| YouTube Channel

देवताप्रतिष्ठा (devatApratiSThA)

 
Shabdartha Kaustubha
Kannada
देवताप्रतिष्ठा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಿಗ್ರಹದಲ್ಲಿ ದೇವತೆಗಳ ಸಾನ್ನಿಧ್ಯವುಂಟಾಗಲು ಮಾಡು ಶಾಸ್ತ್ರೋಕ್ತವಾದ ಒಂದು ಸಂಸ್ಕಾರ
व्युत्पत्तिः - > देवतायाः प्रतिष्ठा
वाचस्पत्यम्
Sanskrit
देवताप्रतिष्ठा स्त्री त० देवताप्रतिमानां विधानेन तत्सान्निध्यापादके अग्रे वक्ष्यमाणनिरुक्तियुक्ते संस्कार-भेदे देवप्रतिष्ठादयोऽप्यत्र तद्विधानादि देवप्रतिष्ठातत्त्वेसंक्षेपेणोक्तं यथा मत्स्यपु० “सौवर्णी राजती वापि ताम्री रत्नमयी तथा शैल-दारुमयी वापि लौहशङ्खमयी तथा रीतिकाधातु-युक्ता ताम्रकांस्यमयी तथा शुभदारुमयी वापिदेवतार्च्चा प्रशस्यते अङ्गुष्ठपर्व चारभ्य वितस्तिं यावदेवतु गृहेषु प्रतिमा कार्य्या नाधिका शस्यते बुधैः” ।रीतिका पित्तलं शुभदारुमयी यज्ञियकाष्ठसम्भवा अर्च्चाप्रतिमा गृहेषु स्वगृहेषु “प्रासादेष्वधिका शुभेति” वच-नात् तत्राधिकापि शैलजा गृहे शुभदा तन्त्रान्तरेऽ-प्युक्तम् “चिन्मयस्याद्वितीयस्य निष्फलस्याशरीरिणः ।उपासकानां काय्यार्थं व्रह्मणोरूपकल्पना” रूपक-ल्पना रूपस्थानां देवतानां पुंस्त्र्यंशादिकल्पना गौत-मीयतन्त्रे “काश्मीरी ज्ञानदा प्रोक्ता स्वर्णजापि विमु-क्तिदा तेजोदा दारुजा चैव रैत्तिकी शत्रुनाशिनी ।ताम्री धर्मविवृद्धिञ्च करोति बहुसौख्यदा मुदे मृण्-मयी प्रोक्ता प्रतिमा शुभलक्षणा भोगदा मोक्षदासा तु प्रतिमा कथिता तव” वराहपुराणे “कुड्येलेख्ये मे कश्चित् पटे कश्चिच्च मानवः पूजयेद् यदिवा चक्रे मम तेजोऽशसम्भवे” कुड्ये लेख्ये भित्तौलिखिते तथा पटे लिखिते चक्रे शालग्रामचक्रे ।मत्स्यपुराणे लिङ्गमभिधाय “एवं रत्नमयं कुर्य्यात् स्फा-टिकं पार्थिवं तथा शुभदारुमयं वापि यद्वा मनमिरोचते चैत्रे वा फालगुने वापि ज्यैष्ठे वा माधवे तथा ।माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् प्राप्यपक्षं शुभं शुक्लमतीते चोत्तरायणे” अतीते वृत्ते“पञ्चमी द्वितीया तृतीया सप्तमी तथा दशमीपौर्णमासी तथा श्रेष्ठा त्रयोदशी तासु प्रतिष्ठाविधिवत् कृता बहुफला भवेत्” व्यवहारसमुच्चये“प्रतिष्ठा सर्वदेवानां केशवस्य विशेषतः उत्तरायण-मापन्ने शुक्लपक्षे शुभे दिने कृष्णपक्षे पञ्चम्याम्अष्टम्याञ्चैव शस्यते” भुजवलभीमे “युगादावयने पुण्येकर्त्तव्या विषुवद्वये चन्द्रसूर्यग्रहे वापि दिने पुण्येऽथपर्वसु या तिथिर्यस्य देवस्य तस्यां वा तस्य कीर्तिता ।गृह्यागमविशेषेण प्रतिष्ठा मुक्तिदायिनी” पद्मपुराणे“प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः श्रियोदेव्याद्वितीया तिथीनामुत्तमा स्मृता तृतीया तु भवा-न्याश्च चतुर्थी तत्सुतस्य पञ्चमी नागराजस्यषष्ठी प्रोक्ता गुहस्य सप्तमी भास्करे प्रोक्ता भैरव-स्याष्टमी तथा दुर्गाया नवमी प्रोक्ता दशमी वासुके-स्तथा एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः ।त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्दशी मम चैवमुनिश्रेष्ठ! पौर्णमासी तिथिः स्मृता” चक्रपाणिनइति पण व्यवहारे इत्यस्माण्णिनिप्रत्ययः “महिषासु-रहन्त्र्याश्च प्रतिष्ठा दक्षिणायने” कल्पतरो देवी-पुराणम् “यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे ।गर्त्तापूरशिलान्यासे शुभदस्तस्य पूजितः” यस्य देवस्यप्रतिष्ठा ध्वजारोपणे यः कालः शुभदस्तस्य गर्त्तापूरशिला-न्यासे गृहारम्भे कालः पूजित इत्यर्थः प्रतिष्ठासमु-च्चये “माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि ज्यैष्टा-षाढकयोर्वापि प्रतिष्ठा शुभदा भवेत्” भविष्ये “सोमो-वृहस्पतिश्चैव शुक्रश्चैव तथा बुधः एते सौम्यग्रहाःप्रोक्ताः प्रतिष्ठा यज्ञकर्मणि” एतद्वारेषु प्रतिष्ठा कर्तव्याइत्यर्थः मत्स्यपुराणम् “आषाढे द्वे तथा मूलमुत्त-रात्रयमेव ज्येष्ठा श्रवणरोहिण्यः पूर्वभाद्रपद-स्तथा हस्ताश्विनी रेवती पुष्योमृगशिरस्तथा ।अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते” दीपिका-याम् “प्राजेशवासवकरादितिभाश्विनीषु पौष्णामरेज्यशशि-भेषु तथोत्तरासु कर्त्तुः शुभे शशिनि केन्द्रगते जीवेकार्य्या हरेः शुभतिथौ विधिवत् प्रतिष्ठा” देवीपु-राणम् “तथा द्वादशगे जीवे अष्टमे वाथ भास्करे ।प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता” कल्पतरौदेवीपुराणम् “चतुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखा-र्थिभिः” कालिकापुराणम् “प्रतिमायाः कपोलौद्वौ स्पृष्ट्वा दक्षिणपाणिना प्राणप्रतिष्ठां कुर्वीत तस्यादेवस्य वा हरेः अकृतायां प्रतिष्ठायां प्राणानां प्रति-मासु यथापूर्बं तथामावः स्वर्णादीनां वि-ष्णुता अन्येषामपि देवानां प्रतिमासु प्रार्थिव! ।प्राणप्रतिष्ठा कर्तव्या तस्यां देवत्वसिद्धये” प्रतिष्ठा ब्रा-ह्मणद्वारैव कर्तव्या यथा हयशीर्षपञ्चरात्रे भगवद्वाक्यं“कर्त्तुमिच्छति यः पुण्यां मम मूर्तिं प्रतिष्ठया अन्वे-षणीयस्त्वाचार्यस्तेन लक्षणसंयुतः ब्राह्मणः सर्व-वर्णानां पञ्चरात्रविशारदः ब्राह्मणानामभावे तु क्ष-त्रियोवैश्यशूद्रयोः क्षत्रियाणामभावे तु वैश्यः शूद्रस्यकल्पितः कदाचिदपि शूद्रस्तु चाचार्यत्वमर्हति” ।वृहन्नारदीये “नमेद् यः शूद्रसंस्पृष्टं लिङ्गं वा हरि-मेव वा सर्वयातनाभोगी यावदाहूतसंप्लवम्” आ-हूतसंप्लवं प्रलयपर्यन्तम् तथा “स्त्रीणामनुपनीतानांशूद्राणाञ्च जनेश्वर! स्पर्शने नाधिकारोऽस्ति विष्णौ वाशङ्करेऽपि वा” कर्मादौ तु नवग्रहपूजामाह सत्स्य-पुराणम् “नवग्रहमखं कृत्वा ततः कर्म समारभेत् ।अन्यथा फलदं पुंसां काम्यं जायते क्वचित्” प्र-तिष्ठाप्रकारस्तु विस्तरेण मत्स्यपुराणादावुक्तः तदसम्भवेविद्याकरवाजपेयिसम्मतोभविष्यादावुक्तो ग्राह्यः यथाभविष्यपुराणम् “स्नपनादि यथाशक्ति कृत्वा तन्मूल-मन्त्रकम् विन्यसेद्धृदयाम्भोजे प्रतिष्ठा सुकृता भवेत्” ।आदिपदात् पूजोत्सवहोमादि महाकपिलपञ्चरा-त्रोक्तकर्म कर्तव्यं तद्यथा “सपुष्पं सकुशं पाणिंन्यसेद्देवस्य मस्तके पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्त-रम् ततो मूलेन मूर्द्धादिपीठान्तं संस्पृशेदिति तत्त्व-न्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् पूजाञ्च महतींकुर्य्यात् स्वतन्त्रोक्तां यथाविधि प्राणप्रतिष्ठामन्त्रेणप्राणस्थापनमाचरेत्” लिपिन्यासः मातृकान्यासः ।उक्तञ्च “जपादौ सर्वमन्त्राणां विन्यासेन लिपिं विना ।कृतं तन्निष्फलं विद्यात् तस्मात् पूर्बं लिपिं न्यसेत्” ।कादिमतेऽपि “मातृकायाः षडङ्गञ्च मातृकान्यासमेवच सर्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत्” एत-द्वचनाच्च पूर्वं मातृकान्यासः पश्चात्तत्त्वन्यासः क्रम-दीपिकायामप्येवं क्रमः मन्त्रन्यासश्च तत्तन्मन्त्रविशेषोक्तपदवर्णन्यासः तदभावे शिरसि मूलमन्त्रेण तत्त्व-न्यासः तत्त्वन्यासस्तु विष्णुविषयक एव न्यासप्रमा-णानि शारदाक्रमदीपिकोक्तान्यनुसन्धेयानि प्राणप्रति-ष्ठामन्त्रस्तु शारदात्रयोविंशतिपटलोक्तः यथा “पाशाङ्कु-शपुटा शक्तिर्वायुर्विन्दुविभूषितः याद्याः सप्त सका-रान्ता व्योम सत्येन्दुसयुतम् तदन्ते हंसमन्त्रः स्यात्ततोऽमुष्य पदं वदेत् प्राणा इति वदेत् पश्चादिह प्राणा-स्ततःपरम् अमुष्य जीव इह स्थितोऽमुष्यपदंवदेत् सर्वोन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः श्रो-त्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् तिष्ठन्त्वग्नि-वधूरन्ते प्राणमन्त्रोऽयमीरितः प्रत्यमुष्यपदात् पूर्वंपाशाद्यानि नियोजयेत् प्रयोगेषु समाख्यातः प्राण-मन्त्रो मनीषिभिः” पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमंपाशवीजं आं, ततः शक्तिवीजं ह्रीं, ततोऽङ्कुशवीजं क्रोँ, वायुर्यकारः विन्दुविभूषितः तेन यं, याद्याः सप्त सका-रान्ता उद्धृतयकारानुवादेन सप्त तु तद्भिन्नं वीजं, पूर्वं पृथगुद्धारस्तु वर्णसप्तानामपि सविन्दु ताख्यापनाय ।अन्यत्रापि “अङ्कुशवाय्वनलावनीवरुणवीजान्युक्तानि अत्रवायुवीजस्यैकत्वं वीजत्वेन सर्वेषां सविन्दुत्वं व्यक्तं राघ-वभट्टोऽप्येवम् अन्यस्तु वाणीविन्दुविभूषिताः इत्युक्त्वानादविन्दुविभूषिता इति व्याख्याय याद्या इत्यस्य विशे-षणं वदति व्योम हकारः सत्यओकारः इन्दुर्विन्दुः तेनहोम् अतएव “पाशाङ्कुशान्तरितशक्तिमनोः पुरस्तादुच्चार्ययादिमुनिवर्णगुणं सहंसमिति” प्रपञ्चसारोऽप्याह ।गुणमित्यनेन होमिति पद्मपादाचार्य्यैर्व्याख्यातम् आग्न-वधूः स्वाहा तेनायं मन्त्रः आं ह्रीं क्रों यं रं लं वं शंषं सं हों हंसः अमुष्य प्राणा इह प्राणाः आमित्यादिअमुष्य जीव इह स्थितः आमित्यादि अमुष्य सर्वे-न्द्राणि आमित्यादि अमुष्य वाङ्मनश्चक्षुःश्रोत्रघ्राण-प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा अमुष्येतिषष्ठ्यन्तदेवतानामोपलक्षणम् “अदः पदं हि यद्रूपं यत्रमन्त्रे हि दृश्यते साध्याभिधानं तद्रूपं तत्र स्थानेनियोजयेत्” इति नारदीयात् वशिष्ठसंहितायाम्“हृदि हस्तं समादाय मूलमन्त्रञ्च संजपेत्” मूलमन्त्रंतत्तद्देवतामन्त्रं वैदिकः तान्त्रिकश्च “ओङ्कारादि-चतुर्थ्यन्तं नमस्कारान्तमीरितम् स्वनाम सर्वसत्वानांमन्त्र इत्यभिधीयते” इति ब्रह्मपुराणीयेन ओङ्कारा-दिचतुर्य्यन्ततत्तद्देवतानामरूपो वा कालिकापुराणेऽपि“प्रतिमायाः कपीलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना प्राण-प्रतिष्ठां कुर्वीत तस्या देवस्य वा हरेः वासुदेवस्य वीजेनतद्विष्णोरित्यनेन(१)च तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठा-माचरेद्धरेः तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् ।एभिर्मन्त्रैः प्रतिष्ठान्तु हृदयेऽपि समाचरेत् अस्मै प्राणाःप्रतिष्ठन्तु अस्मै प्राणाः क्षरन्तु अस्मै देवत्वसंख्यायैस्वाहेति यजुरीरयन् अङ्गमन्त्रैरङ्गिमन्त्रैर्वेदिकैरित्यनेनच प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत्” देवी-प्रतिष्ठायाम् अस्मा इत्यत्र अस्यै देवत्वसंख्यायै इत्यूहःसारस्वत्यां मेष्यां प्रास्मा इत्यत्र प्रास्यै इत्यूहवत् अङ्गम-न्त्रैरङ्गन्यासमन्त्रैः अङ्गिमन्त्रैः प्रधानमन्त्रैः वैदिकैः ॐमनोजूतिर्जुषतामित्यादि(२)मन्त्रैः (यजु० १३) स्नप-नात् पूर्वं वल्मीकमृत्तिकादिभिस्त्रिभिः क्षालनमाह हय-शीर्षपञ्चरात्रम् “वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना ।क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये स्नापयेद्गन्ध-तोयेन शुद्धवत्या तु देशिकः नमस्तेऽर्च्चे सुरेशानि!प्रणीते विश्वकर्मणा प्रभाविताशेषजगद्धात्रि! तुभ्यंनमोनमः त्वयि संपूजयामीशे! नारायणमनामयम् ।रहिता शिल्पिदोषैस्तु शुद्धियुक्ता सदा भव” तेन चयथाशक्ति स्नपनादीतिकर्तव्यताकः प्रतिमाहृदये तन्मू-लमन्त्रविन्यासोदेवताविशेषसन्निधिः प्रतिष्ठेति राघव-भट्टधृतमहाकपिलपञ्चरात्रेऽपि “प्रतिष्ठाशब्दसंसिद्धिःप्रतिपूर्वाच्च तिष्ठतेः बह्वर्थत्वान्निपातानां संस्कारादौप्रतेः स्थितिः अर्थस्तदयमेतस्य गीयते शाब्दिकैर्जनैः ।विशेषसन्निधेर्या तु क्रियते व्यापकस्य तु तन्मूर्त्तौ भा-वना मन्त्रैः प्रतिष्ठा सा विधीयते” सुभस्मना गोमय-भस्मना गन्धतोयेन चन्दनादियुक्ततोयेन देवतास्नानीय-द्रव्यपरिमाणमाह ब्रह्मपुराणम् “अष्टोत्तरं पलशतंस्नाने देयञ्च सर्वदा” पलमाह मनुः “पञ्च कृष्णल-कोमाषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्चत्वारः” इति ।ततश्चाष्टरत्तिकाधिकलौकिकमाषद्वयाधिकतोलकत्रयेण ।३ वैधपलं भवति एवं तथाविधाष्टोत्तरशतपल-परिमितेन लौकिकषष्ट्यधिकशतत्रयतोलकाः ३६० इति ।एवं बल्मीकमृत्तिकादिक्षालने सर्वाङ्गीणजलस्पर्शनस्ना-नरूपत्वात्तत्रापि अष्टोत्तरं शतपलमिति वदन्ति बल्मी-कमृदादिस्नाने मन्त्रविशेषानुपादानात् “मन्त्रानादेशेगायत्रीति” शूलपाणिलिखितात् गायत्र्या तत्तन्मूलम-न्त्रेण वा स्नानं कारयितव्यम् गन्धोदकस्नाने तु शुद्ध-वत्या (३) एतोन्विन्द्रमित्यादि ऋक्त्रयात्मिकया देशिकोयजमानोगुरुर्वा विज्ञः नमस्ते इत्यादि विज्ञापनमन्त्रेदेवतान्तरे नारायणमित्यत्र तत्तद्देवतानामोहः ।शिवलिङ्गस्यार्च्यत्वात् अर्चाविशेषणत्वात् स्त्रीलिङ्गमवि-रुद्धम् यमः “कृत्वा देवगृहं सर्वं प्रतिष्ठाप्य दे-वताम् विधाय विधिवत् पूजां तल्लोकं विन्दते ध्रु-वम्” नारमिंहे “प्रतिमां लक्षणोपेतां नरसिंहस्यकारयेत् सर्वपापानि संत्यज्य तु विष्णुपुरं व्रजेत् ।प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि निष्कामोनरशार्दूल! देहबन्धात् प्रमुच्यते सकामो नरसिंहस्यपुरं प्राप्य प्रमोदते विधिवत् स्नापयेद् यस्तु कार-यित्वा जनार्दनम् जातु निर्गमस्तस्य विष्णुलोकात्कथञ्च न” नरसिंहस्य विष्णोः उपसंहारे तथादर्शनात् माधवोल्लासे “देवस्य प्रतिमायास्तु यावन्तःपरमाणवः तावद्वर्षसहस्राणि विष्णुलोके महीयते ।राजमार्त्तण्डे “पुत्त्रोत्पत्तौ तथा श्राद्धमन्नप्राशनिकेतथा चूडाकार्ये व्रते चैव नाम्नि पुंसवनेषु ।पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः एतद्वृद्धिकरंनाम गृहस्थस्य विधीयते” वृद्धिकरं श्राद्धमित्यन्वयः ।सूत उवाच “कलौ चैकाहसाध्येन प्रतिष्ठां मन्दवित्त-वान् मध्यमेनाधमेनापि प्रकुर्य्यात्तान्त्रिकोत्तमः नित्यंनिर्वर्त्य मतिमान् कुर्य्यादभ्युदयन्ततः विप्रान् संभो-जयेच्चाथ ततो यागगृहं व्रजेत् गणेशग्रहदिक्पालान्प्रतिकुम्भेषु पूजयेत् स्थण्डिले पूजयेद्विष्णु परि-वारगणं यजेत् स्नापयेत् प्रथमं देवं तोयैः पञ्चविधै-रपि पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ।तिलतैलैस्तथा स्नेहैः कषायैरपि सत्तमः” तथा“जम्बुशाल्मलिवाट्यालं वदरं बकुलं तथा एतेषांवल्कलरसः कषायः परिकीर्तितः पञ्चपुष्पोदकैर्वाथत्रिपत्रैरपि सत्तमः तुलसीकुन्दमालूरपत्राण्याहुस्त्रि-पत्रकम् चम्पकाम्रशमीपद्मकरवीरञ्च पञ्चकम् मृ-त्तिका करिदन्तस्य पर्वताश्वखुरस्य कुशबलमीकसम्भूतंमृत्पञ्चकमितोरितम् गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् कुर्य्यात् प्राणप्रतिष्ठाञ्च होमं कुर्याद् यथा-विधि दक्षिणां विधिवत् कुर्यात् पूर्णार्घ्यं तदनन्त-रम्” इति भविष्यपुराणे तृतीयभागे नवमोऽध्यायः ।नरसिंहपुराणे “पञ्चगव्येन देवेशं यः स्नापयति भक्तितः ।ब्रह्मकूर्चविधानेन विष्णुलोके महीयते” ब्रह्मकूर्चविधा-नेन कुशोदकयुक्तेन पञ्चगव्येन स्नानीयानुलेपने तदु-द्वर्तने फलमाह तत्रैव “यवगोधूमजैश्चूर्णैरुद्वर्त्त्योष्णेनवारिणा प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात्” ।स्मृतिः “चतुरङ्गुलविस्तारा दीर्घा हस्तद्वयावधि पताकालोकपालानां दशानां परिकीर्तितः” पञ्चहस्तश्च वैदण्डः पताकानां प्रकीर्तितः ज्योतिषे “दुग्धं स-शर्करञ्चैव धृतं दधि तथा मधु पञ्चामृतमिदं प्रोक्तंविधेयं सर्वकर्मसु” प्रतिष्ठानन्तरं मात्स्ये “ततः सहस्रंविप्राणामथ वाष्टशतं तथा भोजयेच्च यथाशक्त्या पञ्चा-शद्वाथ विंशतिम्” षोडशोपचाराः “आसनं स्वागतंपाद्यमर्घ्यमाचमनीयकम् मधुपर्काचमस्नानवसनाभ-रणानि गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा” ।दशोपचारास्तु “पाद्यार्घ्यमाचमनीयं मधुपर्काचमनेअपि गन्धादिपञ्चकञ्चेति उपचारा दशोदिताः” ।पञ्चोपचारास्तु “गन्धादयोनैवेद्यान्ताः पूजा पञ्चोपचा-रिका” उपचारद्रव्याणि शारदायाम् “पाद्यं श्या-माकदुर्वाब्जविष्णुक्रान्ताभिरीरितम्” विष्णुक्रान्ताअपराजिता एतद्द्रव्ययुक्तं जलमिति शेषः “गन्धपुष्पा-क्षतयवकुशाग्रफलसर्षपैः सदूर्वैः सर्वदेवानामेतदर्घ्य-मुदीरितम्” एतद्युक्तं जलमित्यर्थः “जातीलवङ्ग-कक्कोलैर्जलमाचमनीयकम् आज्यं दधि मधून्मिश्रंमधुपर्कं निवेदयेत्” कात्यायनः “मधुपर्कं दधिघृत-मधु पिहितं कांस्ये कांस्येन” मधुपर्केति स्थाने स्नानी-येति पाठः पूर्वोक्तद्रव्ययुक्तं जलमात्रं वा “गन्धश्च-न्दनकर्पूरकालागुरुभिरीरितः” राघषभट्टधृतम्“शङ्खपात्रस्थितं गन्धं मन्त्रैः कुर्यात् कनिष्ठया कनि-ष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रकीर्तिता” पुष्पाणि तत्तद्देव-देयानि “अगुरूशीरगुग्गुलुमधुपर्ककुचन्दनैः धूप-वेदाज्यसंमिश्रैश्चूर्णैर्देवस्य देशिकः तत्र तत्र जलंदद्यात् उपचारान्तरान्तरे” राघवभट्टधृतम् “सर्वोप-चारवस्तूनामभावे भावनै हि निर्मलेनोदकेनाथपूर्णतेत्याह नारदः” नारसिंहे “पञ्चगव्येन देवेशं यःस्नापयति भक्तितः ब्रह्मकूर्चविधानेन विष्णुलोके मही-यते” ब्रह्मकूर्चविधानेन कुशोदकयुक्तेन पञ्चगव्येन ।ब्रह्मपुराणे “देवानां प्रतिमा यत्र घृताभ्यक्तक्षमा भवेत् ।पलानि तस्यै देयानि श्रद्धया पञ्चविंशतिम् अष्टोत्तर-शतं स्नाने पलं देयञ्च सर्वदा यवगोधूमजैश्चूर्णैरुद्वर्त्त्यो-ष्णेन वारिणा प्रक्षाल्य देवदेवेशं वारुणं लोकमा-प्नुयात् पादपीठन्तु यो दद्यात् विल्वपत्रैर्निघषयत् ।उष्णाम्बुना प्रक्षाल्य सर्वपापैः प्रमुच्यते” देवीपुराणम्“होमोग्रहादिपूजायां शतमष्टोत्तरं भवेत् अष्टा-विंशतिरष्टौ वा यथाशक्ति विधीयते” कात्यायनः“आज्यद्रव्यमनादेशे जुहोतिषु विधीयते” कालिका-पुराणम् “यद्दीयते देवेभ्यो गन्धपुष्पादिक” तथा ।अर्घ्यपात्रस्थितैस्तोयैरभिषिच्य तदुत्सृजेत्” नरसिंह-पुराणम् “स्नाने वस्त्रे नैवेद्ये दद्यादाचमनीयकम् ।अत्र नीराजनविधिः पूजारत्नाकरे देवीपुराणे “भक्त्यापिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः ओषधीभिश्च मे-ध्याभिः सर्ववीजैर्यवादिभिः नवम्यां पर्वकालेषु यात्रा-काले विशेषतः यः कुर्य्याच्छ्रद्धया वीर! देव्या नीरा-जनं नरः शङ्खभेर्यादिनिनदैर्जयशब्दैश्च पुष्कलैः ।यावतोदिवसान् वीर! देव्यानीराजनं कृतम् तावद्वर्ष-सहस्राणि स्वर्गलोके महीयते यस्तु कुर्य्यात् प्रदी-पेन सूर्यलोकं गच्छति” पर्वकाले उत्सवकाले ।देव्या इति स्त्रीत्वमविवक्षितम् अथ प्रतिष्ठितमूर्त्तौकदाचित् पूजाऽभावे महाकपिलपञ्चरात्रम् “एकाहंपूजाविहतौ कुर्य्याद्द्विगुणमर्चनम् त्रिरात्रे तुमहापूजा संप्रोक्षणमतःपरम् मासादूर्द्ध्वमनेकाहं पू-जनं चेद्विहन्यते प्रतिष्ठैवोच्यते कैश्चित् कैश्चित् संप्रो-क्षणक्रमः” संप्रोक्षणक्रमः “संप्रोक्षणन्तु देवस्य देवस्यत्वेति(४)पूर्ववत् गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्यच प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् स-पुष्पं सकुशं पाणिं न्यसेद्देवस्य मस्तके पञ्चवारं जपेन्मू-लमष्टोत्तरशतं तथा ततो मूलेन मूर्द्धादि पीठान्तं चैवसंस्पृशेत्” इति “तत्त्वन्यासं लिपिन्यासं मन्त्रन्या-सञ्च विन्यसेत् प्राणप्रतिष्ठामन्त्रेण प्राणस्थापनमा-चरेत् पूजाञ्च महतीं कुर्य्यात् स्वतन्त्रोक्तां यथा-विधि यागहीनादिषु प्रायः संक्षेपेण विधिः स्मृतः” ।अथास्पृश्यस्पर्शने तु बौधायनः “द्रव्यवत् कृतशौचानांदेवार्चानां भूयः प्रतिष्ठापनमिति” देवार्चा देवता-प्रतिमा तासामस्पृश्यस्पृष्टानां प्रकृतिद्रव्यस्य ताम्रा-देर्यथेष्टं शौचं कृत्वा पुनः प्रतिष्ठापनात् पूज्यत्वमि-त्यर्थः इति रत्नाकरे आदिपुराणे “खण्डितेस्फुटिते दग्धे भ्रष्टे स्थानविवर्जिते यामहीने पशु-स्पृष्टे पतिते दुष्टभूमिषु अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ।इति सर्वगतो विष्णुः परिभाषाञ्चकार ह” अत्रवृद्धिश्राद्धहोमौ त्वावश्यकौ यथाशक्तीत्यभिधानात्इति कश्चित् तथा चाल्पधनानां यज्ञं विनाऽपिपूजनमाह विष्णुधर्मोत्तरे प्रथमकाण्डम् “पूजाकर्मबहिर्वेद्यां श्रद्धया भृगुनन्दन! त्वल्पदक्षिणैर्यज्ञैर्य-जेतेह कदाचन विष्णुदेवनिकायस्थं यथाश्रद्धमरि-न्दम! तपसा पूजयेन्नित्यं यस्मादल्पधनो नरः” यद्यो-काहे वास्तुयागगृहोत्सर्गौ तदा तन्त्रेण वृद्धिश्राद्धंकुर्यात् तथा एकस्मिन्नग्नौ होमत्रयं विधेयं एका-ग्नावनेकहोमकरणे एकं परिसमूहनादिकमाह गो-भिलः “गणेष्वेकं परिसमूहनमिध्मवर्हिः पर्य्युक्षण-माज्यभागाविति” पूजादिकं प्रत्येकमेव” ।तत्र प्रतीकसूचितामन्त्राः क्रमेण यथा(१) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीवचक्षुराततम्” ऋ० १२६(२) “मनो जूतिर्जुषतामज्यस्य वृहस्पतिर्यज्ञमिमम् तनोत्व-रिष्टं यज्ञं समिमं दधातु विश्वे देवास इहमादय-न्तामोँ प्रतिष्ठ” यजु० १२(३) अत्र शुद्धवत्या शुद्धपदवत्या ताश्च तिस्र ऋचः ऋ० ९७सूक्तास्थिता यथा“एतोन्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना शुद्धैरुक्थैर्वा-वृध्यासं शुद्ध आशीर्वान् ममत्तु इन्द्र! शुद्धो नआगहि शुद्धः शुद्धाभिरूतिभिः शुद्धोरयिं निधारयशुद्धो ममद्धि सोम्यः इन्द्र! शुद्धो हि नो रथिंशुद्धो रत्नानि दाशुषे शुद्धो वृत्राणि जिघ्रसे शुद्धोवाजं सिषाससि ।(४) “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्वाहुभ्यां पुष्णोहस्ताभ्यांप्रतिगृह्णामि” यजु० ६विस्तरस्तु अग्निपु० ५६ अ० आदौ उक्तो यथा“प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः प्रकृतिःपिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः इच्छा-फलार्थिभिस्तस्मात् प्रतिष्ठा क्रियते नरैः गर्भसूत्रं तुनिःसार्य प्रासादस्याग्रतो गुरुः अष्टषोडशविंशान्तंमण्डपञ्चाधमादिकम् स्नानार्थं कलसार्थञ्च याग-द्रव्यार्थमर्द्धतः त्रिभागेणार्द्धभागेन वेदिं कुर्य्यात्तुशोभनाम् कलसैर्घण्टिकाभिश्च वितानाद्यैश्च भूषयेत् ।पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत् अलङ्कृतोगुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत् अङ्गुलीयप्रभृतिभिर्मूर्त्तिपान् वलयादिभिः कुण्डे कुण्डे स्थापयेच्चमूर्त्तिपांस्तत्र पारगान्” (मूर्तिपान् मूर्तिनिर्मातृशि-ल्पिनः) “चतुष्कोणे चार्द्धकोणे वर्तुले पद्मस-न्निभे पूर्वादौ तोरणार्थन्तु पिप्पलौदुम्बरौ वटम् ।प्लक्षं सुशोभनं पूर्वं सुभद्रं दक्षतोरणम् सुकर्म चसुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम् पञ्चहस्तं तुसंस्थाप्य स्योनापृथिवि (१) पूजयेत् तोरणस्तम्भमूले तुकलसान्मङ्गलाङ्कुरान् प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रंसुदर्शनम् पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः ।वैपुल्यं चास्य कुर्वीत पोडशाङ्गुलसम्मितम् सप्तहस्तो-च्छ्रितं चास्य कुर्य्यात् दण्डं समाहितः अरुणोऽग्नि-निभश्चैव कृष्णः शुक्लोऽथ पीतकः रक्तवर्णस्तथा श्वेतःकृष्णवर्णः क्रमाद ध्वजाः कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथवामनः शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।पूज्याः कोटिगुणैर्युक्ताः पूर्वाद्या ध्वजदेवताः जला-ढकसुपूरास्तु पक्वविम्बोपमा घटाः अष्टाविंशाधिकशतंकालमण्डलवर्जिताः सहिरण्या वस्त्रकण्ठाः सोदका-स्तोरणाद्वहिः घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्चकोणगान् चतुरः स्थापयेत् कुम्भानाजिघ्रेति (२) चमन्त्रतः कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत्क्रमात् इन्द्रागच्छ देवराज! वज्रहस्त! गज-स्थित! पूर्वद्वारञ्च मे रक्ष देवैः सह नमोऽस्तु ते ।त्रातारमिन्द्रमन्त्रेण (३) अर्चयित्वा यजेद् बुधः ।आगच्छाग्ने! शक्तियुत! छागस्थ! बलसंयुत! ।रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते अग्नि-र्मूर्द्धेति (४) मन्त्रेण यजेद्वा अग्नये नमः महिषस्थ!यमागच्छ दण्डहस्त! महाबल! रक्ष त्वं दक्षि-णद्वारं वैवस्वत! नमोऽस्तु ते वैवस्वतं सङ्गमनमित्य-नेन (५) यजेद् यमम् नैरृतागच्छ खड्गाढ्य!बलवाहनसंयुत! इदमर्घ्यमिदं पाद्यं रक्षत्वं नैरृतींदिशम् एष ते इति (६) मन्त्रेण यजेदर्घ्यादि-भिर्न्नरः मकरारूढ! वरुण! पाशहस्त! महा-बल! आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोऽस्तु ते ।उरुं हि राजा (७) वरुणं यजेदर्घ्यादिभिर्गुरुः ।आगच्छ वायो! सबल! ध्वजहस्त! सवाहन! ।वायव्यं रक्ष देवैस्त्वं समरुद्भिर्न्नमोऽस्तु ते वात (८)इत्यादिभिश्चार्चेदोन्नमो वायवेऽपि वा आगच्छसोम! सबल! गदाहस्त! सवाहन! रक्ष त्वमु-त्तरद्वारं सकुवेर! नमोऽस्तु ते सोमं राजान-मिति (९) वा यजेत्सोमाय वै नमः आगच्छे-शान! सबल! शूलहस्त! वृषस्थित! यज्ञमण्ड-पस्यैशीं दिशं रक्ष नमोऽस्तु ते ईशानादस्येति (१०)यजेदीशानाय नमोऽपि वा ब्रह्मन्नागच्छ हंसस्थ!स्रुक्स्रुवव्यग्रहस्तक! सलोकोर्द्ध्वां दिशं रक्ष यज्ञ-स्याज नमोऽस्तु ते हिरण्यगर्भेति (११) यजेन्नमस्तेब्रह्मणेऽपि वा अनन्तागच्छ चक्राढ्य! कूर्मस्था-हिगणेश्वर! अधोदिशं रक्ष रक्ष अनन्तेश! नमो-ऽस्तु ते नमोऽस्तु सर्पेति (११) यजेदनन्ताय नमोऽपिवा” १० ५६ अ० ।(अत्राध्याये प्रतीकसूचिता मन्त्राः क्रमेण दर्श्यन्ते यथा(१) “स्योना पृथिवि नो भवानृक्षरा निवेशनी यच्छानःशर्म सप्रथाः” यजु० ३५ २१ ऋग्वेदे तु पृथिवी इति पाठः(२) “आजिघ्र कलसं मह्या त्वा विशन्त्विन्दवः पुनरूर्ज्रानिवर्तस्व सहस्रं धुक्षोरुधारा पयस्वती पुनर्मा विशता-द्रयिः” यजु० ४२(३) “त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं शूर-मिन्द्रम् ह्वयामि शक्रं पुरुहूतमिन्द्र स्वस्ति नोमथवा धात्विन्द्रः” यजु० २० ५०(४) “अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् अर्पारेतांसि जिन्वति” यजु० १२(५) “वैवस्वतं सङ्कमनं जनानां यमं राजानं हविषा दु-वस्य” ऋ० १० १४ अर्घर्चम् ।(६) “एष ते निरृते! भागस्त्वं जुषस्व स्वाहा” यजु० ३५(७) “उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा अपदे पादा प्रतिधातवेऽकरुतोपवक्ता हृदया-विधश्चित्” ऋ० २४ ८(८) “वात वातु भेषजं शम्भु मयोभु नो हृदे प्रणआयूंषि तारिषत्” ऋ० १० १८६ १(९) “सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे आदित्यान्विष्णुं सूर्यं ब्रह्माणञ्च वृहस्पतिम्” ऋ० १० १४१ ।(१०) “ईशानादस्य भुवनस्य भूरेर्न वा यो यद्रुद्रादसूर्यम्”ऋ० ३३ अर्द्धर्चम्(११) “हिरण्यगर्भः समवर्तताग्रेभूतस्य जातः पतिरेक आ-सीत् दाधार पृथिवीं द्यामुतेमां कस्मै देवाय ह-बिषे विधेम” ऋ० १० १२१ १(१२) “नमोऽस्तु सर्पेभ्यो ये के पृथिवीमनु येअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः” यजु० १३ ६)“भूमेः परिग्रहं कुर्य्यात् क्षिपेद्व्रीहींश्च सर्षपान् ।नारसिंहेन रक्षोघ्नन् प्रोक्षयेत् पञ्चगव्यतः भूमिं घटेतु संपूज्य सरत्ने साङ्गकं हरिम् अस्त्रमन्त्रेणकवचं तत्र चाष्टशतं यजेत् अच्छिन्नधारया सिञ्चन्व्रीहीन् संस्कृत्य धारयेत् प्रदक्षिणं परिभ्राम्य कलसंविकिरोपरि सवस्त्रे कलसे भूयः पूजयेदच्युतं श्रियम् ।योगे योगेति मन्त्रेण (१) न्यसेच्छय्यान्तु मण्डले ।कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु विद्या-धिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम् वामनंदिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम् पद्मनाभं दामो-दरमैशान्यां स्नानमण्डपे अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे सवेदिके स्नानमण्डपके सर्वद्रव्याण्यानीयनिक्षिपेत् स्नानकुम्भेषु कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत् ।कलसाः स्थापनीयास्तु अभिषेकार्थमादरात् वटोदुम्ब-रकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान् पलाशार्जुनप्लक्षांस्तुकदम्बबकुलाम्रकान् पल्लवांस्तु समानीय पूर्वकुम्भे वि-निःक्षिपेत् पद्मकं रोचनां दूर्वां दर्भपिञ्जलमेव ।जातीपुष्पं कुन्दपुस्पञ्चन्दनं रक्तचन्दनम् सिद्धार्थंतगरञ्चैव तण्डुदक्षिणे न्यसेत् सुवर्णं रजतञ्चैवकूलद्वयमृदन्तथा नद्याः समुद्रगामिन्या विशेषात् जा-ह्नवीमृदम् गोमयञ्च यवान् शालींस्तिलांश्चैवापरेन्यसेत् विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीम् ।सहदेवीं महादेवीं बलां व्याघ्रीं सलक्ष्मणाम् ऐशा-न्यामपरे कुम्भे माङ्गल्यान्विनिवेशयेत् वल्मीकमृत्तिकांसप्तस्थानोत्थामपरे न्यसेत् जाह्नवीबाल्कातोयं विन्य-सेदपरे घटे वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम् ।मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत् तीर्थपर्वतमृ-द्भिश्च युक्तमप्यपरे न्यसेत् नागकेशरपुष्पञ्च काश्मीरम-परे न्यसेत् वैदुर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेवच एतान्येकत्र निःक्षिप्य स्थापयेद्देवसत्तमम् नदी-नदतडागानां सलिलैरपरं न्यसेत् एकाशीतिपदे चा-न्यान्मण्डपे कलसान् न्यसेत् गन्धोदकाद्यैः सम्पूर्णान्श्रीसूक्ते (२) नाभिमन्त्रयेत् यवं सिद्धार्थकं गन्धं कुशाग्रंचाक्षतं तथा तिलान् फलं तथा पुष्पमर्ध्यार्थं पूर्वतोन्यसेत् पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा ।पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे कक्कोलकंलवङ्गं तथा जातीफलं शुभम् उत्तरे ह्याचमनायअग्नौ दूर्वाक्षतान्वितम् पात्रं नीराजनार्थं तथो-द्वर्त्तनमानिले गन्धपुष्पान्वितं पात्रमैशान्यां पात्रकेन्यसेत् मुरामांसीं चामलकं सहदेवीं निशाद्वयम् ।षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय शङ्खं चक्रञ्चश्रीवत्सं कुलिशं पङ्कजादिकम् हेमादिपात्रे कृत्वातु नानावर्णादिपुष्पकम्” ५७ अ०(१) (“योगे योगे तवस्तरां वाजे वाजे हवामहे सखायइन्द्रमूर्तये” ऋ० ३० ७)(२) श्रीसूक्तं हिरण्यवर्णामित्यादि पञ्चदशर्च्चमृग्मेद परि-शिष्टोक्तं तुलादाना० १६५ पृष्ठादौ दृश्यम् ।“ऐशान्यां जनयेत् कुण्डं गुरुर्वह्निञ्च वैष्णवम् ।गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान् प्रोक्ष-येत् कारुशालायां शिल्पिभिर्मूर्तिपैर्व्रजेत् तूर्यशब्दैःकौतुकञ्च बन्धयेद्दक्षिणे करे विष्णवे शिपिविष्टाय (१)ऊर्णासूत्रेण सर्षपैः पट्टवस्त्रेण कर्तव्यं देशिक-स्यापि कौतुकम् मण्डपे प्रतिमां स्थाप्य सवस्त्रांपूजितां स्तुवन् नमस्तेऽर्चे! सुरेशानि! प्रणीते!विश्वकर्मणा प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः ।त्वयि सम्पूजयामीशे नारायणमनामयम् रहिताशिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव एवं विज्ञाप्य प्रतिमांनयेत्तां स्नानमण्डपम् शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गांप्रदापयेत् चित्रं देवेति (२) मन्त्रेण नेत्रे चोन्मीलये-त्ततः अग्निर्ज्योतीति (३) दृष्टिञ्च दद्याद्वै भद्रपीठके ।ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा दूर्वांकुशाग्रं देवस्य दद्याच्छिरसि देशिकः मधुवातेति (४)मन्त्रेण नेत्रे चाभ्यञ्जयेद् गुरुः हिरण्यगर्भमन्त्रेण (५)इमं मेति (६) कीर्त्तयेत् घृतेनाभ्वञ्जयेत् पश्चात् पठन्घृतवतीं (७) पुनः मसूरपिष्टेनोद्वर्त्य अतो देवेति (८)कीर्त्तयन् क्षालयेदुष्णतोयेन सप्त तेऽग्नेति (९) देशिकः ।द्रुपदादि (१०) वेत्यनुलिम्पेदापो हि ष्ठेति (११) सेचयेत् ।नदीजैस्तीर्थजैः स्नानं पावमानीति (१२) रत्नजैः समुद्रंगच्छ (१३) चन्दनैस्तीर्थमृत्कलसेन शन्नो देवीः (१४)स्नापयेच्च गायत्र्याप्युष्णवारिणा पञ्चमृद्भिर्हिरण्ये-ति (१५) स्नापयेत्परमेश्वरम् सिकताद्भिरिमं मेति (१६)वल्मीकोदघटेन तद्विष्णीरित्यो (१७) षध्यद्भिर्याओषधीति (१८) मन्त्रतः यज्ञायज्ञेति (१९) काषायैःपञ्चभिर्गव्यकैस्ततः पयः पृथिव्यां (२०) मन्त्रेण याःफलिनी (२१) फलाम्बुभिः विश्वतश्चक्षुः (२२) सौम्येनपूर्वेण कलसेन सोमं राजानमित्येव (२३) विष्णो-रराटं (२४) दक्षतः हंसः शुचिः (२५) पश्चिमेनकुर्यादुद्वर्तनं हरेः मूर्द्धानन्दिवो (२६) मन्त्रेण धात्रीमांसीं के ददेत् मानस्तोकेति (२७) मन्त्रेण गन्धद्वारेति (२८) गन्धकैः इदमापेति (२९) घटैरेका-शीतिपदस्थितैः एह्येहि भगवन्! विष्णो! लोका-नुग्रहकारक! यज्ञभागं गृहाणेमं वासुदेव! नमो-ऽस्तुते अनेनावाह्य देवेशं कुर्यात् कौतुकमोच-नम् मुञ्चामि त्वेति (३०) सूक्तेन देशिकस्यापिमोचयेत् पाद्यं हिरण्मयेनार्प्य (३१) मतो देवेति (३२)चार्घ्यकम् मधुवाता (३३) मधुपर्क्कं मयि गृह्णामि (३४)चाचमेत् अक्षन्नमीमदन्तेति (३५) किरेद्दूर्वाक्षतं बुधः ।काण्डात् (३६) निर्मञ्छनं कुर्याद्गन्धं गन्धवतीति (३७) ।तत्त्वा यामीति (३८) माल्यञ्च इदं विष्णुः (३९) पवित्रकम् ।वृहस्पते (४०) वस्त्रयुग्मं वेदाहमित्युत्तरीयकम् (४१)महाव्रतेन (४२) सकली पुष्पं चौषधयः (४३) क्षिपेत् धूपंदद्याद्धूरसीति (४४) बिभ्राट्सूक्तेन (४५) चाञ्जनम् ।युञ्जन्तीति (४६) तिलकं दीर्घायुष्टेति (४७) माल्यकम् ।इन्द्रं विश्वेति (४८) छत्रन्तु आदर्शन्तु विराजतः (४९)चामरन्तु विकर्णेन भूषां रथन्तरेण (५०) व्यजनंवायुदैवत्यैर्मुञ्चामि त्वेति (५१) पुष्पकम् वेदाद्यैःसंस्तुतिं कुर्याद्धरेः पुरुषसूक्ततः सर्वमेतत्समं कुर्यात्पिण्डिकादौ हरादिके देवस्योत्थानसमये सौपर्णं (५२)सूक्तमुच्चरेत् उत्तिष्ठेति (५३) समुत्थाप्य शय्याया मण्डपेनयेत् शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना (५४)अतो देवेति (५५) सूक्तेन प्रतिमां पिण्डिकां तथा ।श्रीसूक्तेन शय्यायां विष्णोस्तु सकलीकृतिः ।मृगराजं वृषं नागं व्यजनं कलसं तथा वैजयन्तींतथा भेरीं दोपमित्प्रष्टमङ्गलम् दर्शयेदश्वसूक्तेन (५६)पाददेशे त्रिपादिति (५७) उखां पिधानकं पात्र-मन्दिकां दर्विकां ददेत् मुषलोलूखलं दद्याच्छिलांसम्मार्जनीं तथा तथा भोजनभाण्डानि गृहोपक-रणानि शिरोदेशे निद्राख्यं वस्त्ररत्नयुतं घटम् ।खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः” ५८ अ०(५८ अ० प्रतीकसूचितामन्त्राः यथा(१) “विष्णवे शिपिविष्टाय स्वाहा” यजु० २० २२(२) “चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेराप्राद्यावा पृथिवी चान्तरिक्षं सूर्य आत्मा जगतस्त-स्थुषश्च” ऋ० ११५ ।(३) “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा! सूर्योज्योति-र्ज्योतिः सूर्यः स्वाहा! अग्निर्वर्च्चोज्योतिर्वर्च्चः स्वाहा!सूर्योर्वर्च्चोज्योतिर्वर्च्चः स्वाहा! ज्योतिः सूर्यः सूर्य्योज्योतिः स्वाहा” यजु० ९(४) “मधुवाता ऋतायते मधु क्षरन्ति सिन्धबः माध्वीर्नःसन्त्वोषधीः” यजु० १३ २७ अश्र एकैव ऋक् पाठ्या ।(५) “हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् ।(६) “इमं मे वरुण! श्रुधी हवमद्या मृडय त्वामव-स्युराचके” यजु० २१ १(७) “घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा”यजु० ३४ ४५(८) अतो देवा अवन्तुव इत्यादि प्राग्वत् ।(९) “सप्त तेऽग्ने! समिधः सप्त जिह्वाः सप्त ऋषयः सप्त-धामप्रियाणि सप्त होत्राः सप्तधा त्वा यजन्ति सप्तयो-नीरापृणस्व घृतेन स्वाहा” यजु० १७ ७९(१०) द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव पतंपवित्रेणेवाज्यमापः शुद्धन्तु मैनसः” यजु० २५ २०(११) “आपोहि ष्ठा मयोभुवस्तान ऊर्जे दधातन महेरणाय चक्षमे” ऋ० १० १(१२) “पावमानसूक्तम् स्वादिष्ठयेत्यादि हिन्वन्तीत्यत्तम् पञ्च-षष्ठिसूक्तात्मकम् मत्कृत तुलादानादिपद्धतौ १६७ अवधि१८५ पृ० पर्यन्ते दृश्यम् यजुर्वेदोक्तं पुनन्तु पितरइत्यादि नवर्चं तत्रैव २०६ पृ० दृश्यम्(१३) समुद्रं गच्छ स्वाहा अन्तरिक्षं गच्छ स्वाहा देवं सवि-तारं गच्छ स्वाहा यजु० २१(१४) “शन्नोदेवीरभीष्टय आपो भवन्तु प्रीतये शंयोरमि-स्रचन्तु नः” ऋ० १० ४(१५) “हिरण्यगर्भः समवर्तताग्रे इत्यादि प्राग्वत् ।(१६) “इमं मे गङ्गे यमुने! सरस्वति! शुतुद्रि! स्तोमसचतापरुष्णया असिक्न्या मरुद्वृधे वितस्तयाऽऽ-र्जीकीये शृणुह्यासुषोमया” ऋ० १० ७५ ५(१७) “तद्विष्णोः परमं पदं सदा पश्यन्ति शूरयः दिवीवचक्षुराततम्” ऋ० २२ २०(१८) “याओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः तासामसि त्वमुत्तमारं कामाय शं हृदे” यजु० १२ ९२(१९) “यज्ञायज्ञा वो अग्नये गिरा गिरा दक्षसे प्रप्रवयममृतं जातवेदसं प्रियं मित्रं शंसिषम्” ऋ० ४८ १(२०) “पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे प-योधाः पयस्वतीः प्रदिशः सन्तु मह्यम्” ऋ० १८ ३६(२१) “याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।वृहस्पतिप्रसूतास्ता नोमुञ्चन्त्वंहंसः” यजु० १२ ८९(२२) “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्व-तस्पात् सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जन-यन् देवएकः” ऋ० १० मण्डले सूक्ते ऋक् ।(२३) सीमं राजानमित्यादि प्राग्वत् ।(२४) “विष्णोरराटमसि विष्णोः श्नप्त्रेस्थः विष्णोःस्यूरसि विष्णोर्घ्रुवोऽसि वैष्णवमसि विष्णवे त्वा”यजु० २१ ।(२५) “हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दूरो-णसत् नृषद्वरसदृतसद् व्योमसदब्जागोजा ऋतजाअद्रिजा ऋतं वृहत्” यजु० १० २४(२६) “मूर्द्धानं किवो अरतिं पृथिव्या वैश्वानरमुत आ-जातमग्निम् कविं सम्राजमतिथिं जनानामासन्नापात्रंजनयन्त देवाः” यजु० २४(२७) “मा स्तोके तनये मा आयुषि मा नो गोषुमा नो अश्वेषु रीरिषः मा नो वीरान् रुद्र! भामिनोबधीर्हविष्मन्तः सदामित्त्वा हवामहे” यजु० १६ १६(२८) “गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरींसर्वभूतानां तामिहोपह्वते श्रियम्” श्रीसूक्ते मन्त्रः(२९) “इदमापः प्रवहत यत्किञ्च दुरितं मयि यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम्” ऋ० २३ २२(३०) “मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात् याहिर्जग्राह यदि वैतदेनं तस्या इ-न्द्राग्नी प्रमुसुक्तमेनम् यदि क्षितायुर्यदि वा परेतोयदि मृत्योरन्तिकं नीत एव तमाहरामि निरृतेरुपस्थादहार्षमेनं शतशारदाय सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् शतं यथेमंशरदो यातीन्द्रो विश्वस्य दुरितस्य पारम् शतंजीव शरदो वर्द्धमानः शतं हेमन्तान् शतमु वसन्तान् ।शतमिन्द्राग्नी सधिता वृहस्पतिः शतायुषा हविषेमंपुनर्दुः आहार्षं त्वाविदं त्वा पुनराग पुनर्नव ।सर्वाङ्ग! सर्वंते चक्षुः सर्वमादृश्यतेऽविदम्” ऋ० १० १६१(३१) “अतो देवा अवन्तु इत्यादि प्राग्वत् ।(३२) “हिरणमयेन पात्रेण सत्यस्यापिहितं मुखम् ।योऽसावादित्ये पुरुषः सोऽसावहम्” यजु० ४० १७(३३) मधुवाता इत्यादि प्राग्वत् ऋगेका ।(३४) मयि गृह्णाम्यग्ने! अग्निं रायस्पोषाय सुप्रजास्त्वायसुवीर्य्याय मामु देवताः सचन्ताम्” यजु० १३ १(३५) “अक्षन्नमीमदन्त ह्यवप्रिया अधूषत अस्तोषत स्वभा-नबो विप्रा विष्टया मतीयोजान्विन्द्र! ते हरी” ऋ०२ २(३६) “काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि ।एवा नो दूर्वे प्रतनु सहस्रेण शतेन च” यजु० १३ २०(३७) गन्धवती गन्धद्वारामित्यादि प्राग्वत् ।(३८) “तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यज-मानो हविर्भिः अहेडमानो वरुणस्य बोध्युरुशंस-मा आयुः प्रमोषीः” ऋ० २४ ११(३९) “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूढमस्यपांसुरे” ऋ० २२ १७(४०) “वृहस्पते! अति यदर्य्यो अर्हाद् द्युमद्विभाति क्रतु-मज्जनेषु यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणंधेहि चित्रम्” यजु० २६ ३(४१) “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः पर-स्तात् तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था-विद्यतेऽयनाय” यजु० ३१ १२(४२) महाव्रतं यद्वर्च्चो हिरण्यस्येत्यस्यामृचि गेयं साम(४३) “ओषधयः समवदन्त सोमेन सह राज्ञा यस्मै-कृणोति ब्राह्मणस्तं राजन् पारयामसि” यजु० १२ ९६(४४) धूरसि धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयंधूर्वामः देवानामसि वह्नितमं सस्रितमं पप्रितमंजुष्टतमं देवहुतम्” यजु० ८(४५) “बिभ्राट् सूक्तं सप्तदशर्च्चं बिभ्राड वृहत् पिबतुसोम्यम्, इत्यादि करतां नः सुराधसः इत्यन्तम्” यजु०३३ ३० मन्त्रावधि ४६ मन्त्र पर्यन्तं मत्कृततुलादानादिपद्धतौ १२२ पत्रावधि ११३ पत्रपर्यन्ते दृश्यम् ।(४६) “युञ्जन्ति व्रघ्नमरुषं चरन्तं परितस्थुषः रोचन्तेरोचना दिवि” यजु० २३ ५(४७) दीर्घायुष्ट औषधे! खनिता यस्मै त्वा खनाम्य-हम् अथो त्वं दीर्घायुर्भूत्वागत्वन् शाविरोहतम्”यजु० १२ १००(४८) “इन्द्रं विश्वा अवीवृधन्त्समुद्रस्य व्यचसं गिरः ।रथीतमं रथीनां राजानं सत्पतिं पतिम्” ऋ० ११ १(४९) “ततो विराडजायत विराजी अधिपूरुषः जातोअत्यरिच्यत पश्चाद्भूमिमथो पुरः” यजु० ३१ ५(५०) रथन्तरं साम अभि त्वा शूर इत्यस्यामृचि गेयं तच्चमत्कृततुलादानादिपद्धतौ १९२ ९३ पत्रे दृश्यम् ।(५१) मुञ्चामि त्वा इत्यादि प्राग्वत् ऋगेका ।(५२) सौपर्णं सूक्तम् ऋग्वेदप्रसिद्धम् ।(५३) “उत्तिष्ठ ब्रह्मणस्पते! देवयन्तस्त्वेमहे उपप्रयन्तुमरुतः सुदानव इन्द्र! प्राशूर्भवा सचा” यजु० ३४ ५६(५४) ब्रह्मरथं सामभेदः ।(५५) अतो देवा इत्यादि षडृचम् ऋ० २२ तच्च मत्-कृत तुलादानादि पद्धतौ ८८ ८९ पत्रे दृश्यम् ।(५६) अश्वसूक्तम् ऋग्वेद प्रसिद्धम् ।(५७) त्रिपादूर्द्ध उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ।ततो विष्वङ् व्यक्रामत् साशनानशने अभि यजु० ३१ ४)“हरेः सान्निध्यकरणमधिवासनमुच्यते सर्वज्ञं सर्वगंध्यात्वा आत्मानं पुरुषोत्तमम् ओङ्ककारेण समायोज्यचिच्छक्तिमभिमानिनीम् निःसार्य्यात्मैकतां कृत्वास्वस्मिन सर्वगते विभौ योजयेन्मरुता पृथ्वीं वह्निवीजेनदीपयेत् संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ।अधिभूतादिदेवैस्तु साध्याख्यैर्विभवैः सह तन्मात्रपा-त्रकान् कृत्वा संहरेत्तत्क्रमाद् बुधः आकाशं मन-साहत्य मनोऽहङ्करणे कुरु अहङ्कारञ्च महति तञ्चाप्य-व्याकृते नयेत् अव्याकृतं ज्ञानरूपे वासुदेवः ईरितः ।स तामव्याकृत्वां मायामवष्टभ्य सिसृक्षया सङ्कर्षणाख्यःशब्दात्मा स्पर्शाख्यमसृजत् प्रभुः क्षोभ्य मायां सप्रद्युम्नं तेजोरूपं आसृजत् अनिरुद्धं रसमात्रंव्रह्माणं गन्धरूपकम् अनिरुद्धः ब्रह्मा अपआदौ ससर्ज तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत्पञ्चभूतवत् तस्मिन् संक्रामिते जीवे शक्तिरात्मोपसं-हृता प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते ।जीवो व्याहृतिसंज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः प्राणै-र्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्तिकी अहङ्कारस्ततोजज्ञे मनस्तस्मादजायत अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पा-दियुतास्ततः शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इतिस्मृताः ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु ।त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु पादौपायुस्तथा पाणी वागुपस्थश्च पञ्चमः कर्मेन्द्रियाणिचैतानि पञ्चभूतान्यतः शृणु आकाशवायुतेजांसि स-लिलं पृथिवी तथा स्थूलमेभिः शरीरन्तु सर्वाधारंप्रजायते एतेषां वाचका मन्त्रा न्यासायोच्यन्त उ-त्तमाः जीवभूतं भकारन्तु जीवोपाधिगतं न्यसेत् हृ-दयस्थं बकारन्तु बुद्धितत्त्वं न्यसेत् बुधः फकारमपितत्रैव अहङ्कारमयं न्यसेत् मनस्तत्त्वं पकारन्तु न्यसेत्संकल्पसम्भवम् शब्दतन्मात्रतत्त्वन्तु नकारं मस्तकेन्यसेत् स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ।दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् थकारं वस्ति-देशे तु रसतन्मात्रकं न्यसेत् तकारं गन्धतन्मात्रंजङ्घयोर्विनिवेशयेत् णकारं श्रोत्रयोर्न्यस्य ढकारं वि-न्यसेत्त्वचि डकारं नेत्रयुग्म तु रसनायां ठकार-कम् टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ।झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः जकारंपादयोर्न्यस्य छं पायौ चमुपस्थके विन्यसेत् पृथिवीतत्त्वंङकारं पादयुग्मके वस्तौ वकारं गं तत्त्वं तैजसंहृदि विन्यसेत् खकारं वायुतत्त्वञ्च नासिकायां निवे-शयेत् ककारं विन्यसेन्नित्यं खतत्त्वं भस्तके बुधः ।हृत्पुण्डरीके विन्यस्य मकारं सूर्यदैवतम् द्वासप्तति-सहस्राणि हृदयादभिनिःसृताः कलाषोडशसंयुक्तंषकारं तत्र विन्यसेत् तन्मध्ये चिन्तयेन्मन्त्री विन्दुं व-ह्नेस्तु मण्डलम् सकारं विन्यसेत्तत्र प्रणवेन सुरो-त्तम! यं परमेष्ठ्यात्मने रं नमः पुरुषात्मने ।लं नमोविश्वात्मने न्यस्य निवृत्त्यात्मने नमः ॐशं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः स्थाने तुप्रथमा योज्या द्वितीया आसने मता तृतीये शयनेतद्वच्चतुर्थी पानकर्मणि प्रत्यर्चायां पञ्चमी स्यात्पञ्चो-पनिषदः स्मृताः हकारं विन्यसेन्मध्ये ध्यात्वा मन्त्र-मयं हरिम् यां मूर्तिं स्थापयेत्तस्या मूलमन्त्रं न्यसे-त्ततः नमो भगवते वासुदेवायेति मूलकम् शि-रोध्राणललाटेषु मुखकण्ठहृदि क्रमात् भुजयोर्जङ्घ-योरङ्घ्र्येः केशवं शिरसि न्यसेत् नारायणं न्यसेद्वक्त्रेग्रीवायां माधवं न्यसेत् गोविन्दं भुजयोर्न्यस्य विष्णुंच हृदये न्यसेत् मधुसूदनकं पृष्ठे वामनं जठरेन्यसेत् कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ।हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके दामोदरंपादयोश्च हृदयादिषडङ्गकम् एतत् साधारणं प्रीक्त-मादिमूर्तेस्तु सत्तम! अथ वा यस्य देवस्य प्रारब्धं स्था-पनं भवेत् तस्यैव मूलमन्त्रेण सजीवकरणं भवेत् ।यस्या मूर्तेस्तु यन्नाम तस्याद्यं चाक्षरं यत् तत्स्वरैर्द्वादशैर्भेद्य ह्यङ्गानि परिकल्पयेत् हृदयादीनि देवेश-मूलञ्च दशमाक्षरम् यथा देवे तथा देहे तत्त्वानि विनियोजयेत् चक्राब्जमण्डले विष्णुं यजेद्गन्धादिना तथा ।पूर्ववच्चासनं दद्यात् सपात्रं सपरिच्छदम् शुभचक्रंद्वादशारं ह्युपरिष्टाद्विचिन्तयेत् त्रिनाभि चक्रं द्बिनेमिस्वरैस्तच्च समन्वितम् पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादी-न्निवेशयेत् पूजयेदारकाग्रेषु सूर्यं द्वादशधा पुनः ।कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् सबलं त्रितयंनाभौ चिन्तयेद्देशिकोत्तमः पद्मञ्च द्वादशदलं पद्ममध्येविचिन्तयेत् तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य चदेशिकः प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरम् ।गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात् द्वाद-शाक्षरवीजैस्तु केशवादीन् समर्चयेत् द्वादशारे मण्डलेतु लोकपालादिकं क्रमात् प्रतिमामर्च्चयेत् पश्चाद्ग-न्धपुष्पादिभिर्द्विजः पौरुषेण तु सूक्तेन (१) श्रियाःसूक्तेन (२) पिण्डिकाम् जननादिक्रमात् पश्चाज्जनये-द्वैष्णवानलम् हुत्वाग्निं वैष्णवैर्मन्त्रैः कुर्य्याच्छान्त्युदकंबुधः तत् सिक्त्वा प्रतिमामूर्ध्नि वह्निप्रणयनं चरेत् ।दक्षिणेऽग्निं दूतमिति (३) कुण्डेऽग्निं प्रणयेद्बुधः ।अग्निनाग्निश्च (४) पूर्वे कुण्डेऽग्निं प्रणयेद् बुधः ।उत्तरे प्रणयेदग्निमग्निं दूतं हवीमभिः (५) अग्निप्रणयनेमन्त्रस्त्वमग्ने (६) द्युभिरुच्यते पलाशसमिधानान्तु अष्टो-त्तरसहस्रकम् कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम् ।कुर्यात्ततः शान्तिहोमं मधुरत्रितयेन द्वादशार्णैः स्पृशेत्पादौ नाभिं हृन्मस्तकं ततः घृतं दधि पयो हुत्वास्पृशेन्मूर्द्धन्यथो ततः स्पृष्ट्वा शिरोनाभिपादांश्चतस्रःस्थापयेन्नदीः गङ्गा यमुना गोदा क्रमान्नाम्ना सर-स्वती दहेत्तु विष्णुगायत्र्या (७) गायत्र्या श्रपयेच्च-स्म होमयेच्च बलिं दद्यात्तदन्ते भोजयेद्द्विजान् ।सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत् दिक्-पतिभ्यो बलिं दत्वा रात्रौ कुर्य्याच्च जागरम् ब्रह्मगी-तादिशब्देन सर्वभागधिवासनात्” ५९ अ० ।५९ अ० प्रतीकसूचितामन्त्राः यथा(१) (“पौरुषसूक्तं सहस्रशीर्षेत्यादि षोडशार्च्चम्” यजु० ३१ १--१६(२) श्रीसूक्तं हिरण्यवर्णामित्यादि ऋग्वेदपरिशिष्टोक्तंपञ्चदशर्च्चम् तुलादानां १६५ पत्ते दृश्यम् ।(३) “अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे देवाँ आसा-दयादिह” यजु० २२ १७(४) “अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्य-याड् जुह्वास्यः” सामसं १(५) “अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।हव्यवाह पुरुप्रियम्” ऋ० १२ २(६) त्रमग्मे द्युभिस्त्वमाशुशुक्षणिस्त्वमद्ध्यस्त्वमश्मनस्परि ।त्वं वनेभ्यस्त्वमोषधिभ्यस्त्वं नृणां नृमते! जायसे शुचिःयजु० ११ २७(७) तद्विष्णोः परमं पदमित्यादि प्राग्वत् वैष्णवी गायत्री ।)“पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा विभ-जेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः देवमानु-षपैशाचभागेषु कदाचन ब्रह्मभागं परित्यज्यकिञ्चिदाश्रित्य चान्तरम् देवमानुषभागाभ्यां स्थाप्यायत्नात्तु पिण्डिका नपुंसकशिलायान्तु रत्नन्यासंसमाचरेत् नारसिंहेन हुत्वाथ कुर्यात् न्यासं चतेन वै व्रीहीन् रत्नत्रिधातूश्च लोहादींश्चन्दना-दिकान् पूर्वादिनवगर्तेषु न्यसेन्मध्ये यथारुचि ।अथ चेन्द्रादिमन्त्रैश्च गर्त्तो गुग्गुलुनावृतः रत्न-न्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः सशलाकै-र्दर्भपुञ्जैः सहदेवैः समन्वितैः सबाह्यान्तैश्च संस्कृत्य प-ञ्चगव्येन शोधयेत् प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेनच होमार्थे स्थण्डिलं कुर्यात् सिकताभिः समन्ततः ।सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम् अष्टदिक्षुयथान्यासं कलसानपि विन्यसेत् पूर्वादिष्वष्टवर्णेन अग्नि-मानीय संस्कृतम् त्वमग्ने! द्युभिरिति (१) गायत्र्यासमिधो हुनेत् अष्टार्णेनाष्टशतकं साज्यं पूर्णां प्रदा-पयेत् शान्त्युदकमाम्रपत्रैः मूलेन शतमन्त्रितम् ।सिञ्चेद्देवस्य तन्मूर्ध्नि श्रीश्च ते (२) ह्यनया ऋचा ।ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते (३) तद्वि-ष्णोरिति (४) मन्त्रेण प्रासादाभिमुखं नयेत् शिवि-कायां हरिं स्थाप्य भ्रामयीत पुरादिकम् गीतवेदा-दिशब्दैश्च प्रासादद्वारि धारयेत् स्त्रीभिर्विप्रैर्मङ्गलाष्ट-घटैः संस्नापयेद्धरिम् ततो गन्धादिनाभ्यर्च्य मूलम-न्त्रेण देशिकः अतो देवेति (५) वस्त्राद्यमष्टाङ्गार्घ्यंनिवेद्य स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति (६)धारयेत् त्रैलोक्यविक्रान्ताय नमस्तेऽस्तु त्रिवि-क्रम! संस्थाप्य पिण्डिकायान्तु स्थिरं कुर्याद्विच-क्षणः ध्रुवा द्यौरिति (७) मन्त्रेण विश्वतश्चक्षुरि-त्यपि (८) पञ्चगव्येन संस्नाप्याक्षाल्य गन्धोदकेन ।पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम् ध्यायेत्खं तस्य मूर्तिन्तु पृथिवीं तस्य पीठिकाम् कल्प-येद्विग्रहं तस्य तैजसैः परमाणुभिः जीवसावाहयि-ष्यामि पञ्चविंशतितत्त्वगम् चैतन्यं परमानन्दं जाग्रत्-स्वप्नविवर्जितम् देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जि-तम् ब्रह्मादिस्तम्बपर्यन्तं हृदयेषु व्यवस्थितम् हृद-यात् प्रतिमाविम्बे स्थिरो भव परेश्वर! सजीवं कुरुविम्बं त्वं सबाह्याभ्यन्तरस्थितः अङ्गुष्ठमात्रः पुरुषोदेहोपाधिषु संस्थितः ज्योतिर्ज्ञानं परं ब्रह्म एक-मेवाद्वितीयकम् सजीवीकरणं कृत्वा प्रणवेन निबो-धयेत् सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत् ।सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनुं जपेत् नमस्ते-ऽस्तु सुरेशाय सन्तोषविभवात्मने ज्ञानविज्ञानरूपायब्रह्मतेजोऽनुयायिने गुणातिक्रान्तवेशाय पुरुषायमहात्मने अक्षयाय पुराणाय विष्णो! सन्निहितोभव यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः तत्सर्वमेकतो लीनमस्मिन्देहे विवर्द्धताम् आत्मानं सन्नि-क्षीकृत्य ब्रह्मादिपरिवारकान् खनाम्ना स्थापयेदन्या-नायुधादीन् स्वमुद्रया यात्रावर्षादिकं दृष्ट्वा ज्ञेयःसन्निहितो हरिः नत्वा स्तुत्वा स्तवाद्यैश्च जत्वा चा-ष्टाक्षरादिकम् चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चये-द्गुरुः अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत् ।दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः विश्व-क्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत् सर्वपार्षदके-भ्यश्च बलिं भूतेषु चार्पयेत् ग्रामवस्त्रसुवर्णादि गुरवेदक्षिणां ददेत् यागोपयोगि द्रव्याद्यमाचार्याय नरो-ऽर्पयेत् आचार्यदक्षिणार्द्धन्तु ऋत्विग्भ्यो दक्षिणां द-देत् अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः ।अवारितफलान् दद्याद्यजमानाय वै गुरुः विष्णुंनयेत् प्रतिष्ठाता चात्मना सकलं कुलम् सर्वेषामेवदेवानामेष साधारणो विधिः मूलमन्त्राः पृथक् तेषांशेषं कार्यं समानकम्” ६० अ० ।(६० अ० प्रतीकसुचिता मन्त्रा यथा(१) त्वमग्ने द्युभिरित्यादि प्राग्वत् ।(२) “श्रीश्च ते लक्ष्मीश्च ते पत्न्यावहोरात्रे पार्श्वे नक्ष-त्राणि रूपमश्विनौ व्यात्तम् इष्णन्निषाणामुं मैषाणसर्वलोकं मैषाण” यजु० ३१ २२(३) उत्तिष्ठ व्रह्मणापते इत्यादि प्राग्वत् ।(४) तद्विष्णोः परमं पदमित्यादि प्राग्वत् ।(५) अतो देवा अवन्तु इत्यादि प्राग्वत् ।(६) देवस्य त्वा इत्यादि प्राग्वत् ।(७) “ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वताइमे ध्रुवं-विश्वमिदं जगद् ध्रुवो राजा विशामयम्” ऋ० १० १६३ ४(८) विश्वतश्चक्षुरित्यादि ३७२८ पृष्ठे प्रदर्शितम्) ।प्रतिष्ठामयूखादौ तत्प्रयोगो दृश्यः प्रतिष्ठायाः पूज्यता-प्रयोजकता कुसुमाञ्जलौ हरिदासीये व्यवस्थापिता यथा“कथञ्च प्रतिमादौ प्रतिष्ठादेरुपयोगः तथा प्रतिष्ठाजन्यशक्तिश्चाण्डालादिस्पर्शनाश्या पूज्यताप्रयोजिका स्वीकार्याइत्यत्राह हरि० “निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा” मू० “निमित्त-भेदः अदृष्टभेदः देवताः प्रतिष्ठाविधिना सन्निधानेनाह-ङ्कारममकारादिना आराधनीयतामासादयन्ति प्रतिष्ठा-विधिना देवतानां प्रतिमादौ अहङ्कारमभकारौ चाण्डा-लादिस्पर्शे तादृशाभिमानाभावः देवताचैतन्यविवादे-ऽपि यथार्थपूजितत्वधीः प्रतिष्ठितत्वधीश्च चण्डालादिस्प-र्शाभावविशिष्टा पूज्यतानियामिका तत्र चोपयोगिनी प्र-तिष्ठा वस्तुतस्तु प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शनादिसंस-र्गाभावः प्रतिष्ठाध्वंसकालीनः पूज्यताप्रयोजकः प्रतिष्ठितंपूजयेदितिक्तेन प्रतिष्ठाध्वंसस्यैव प्राप्तेरिति” हरिदासः ।प्रतिमादौ प्रतिष्ठाजन्या पूज्यताप्रयोजिका शक्तिरुत्पद्यतेइति मीमांसकास्तन्मतमनुमानचिन्तामणौ शक्तिवादेनिराकृतं यथा“अथ प्रतिमादौ प्रतिष्ठाजन्यं यजमानादृष्टं पू-ज्यत्वप्रयोजकं भोगादिना तन्नाशेऽपि पूज्यत्वात् तत्-सत्त्वेऽपि चाण्डालादिस्पर्शेनापूज्यत्वात् अन्यधर्मं प्र-त्यन्यधर्मस्यानुपयोगाच्च प्रतिष्ठाध्वंसस्तथा, ततएवउपजीव्यप्रतिष्ठाप्रयोजकत्वभङ्गापत्तेः तस्मात् प्रतिष्ठा-जन्याऽस्पृश्यस्पर्शादिनाश्या प्रतिमादिनिष्ठा शक्तिरभ्यु-पेयेति चेत् प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधि-रहङ्कारममकाररूपः क्रियते स्वसादृश्यदर्शिनश्चित्रादा-विव, ज्ञानस्य नाशेऽपि संस्कारसत्त्वात् अस्पृश्यस्प-र्शादिना तु तन्नाशः अचेतनदेवतापक्षे यथार्थप्रतिष्ठित-प्रत्यभिज्ञानस्यास्पृश्यस्पर्शादिविरहसहकृतस्य तथात्वंप्रतिष्ठितं पूजयेदिति विधिबलात्तत्प्रतिसन्धानस्यावश्य-कत्वादिति प्राञ्चः नव्यास्तु प्रतिष्ठाविधिनैव तत्राधेय-शक्तिवदपूर्वान्तरं जन्यते तददृष्टवदात्मसंयोगाश्रयपूज्य-त्वम् अस्पृश्यस्पर्शेन तन्नाशे चापूज्यत्वमित्याहुः वयन्तुब्रूमः प्रतिष्ठितं पूजयेदिति विधिवाक्येन प्रतिष्ठायाःकारणत्वं बोध्यते किन्तु भूतार्थे क्तानुशासनादतीत-प्रतिष्ठे पूज्यत्वं बोध्यते तथा प्रतिष्ठाध्वंसः प्रति-ष्ठाकालीनयावदस्पृश्यादिप्रतियोगिकानादिसंसर्गाभावस-हितः पूज्यत्वप्रयोजकः प्रागभावोऽत्यान्ताभावश्चक्वचित्” देवप्रतिष्ठादयोऽप्यत्रतत्र विहितनक्षत्रलग्नादिकं मु० चि० उक्तं यथा“जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्क-शुक्रे दृश्ये, मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वृक्षतिथि-क्षणे वा रिक्तारवर्जे दिवसेऽतिशस्ता शशाङ्कपापैस्त्रिभ-वाङ्गसंस्थैः व्यष्टान्त्यगैः सत्खचरैर्मृगेन्द्रे सूर्यो, घटेको, युवतौ विष्णुः शिवो नृयुग्मे, द्वितनौ चदेव्यः, क्षुद्राश्चरे, सर्व इमे स्थिरर्क्षे पुष्ये ग्रहा, विघ्न-पयक्षसर्पभूतादयोऽन्त्ये, श्रवणे जिनश्च” ।“देव प्रतिष्ठायां तु विशेषस्तत्र वशिष्ठः “अथ प्रतिष्ठां कथ-यामि सम्यक् शिवस्य विष्णोस्त्वथ वा परेषाम् सौम्यायनेदेवगुरौ शुक्रे सन्दृश्यमाने परिचारकाणाम्” शिवविष्णुग्रहणं प्राधान्यख्यापनार्थम् अत्र सौम्यप्रकृतीनां देवानामुत्तरायणे स्थापनमुक्त्वा उग्रप्रकृतीनां द-क्षिणायनेऽपि कार्यं तदुक्तं वैखानससंहितायाम् “मा-तृभैरववाराहनारसिंहत्रिविक्रमाः महिसासुरहन्त्रीच स्थाप्या वै दक्षिणायने” इति शैवसिद्धान्तशे-खरे तु “श्रेष्ठोत्तरे प्रतिष्ठा स्यादयने मुक्तिमिच्छताम् ।दक्षिणे तु मुमुक्षूणां मलमासे सा द्वयोरिति” इत्यु-क्तम् अत्र दक्षिणे तु मुमुक्षूणामित्यपि मातृभैरवेत्या-दिपरतया योज्यमन्यथा प्रतिपदं मासगणना वशिष्ठादिषुन युज्येत यदाह वसिष्ठः “मासे तपस्ये तपसि प्र-तिष्ठा धनायुरारोग्यकरी कर्त्तुः चैत्रे महारुग्-भयदा शुक्रे समाधवे पुत्रधनाप्तये स्यात्” नार-दोऽपि “विचैत्रेष्वेव मासेषु माघादिषु पञ्चसु” ।वसिष्ठः “आषाढमासादिचतुष्टयेऽपि कलत्रसन्तानवि-नाशदा स्यात् ऊर्जे कर्तुर्निधनप्रदा सौम्ये स-पौषेऽखिलदुःखदा स्यात् बलक्षपक्षः शुभदः समस्तः सदैव तत्राद्यदिनं विहाय अन्त्यत्रिभागं परिहृत्य कृष्ण-पक्षोऽपि शस्तः खलु पक्षयोश्च रिक्तावमत्यक्तदिनेष्वनि-न्द्ययोगेषु वैनाशकवर्जितेषु दिने महादोषविबर्जिते चशशाङ्कताराबलसंयुते च” वैनाशकनक्षत्राणि नारदे-नोक्तानि “जन्मभाद्दशमं कर्म सङ्घातर्क्षञ्च षोडशम् ।अष्टादशं सामुदयं त्रयोविंशं विनाशभम् मानसं प-ञ्चविंशर्क्षं नाचरेच्छुभमेषु तु” इति अथ तिथीनाहनारदः “यद्दिनं यस्य देवस्य तद्दिने तस्य संस्थितिः ।द्वितीयादिद्वयोः पञ्चम्यादितस्तिसृषु क्रमात् दशम्यादिचतसृषु पौर्णमास्यां विशेषतः मुख्यतिथ्यसम्भवे उक्ततिथौ स्थापनं कार्यम्” इत्यर्थः अथ वारानाह नारदः“कुजवर्जितवारेषु कर्त्तुः सूर्ये बलप्रदे चन्द्रताराबलो-पेते पूर्वाह्णे शोभने दिने” इति प्रत्येकं वारफलमाहवसिष्ठः “कीर्तिप्रदं क्षेमकरं कृशानुभयप्रदं वृद्धिकरं दृढंच लक्ष्मीकरं सुस्थिरदं त्विनादिवारेषु संस्थापनमा-मनन्ति” अथ देवप्रतिष्ठानक्षत्राणि “हस्तत्रये मित्र-हरित्रये पौष्णद्वयादित्यसुरेज्यभेषु स्यादुत्तराधातृ-शशाङ्कभेषु सर्वामरस्थापनमुत्तमं सत्” अत्र षोडश-भानि ध्रुवमृदुक्षिप्रलघुरूपाणि एवोक्तानि तत्र ग्रन्थ-कर्त्त्रा जलाशयारामसुरप्रतिष्ठा नक्षत्राणि बहुधातुल्य-त्वादेतानि उक्तानि द्वित्राणि तु भिन्नानि तान्युक्तविशेषवचनेभ्योऽवमेयानि देवताघटनमुहूर्तस्तु उच्यतेमया तत्र दीपिका “ध्रुवलघुमृदुवर्गे वारुणे विष्णुदैवेमरुददितिधनिथे शोभने वासरे त्रिदशमदन-जन्मैकादशे १० ११ शीतरश्मौ विबुधसुकृति-रिष्टा नाडिनक्षत्रहीने” इति नाडिनक्षत्राणि वैना-शिकनक्षत्राणि अथ देवताप्रतिष्ठायां सामान्यतो लग्नशुद्धिं देवताविशेषे तथा पादोनोपजातिकाभ्यामाहशशाङ्केति जलाशयप्रतिष्ठायामारामप्रतिष्ठायां चसुलग्नमात्रं विचार्यं देवप्रतिष्ठायां शशाङ्कश्चन्द्रः पापाःसूर्यभौमशनिराहुकेतवस्तैस्त्रिभवाङ्गसंस्थैस्तृतीयषष्ठैकाद-शस्थानस्थितैरुपलक्षिते लग्ने तथा सत्खचरैः सोमबु-धगुरुशुक्रैर्व्यष्टान्त्यगैरष्टमद्वादशव्यतिरिक्ताखिलस्थानस्थैःसद्भिर्देवप्रतिष्ठातिशस्ता तदुक्तं रत्नमालायाम् “केन्द्र-त्रिकोणभवमूर्तिषु सद्ग्रहेषु चन्द्रार्कभौभशनिषु त्रिषडा-यगेषु सान्निध्यमेति नियतं प्रतिमासु देवः कर्तुःसुखार्थसुतसम्पदरोगता सौम्या लग्नाद्याश्रितामूर्तिपूर्वान् भावान् वीर्यैरुत्कटावर्द्धयन्ति षष्ठं हित्वा-भावमेते हि तत्र शत्रुध्वस्तिं कर्त्तुरुत्पादयन्ति” शनि-ग्रहणं राहुकेत्वोरप्युपलक्षणं यदाह वसिष्ठः “सूर्यैन्दु-भौमार्क्यहिकेतवश्च लग्नस्थितानैधनदाश्च भर्तुः सौ-म्यग्रहा लग्नगतास्तदैव ह्यायुर्बलारोग्यकराश्च नूनम्” ।अन्यच्च तत्रैव “सर्वे ग्रहानैधनदास्त्वजस्रं सौम्या अ-सौम्याः खलु मृत्युसंस्थाः” इति अथ प्रसङ्गान्नवांशवि-चारः तत्र स्थिरद्विस्वभावनवांशाग्राह्या चरांशस्त-त्रापि तुलांशः साधीयान् यदाह वसिष्ठः “पञ्चेष्टकैःजीवशशाङ्कसूर्यमुख्यग्रहैः सौम्यनवांशयुक्तैः लग्नेस्थिरे चोभयराशियुक्ते नवांशके चोभयगे स्थिरे वा” उ-भयगे द्विस्वभावे “चरोदये लग्नगते कार्यं संस्थापनंनैव चरांशकेऽपि चरोऽपि मुख्यः सतुलांशकश्च सदाभृदुत्वात् सुरसन्निवेशे” इति मृदुत्वाच्छुभस्वामिकत्वात्नारदोऽपि “शुभलग्ने शुभांशे कर्तुस्तेऽनिधनोदये ।राशयः सकलाः सेष्टाः शुभग्रहयुतेक्षिताः” इतिअथ लग्नदौष्ट्येऽपवादो वसिष्ठेनोक्तः “एकोऽपि जीवोबलवान् तनुस्थः सितीऽपि सौम्योऽप्यथ वा बली चेत् ।दोषानशेषान्विनिहन्ति सद्यः स्कन्दो यथा तारकदैत्य-वर्गमिति” नारदः “गुणाधिकतरे लग्ने दोषोऽत्यल्पतरेयदि सुराणां स्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम्” ।मृगेन्द्र इति सूर्यो मृगेन्द्रे सिंहलग्ने स्थाप्यः, तथाकोब्रह्मा घटे कुम्भलग्ने, विष्णुर्युवतौ कन्यालग्ने ।शिवो महादेवोनृयुग्मे मिथुनलग्नेच, पुनर्द्वितनौ मि-थुनकन्याधनुमींनलग्नेषु देव्यो दुर्गादक्षिणामूर्त्त्यादयः ।चरे मेषकर्कतुलामकरलग्नेषु क्षुद्रादेव्यश्चतुःषष्टियोगिनीप्रभृतयः सर्व इमे उक्ता अनुक्ताश्च देवा इत्यर्थः उक्तामहादेवादयः अनुक्ता इन्द्रादयः ते स्थिरर्क्षे वृषसिंहवृ-श्चिककुम्भलग्नेषु स्थाप्याः यदाह श्रीपतिः “सिंहोदयेदिनकरो, मिथुने, महेशो, नारायणश्च युवतौ, घटभेविधाता देव्यो द्विमूर्तिभवने निवेशनीयाः क्षुद्राश्चरेस्थिरगृहे निखिलाश्च देवाः” इति पुष्ये ग्रहा इति ग्र-हाश्चन्द्रादयोऽष्टौ पुष्यनक्षत्रे स्थाप्या इत्यर्थः उपलक्षणंचैतत् तत्र सूर्यस्य हस्तनक्षत्रे स्थापनं, महादेवब्र-ह्मणोः पुष्यश्रवणाभिजित्सु स्थापनं, कुवेरस्कन्दयोरनु-राधायां, दुर्गाप्रभृतीनां मूले स्थापनं, सप्तर्षीणां स्वाधि-ष्ठितनक्षत्रे लक्ष्मीव्यासबाल्मीक्यगस्त्यानामपि सप्तर्ष्य-धिष्ठितनक्षत्रे स्थापनम् उक्तञ्च रत्नमालायां “पुष्यश्रुत्य-भिजित्सु, चेश्वरकयोर्वित्ताधिपस्कन्दयोर्मैत्रे तिग्मरुचेःकरे, निरृतिभे दुर्गादिकानां शुभम्” कोब्रह्मा तथा“सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्रतेषाम् श्रीव्यासबाल्मीकिघटोद्भवानां तथा स्मृता वाक्-पतिभे ग्रहाणामिति” सप्तर्षयस्तु कश्यपोऽत्रिर्भरद्वाजो-विश्वामित्रोऽथ गौतमः जमदग्निर्वसिष्ठश्च सप्तैते ऋषयःस्मृताः” इति स्मृतेस्ते यस्मिन्नक्षत्रे सञ्चरन्तो दृश्यन्तेतस्मिन्नक्षत्रे तेषां स्थापनम् श्रीव्यासबाल्मीकिघटो-द्भवानां तथा सप्तर्ष्यधिष्ठितनक्षत्रे ग्रहाणां वाक्प-तिभे पुष्ये घटोद्भवोऽगस्त्यः विघ्नपेति विघ्नपो गणेशःयक्षो देवयोनिः सर्पा वासुक्यादयः भूतो देवयोनिः“विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः पिशाचोगुह्यकः सिद्धो भूतोऽभी देवयोनयः” इत्यभिघानात् आ-दिशब्देन राक्षसासुरप्रमथसरस्वतीप्रभृतयो गृह्यन्ते तेरेवत्यां स्थाप्याः तथा श्रवणे श्रवणनक्षत्रे जिनो बुद्धःस्थाप्यः उपलक्षणं चैतत् इन्द्रकुवेरवर्जितानां लोक-पालाना घनिष्ठायां स्थापनम्, इतोऽवशिष्टानां देवताना-न्त्र्युत्तरारोहिणीषु स्थापनं स्यादित्यर्थः एतदप्युक्तंरत्नमालायाम् “गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथ-फणिसरस्वत्यादिकानां पौष्णे २७ श्रवसि सुगतनाम्नोवासवे लोकपानां निगदितमखिलानां स्थापनं हिस्थिरेष्विति” परिवृढः स्वामी! “प्रभौ परिवृढ” इतिसाषुः गणपरिवृढी गणेशः! प्रमथा महादेवस्य पारि-षदाः श्रवसि श्रवणनक्षत्रे सुगतो बुद्धः “सर्वज्ञः सुगतो बुद्धः इत्यमरः स्थिरेषु रोहिणीत्र्युत्तरास्वित्यर्थः”पी० धा०