| YouTube Channel

देवापिः (devApiH)

 
Wordnet
Sanskrit
Synonyms:
देवापिः
noun
पौराणिकः ऋषिविशेषः।
"देवापेः वर्णनं ऋग्वेदे प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
देवापिः,
पुं,
प्रतीपराज्ञः पुत्त्रः सुमेरुसमीपेकलापग्रामे योगी भूत्वा आस्ते कलौ लुप्तंचन्द्रवंशं पुनः सत्ययुगे भावयिष्यति इतिश्रीभागवतम्
कुष्ठी प्रजाभिरपध्यातः ।इति मत्स्यपुराणम्
(यथा, महाभारते ।९५ ४४--४५ ।“प्रतिश्रवसः प्रतीपः प्रतीपः खलु शैव्यामुपयेमेसुनन्दां नाम तस्यां पुत्त्रानुत्पादयामास देवापिंशान्तनुं बाह्वीकञ्चेति देवापिः खलु बाल एवा-रण्यं विवेश शान्तनुस्तु महीपालो बभूव
”वैदिकमते तु अयं ऋष्टिषेणस्य पुत्त्रः यथा, निरुक्ते १० ।“देवापिश्चार्ष्टिषेणः शन्तनुश्च कौरव्यौ भ्रातरौबभूवतुः शन्तनुः कनीयानभिषेचयाञ्चक्रेदेवापिस्तपः प्रतिपेदे ततः शन्तनो राज्येद्वादशं वर्षाणि देवो ववर्ष तमूचुः ब्राह्मणाअधर्म्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्याभि-षेचितं तस्मात् ते देवो वर्षतीति शन्तनु-र्देवापिं शिशिक्ष राज्येन तमुवाच देवापिःपुरोहितस्तेऽसानि याजयानि त्वेति तस्यैतद्वर्षकामसूक्तम्
तथा ऋग्वेदे १० ।९८ ।“आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापिर्देव-सुमतिं चिकित्वान्
”)