| YouTube Channel

देवनं (devanaM)

 
शब्दकल्पद्रुमः
Sanskrit
देवनं,
क्ली,
(दिव् + भावे ल्युट् ।) व्यवहारः ।जिगीषा क्रीडा इति मेदिनी ने, ७६
(दीव्यति अस्मिन्निति अधिकरणे ल्युट् ।) लीलो-द्यानम् इति त्रिकाण्डशेषः
(दीव्यति अने-नेति दिव + करणे ल्युट् ।) पद्मम् इतिशब्दचन्द्रिका
परिदेवनम् इत्यमरटीकायांभरतः
द्युतिः स्तुतिः कान्तिः गतिः ।शोकः इत्यमरटीकायां मथुरेशः
द्यूतम् ।इति स्वामी
(यथा, मनौ २२२ ।“प्रकाशमेतत् तास्कर्य्यं यद्देवनसमाह्वयौ ।तयोर्नित्यं प्रतिघाते नृपतिर्यत्नवान् भवेत्
”)