| YouTube Channel

देवस्वं (devasvaM)

 
शब्दकल्पद्रुमः
Sanskrit
देवस्वं,
क्ली,
(देवस्य स्वं धनम् ।) देवस्वत्तास्पदि-धनम् यथा, --“ब्रह्मस्वञ्च गुरोर्द्रव्यं देवस्वञ्च हरेत्तु यः ।कन्यां ददाति शुल्केन प्रेतो जायते मृतः
”इति महाभारते पञ्चप्रेतोपाख्यानम्
(यथा मनुः ११ २६ ।“देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति
”यज्ञशीलधनम् यथा, मनुः ११ २० ।“यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः
”)