्कृष्णचतुर्दशीम् । वृद्ध्यैकोत्तरमाजाप्यं पूर्वसंपुटितं तत् ।एवं देव्या यथा प्रोक्तः पौरश्चरणिकः क्रमः । तदन्तेहवनं कुर्यात् प्रतिश्लोकेन पायसम् । रात्रिसूक्तं प्रतिऋचं तथा देव्याश्च सूक्तकम् । हुत्वान्ते प्रजपेत् स्तोत्र-मादौ पूजादिकं मुने!” अत्र गुप्तवतीकारा आहुः ।“पूर्वसंपुटितम् पूर्वाभ्यां पूर्वोक्ताभ्यां रात्रिसूक्तदेवीसू-क्ताभ्यां संपुटितम्” प्रतिश्लोकेनेति मन्त्रविभागोपलक्ष-णम् कात्यायन्यादितन्त्रोक्तसप्तशतीविभागग्रन्थस्य हव-नादिविधिं प्रति वाक्यशेषत्वेन तेनैव बैधपदार्थनिर्ण-यावश्यमभावात् । रात्रिसूक्तदेवीसूक्ते च ऋग्वेदेशाकलसंहितायां प्रसिद्धे । तथेत्यनेन जपे कॢप्तक्रमःसंपुटाकारो निर्दिश्यते तच्छब्दस्य पूर्वपरामर्शित्वात् ।तस्य श्लोकपूरणमात्रार्थत्वं तुन न्याय्यम् । द्वाभ्यामपिसूक्ताभ्यां त्रिरावृत्तसप्तशतीहोमोत्तरमेव पाठक्रमानु-सारेण होमः । “विश्वेश्वरीं जगद्धात्रीमिति” स्तवो रा-त्रिसूक्तम् । “नमोदेव्यै महादेव्यै इति” स्तवो देवी-सूक्तमिति कश्चित् तन्न “प्रतिश्लोकं प्रतिऋचमिति”प्रतिनियतनिर्देशविरोधात् ऋक्सूक्तादिशब्दानां वै-दिकमन्त्रेष्वेव रूढत्वप्रसिद्धेः । मत्स्यसूक्तमित्यादिक्वाचित्कतान्त्रिकव्यवहारस्य केवलयौगिकत्वेनोपपत्तेः ।तेन ऋक्पदस्य श्लोके लक्षणेत्युक्तिरपि साहसमात्रम् ।समुद्रमनोध्यानादिविधौ वृहद्रथन्तरपदयोः प्रतिनियत-निर्देशबलादेव लक्षणाव्यवस्थाया इव प्रकृते कॢ-प्ताया एव शक्तेर्व्यवस्थादार्ढ्यस्य कैमुतिकन्यायेनैवसिद्धेः । यदि त्वेवमालोच्यते “विश्वेश्वर्य्यादिकं सूक्तंदृष्टं तद्ब्रह्मणा पुरा । स्तुतये योगनिद्राया मम देव्याःपुरन्दर! । महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तथा ।देव्या ययादिकं दिव्यं दृष्टं देवैः सहर्षिभिः ।देवि! प्रपन्नार्त्तिहरे! प्रसीदेत्यादिकं तथा ।नारायणीस्तुतिर्नाम सूक्तं परमशोभनम् । अमुष्याःस्तुतये दृष्टं व्रह्माद्यैः सकलैः सुरैः । नमो देव्यादिकंसूक्तं सर्वकामफलप्रदम्” इति विशफलितवेषेणपाञ्चरात्रलक्ष्मीतन्त्रे व्यवहारदर्शनादेतेषां स्तोत्राणामपौरुषेयत्वस्य सिद्धान्तितत्वाच्च सूक्तत्वव्यवहारो युज्यतएवेति । तदा कात्यायनीतन्त्रमते विश्वेश्वरीमिति श्लो-कात् पूर्वं ब्रह्मोवाचेत्यस्य पाठाभावात्तदुत्तरमेव तत्पा-ठाच्च । त्वं स्वाहेत्यारभ्यैव स्तोत्रारम्भः तस्य चयोगनिद्रात्मकरात्रिदैवतत्वात् मरीचितन्त्रे रात्रि-सूक्तपदेन निर्देश इति समाधेयं परं त्वेतत्तन्त्रमनु-सरता विश्वेश्वरीमिति श्लोकेऽङ्गहोमदशायां न हो-तव्यम् । स्तोत्रान्तिमश्लोकस्य द्वेधा विभागोऽपि नकार्यः । देवीसूक्तेऽपि त्रेधा विभागोऽङ्गहोमे न वि-धेयः प्रधानविधिशेषस्याङ्गविधावन्वयेन प्रतिऋच-मिति पदे लक्षणाकल्पने मानाभावादित्यवधेयम्” ।२ नमोदेव्यै महादेव्यै इत्यादिके देवीमाहात्म्यस्य पञ्च-माध्यायस्थे देव्याः स्तुतिरूपे मालामन्त्रे च “स चवैश्यस्तपस्तेपे देवीसूक्तं परं जपन्” देवीमाहा० तत्रगुप्तवतीकारा आहुः “देवीसूक्तं बह्वृचेष्वतिप्रसिद्ध-मेकं । विश्वेश्वरीमित्यादीत्येके श्रीसूक्तमाथर्वणप्रसिद्धमित्यन्ये । वस्तुतस्तु देवीसूक्तं नमोदेव्या इत्यादिकपञ्चमाध्यायस्थं स्तुतिरूपं तच्च सर्वदेवताकूटस्थायामहालक्ष्म्याः स्तोत्रं शुम्भादिवधार्थिभिर्ब्रह्मादिभिर्देवै-र्दृष्टं सर्वक्लेशपरिहारैश्वर्य्यादिफलकं तत्कामाभ्यां ताभ्यांजप्तम् अनुपदं श्रुतत्वात् बुद्धिसन्निहितत्वाच्चेदमेव देवी-सूक्तपदेनात्र गृहीतुमुचितं लक्ष्मीतन्त्रसम्मतश्चायमर्थःइति प्रागेव निरूपितमित्यपरे “प्राणाधः संस्थितं वीजंव्योम वीजं हुताशनः । त्रिकोणविन्दुनादाढ्यं प्रण-वादि नमोऽन्तकम् । अम्बिकासिद्धिदं ज्ञेयं देवीसूक्तंपरं स्मृतम्” इति क्वचित्पठिते ३ मन्त्रभेदे च ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
