| YouTube Channel

देवरातः (devarAtaH)

 
Apte Hindi
Hindi
देवरातः
पुं*
देव-रातः -
परीक्षित का विशेषण
Wordnet
Sanskrit
Synonyms:
देवरातः
noun
राज्ञः जनकस्य पूर्वजः।
"भगवतः शङ्करस्य पिनाकः इति धनुः इन्द्रः देवराताय ददौ।"
Synonyms:
देवरातः
noun
ज्ञानी ऋषिः।
"देवरातः याज्ञवल्यक्यस्य पिता आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
देवरातः,
पुं,
(रै + क्तः देवेन श्रीकृष्णेन रातःरक्षितः ।) परिक्षित् राजा इति श्रीभाग-वतम्
सारसपक्षिविशेषः इति शब्दार्थ-कल्पतरुः
(विश्वामित्रपुत्त्रः यथा, हरि-वंशे २७ ४७ ।“विश्वामित्रस्य पुत्त्रास्तु देवरातादयः स्मृताः
”एतन्निरुक्तिर्यथा भागवते १६ ३२ ।“यो रातो देवयजने देवैर्गाधिषु तापसः ।देवरात इति ख्यातः शुनःशेफस्तु भार्गवः
”निमेर्ज्येष्ठः पुत्त्रः यथा, रामायणे ६६ ।“देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः
”युधिष्ठिरस्य सभास्थक्षत्त्रियाणामन्यतमः यथा, महाभारते २६ ।“चानूरो देवरातच्च भोजो भामरथश्च यः
”)