| YouTube Channel

देवताधिकरण (devatAdhikaraNa)

 
वाचस्पत्यम्
Sanskrit
देवताधिकरण
न०
देवता कर्मसु तदधिकारित्वमनधिका-रित्वं वाधिक्रियते विचार्यतेऽत्र अधि + कृ--आधारे ल्युट् ।देवतानां यज्ञादावधिकारित्वतदभावयोरन्यतरसाधकेन्यायभेदे यज्ञादौ देवतानामनधिकारः इति मीमां-सकाः तच्च जै० सू० भाष्ययोर्दर्शितं यथा“फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्” सू०“इदमामनन्ति, दर्शपूणमासाभ्यां स्वर्गकामी यजेत, ज्यो-तिष्टोमेन स्वर्गकामो यजेत” इत्येवमादि तत्र सन्देहःकिं यावत्किञ्चित् सत्वं, तत् सर्वम् अधिकृत्य एतदु-च्यते, उत समर्थम् अधिकृत्य? इति किं प्राप्तम्?सर्वाधिकारः, अविशेषात् ननु वृक्षादयो किञ्चित्कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूत् अचेतनानाम्, तिरश्चस्तु अधिकृत्य यजेत इतिब्रूयात् ननु तिर्यञ्चोऽपि किञ्चित् कामयन्ते नइति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, घर्म्मो-पतप्ताः छायाम् उपसर्पन्ति, शीतेन पीडिताः आतपम् ।आह, ननु तिर्यञ्च आसन्नं फलं चेतयन्ते, कालान्त-रफलं प्रार्थयन्ते, कालान्तरफलानि कर्माणि उच्यते, कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते, शुनः चतुर्द-श्याम् उपवसतः पश्यामः, श्येनांश्च अष्टम्याम नचैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, अनाहाराणा-मपि तस्मिन् काले दर्शनात्, समानाहाराणामपि अन्य-स्मिन् काले अदर्शनात् लिङ्गानि वेदे भवन्ति, देवावै सत्रमासत इत्येवमादीनि “देवतानाम् ऋषीणां वन-स्पतीनाम् अधिकारं दर्शयन्ति ननु कात्स्न्येन वि-धिम् उपसंहर्तुम् शक्नुवन्ति इति अनधिकृताः ।उच्यते, यागं कर्तुम् शक्नुवन्ति केचित्, तस्मात् यजेतइत्येवमादीनि अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादि-वचनानि तु अशक्तान् अधिकरिष्यन्ति तत्र योऽनु-पदिष्टविष्णुक्रमादिकः केवलं यागं करिष्यति, कःतस्य दोषः? द्रव्यपरिग्रहोऽपि देवग्रामः, हस्ति-ग्रामः, ऋषभस्य ग्रामः इति उपचारात् अस्त्येव तस्मात्अमनुष्याणामपि शक्नुवताम् अधिकार इति” भा०“कर्तुर्वा श्रुतिसंयोगाद्विधिः कात्स्न्येन गम्यते” सू०वाशब्दः पक्षं व्यावर्तयति चैतदस्ति, तिर्यगादीना-मपि अधिकारः इति कस्य तर्हि? यः समर्थःकृत्स्नं कर्म अभिनिर्वर्त्तयितुम् चैते, शक्नुवन्ति ति-र्य्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मात् एषांन सुखस्याभ्युपायः कर्म इति, कथं यो शक्यते क-र्तुम्, सोऽभ्युपायः स्यात्? इति देवानां, देवता-न्तराभावात्, हि आत्मानम्, उद्दिश्यत्यागः सम्भवति, त्याग एवासौ स्यात्, ऋषीणाम्, आर्षेयाभावात्, भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, चैषां सा-मर्थ्यं प्रत्यक्षम्” (देवानां देवतान्तरभावादिति येषां शब्दएव देवताभिप्रेता, तेषामयमप्ययुक्तो ग्रन्थः, शक्यतेहीन्द्रेणापीन्द्रशब्दोच्चारणेन हविस्त्यक्तुम् तस्मात् अ-र्थमेव देवतामभिप्रेत्य एतद्भाष्यमिति तन्त्ररत्नम्) ।यानि पुनर्लिङ्गानि, देवा वै सत्रमासत इत्येवमादीनि, अर्थवादाः ते विधिप्ररोचनार्थाः विद्यते हि विधिरन्यःतेषु सर्वेषु, विधेर्विधिनैकवाक्यभावो भवति, वचन-व्यक्तिभेदात् स्तुतिस्तु सा, इत्थं नाम सत्राणि आ-सितव्यानि, यत् कृतकृत्या अपि आसते देवाः आसन्न-चेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, कि-मङ्ग पुनर्विद्वांसो मनुष्याः” भा०देवानामधिकारित्वं विशेषतो ब्रह्मविज्ञानेऽधिकारित्व-मिति वेदान्तिनः तच्च शा० सू० भाष्याभ्यां समर्थितम्तच्च अविग्रहशब्दे ४५५ पृ० दृश्यम्