देवसुषि (devasuSi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaदेवसुषि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೃದಯದ ಒಂದು ದ್ವಾರ
व्युत्पत्तिः - > देवैः रक्षमाणः सुषिः द्वारम्
वाचस्पत्यम्
Sanskritदेवसुषि देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषिःद्वारम् । प्राणादित्यादिभिः रक्ष्यमाणे हृदयस्य द्वार-भेदे । स च पञ्चसंख्याकः छा० उ० न्यरूपि यथा“तस्य ह वा हृदयस्य पञ्च देवसुषयः स योऽस्य प्रा-ङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्ना-द्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद”“अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं सचन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वीभवति य एवं वेद” “अथ योऽस्य प्रत्यङ्सुषिः सो-ऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमग्नाद्यमि-त्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद” “अथयोऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यः तदेत-त्कीर्त्तिश्च व्युष्टिश्चेत्युपासीत कीर्त्तिमान् व्युष्टिमान्भवति य एवं वेद” “अथ योऽस्योर्द्ध्वः सुषिः स उदानःस वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतओजस्वी माहस्वान् भवति य एवं वेद” “ते वाएते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः सय एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोलस्य द्वारपान् वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गलोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्यद्वारपान् वेद” “तस्य ह वा इत्यादिना गायत्र्याख्यस्यब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थ-मारभ्यते । तस्येति प्रकृतस्य हृदयस्येत्यर्थः । एत-स्यानन्तरनिर्दिष्टस्य । पञ्च पञ्चसंख्याका देवानांसुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैःप्राणादित्यादिभीरक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्ग-लोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभि-मुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः हृत्स्थस्तेनद्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीतिप्राणः । तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैवादित्यः“आदित्यो ह वै बाह्यप्राण इति श्रुतेः” “चक्षूरूपप्रति-ष्ठाक्रमेण हृदि स्थितः । “स आदित्यः कस्मिन् प्र-तिष्ठित इति चक्षुषीत्यादि” वाजसनेयके । प्राणवायु-देवतैव ह्येका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यतिच “प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति” ।तदेतत्प्राणाख्यं स्वर्गलोकद्वारत्वाद्ब्रह्म” “स्वर्गलोकंप्रतिपित्सुस्तेजस्व्येतच्चक्षुरादित्यस्वरूपेणान्नादत्वाच्च स-वितुस्तेजीऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत । ततस्ते-जस्व्यन्नादश्चामयावित्वरहितो भवति य एवं वेद तस्यै-तद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलो-कप्राप्तिहेतुर्भवतीति मुख्यञ्च फलम्” “अथ योऽस्यदक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्य्यवत्कर्म कुर्व-न्विगृह्य वा प्राणापानौ नाना वाऽनितीति व्यानस्त-त्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः”“श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्चेति” श्रुतेः । सहाश्रयंपूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्न हेतुत्वमतस्ताभ्यां श्रोत्रज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम्” “अथ योऽस्य प्रत्यङ्सुषिः पश्चिमस्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधोऽनितीत्यपानः सा तथा सा वाक्” “तत्सम्बन्धात्तथाग्निस्तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम्अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य । अन्नग्रसनहेतुत्वादपा-नस्यान्नाद्यत्वम् । समानमन्यत् । अथो योऽस्योदङ्सुषि-रुदङ्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशितपीते समंनयतीति समानः । तत्सम्बद्धं मनोऽन्तःकरणं स पर्जन्योवृष्ट्यात्मको देवः, पर्जन्यनिमित्ताश्चापः” इति । “मनसासृष्टा आपश्च वरुणश्चेति” श्रुतेस्तदेतत्कीर्त्तिश्च मनसोज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्ति-र्यशः स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देह-गतं लावण्यम् । ततश्च कीर्त्तिसम्भवात्कीर्त्तिश्चेति ।समानमन्यत्” “अथ योऽस्योर्द्ध्वः सुषिः स उदान आपा-दतलादारभ्योर्द्ध्वमुत्क्रमणादुत्कर्षाच्च कर्म कुर्वन्नित्युदानःस वायुस्तदाधारश्चाकाशस्तदेतत् । वाय्वाकाशयोरोजो-हेतुत्वादोजो बलं महत्त्वाच्च महः इति । समानम-न्यत् । ते वै एते यथोक्ताः पञ्च सुषिसम्बन्धात्पञ्चव्रह्मणो हार्दस्य पुरुषा राजपुरुषा इव द्वारस्थाः स्व-र्गस्य हार्द्दस्य लोकस्य द्वारपालाः । एतैर्हि चक्षुः-श्रोत्रवाङ्मनःप्राणैर्वहिर्मुखप्रवृत्तैर्व्रह्मणो हार्दस्यप्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं ह्येतदजितकरणतयावाह्यविषयासङ्गामृतप्ररूढत्वान्न हार्दब्रह्मणि मनस्ति-ष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्यलोकस्य द्वारपा इति । अतः स य एतानेवं यथोक्तगुण-विशिष्टान् स्वर्गस्य लोकस्य द्वारपान्वेदोपास्ते उपासनयावशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्यतैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दंब्रह्म । किञ्चास्य विदुषः कुले वीरः पुत्री जायते वीर-पुरुषसेवनात् । तस्य चर्ण्णापाकरणेन ब्रह्मोपासनप्रवृत्ति-हेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्य्येण भव-तीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्” भाष्यम् ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
