देवगृह (devagRha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiदेवगृहम्
देव- गृहम् -
मन्दिर
देवगृहम्
देव- गृहम् -
राज- प्रासाद
Shabdartha Kaustubha
Kannadaदेवगृह
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ದೇವರ ಮನೆ /ದೇವಾಲಯ /ಗುಡಿ
अभिधानचिन्तामणिः
Sanskritप्रासादो देवभूपानां हर्म्यं तु धनिनां गृहम् ॥ ९९३ ॥
प्रासाद (पुं), देवगृह (क्ली), प्रासाद (पुं), भूपगृह (क्ली), हर्म्य (क्ली), धनिगृह (क्ली)
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritदेवगृह ६ त० । देवालये तल्लक्षणं गरुडपु० ४७ अ० यथा“चतुःषष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम् । चतु-ष्कोणं चतुर्भित्ति द्वाराणि सूर्यसंख्यया । चत्वारिंशा-ष्टभिश्चैव भित्तीनां क ल्पना भवेत् । ऊर्द्ध्वक्षेत्रसमाजङ्घा जङ्घार्द्धद्विगुणं भवेत् । गर्भविस्तारविस्तीर्णाशूकाग्रा च विधीयते । तत्त्रिभागेण कर्तव्या पञ्चभागेनवा पुनः । निर्गमस्तु शुकाग्राया उच्छ्रयः शिखरार्द्धतः ।चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम् । चतुर्थेपुनरस्यैव कण्ठस्य मलसारकम् । अथ वापि समं वास्तुंकृत्वा षोडशभागिकम् । तस्य मध्ये चतुर्भागमादौगर्भन्तु कारयेत् । भागद्वादशकां भित्तिं ततस्तु परिक-ल्पयेत् । चतुर्भागेण भित्तीनामुच्छ्रयः स्यात् प्रमाणतः ।द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः । शिख-रार्द्धस्य चार्द्धेन विधेयास्तु प्रदक्षिणाः । चतुर्दिक्षुतथा ज्ञेयो निर्गमस्तु तथा बुधैः । पञ्चभागेन संभज्यगर्भमानं विचक्षणः । भागमेकं गृहीत्वा तु निर्गमंकल्पयेत् पुनः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।एतत् सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् । लिङ्ग-मानमथो वक्ष्ये पीठो लिङ्गसमो भवेत् । द्विगुणेनभवेद्गर्भः समन्ताच्छौनक! ध्रुवम् । तद्विधा च भवेद्भित्ति-र्जङ्घा तद्विस्तरार्द्धगा । द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक! । पीठं गर्भावरं कुर्यात् तन्मानेन शुका-ग्रकाम् । निर्गमस्तु समाख्यातः शेषं मूलवदेव तु । लि-ङ्गमानं स्मृतं ह्येतद् द्वारमानमथोच्यते । कराग्रं वेदवत्कृत्वा द्वारं भागाष्टकं भवेत् । विस्तरेण समाख्यातंद्विगुणं वेच्छया भवेत् । द्वारवत् पीठमध्ये तु शेषं शु-षिरकं भवेत् । पादिकं शैषिकं भित्तिर्द्वारार्द्धेन परि-ग्रहात् । तद्विस्तारसमा जङ्घा शिखरं द्विगुणं भवेत् ।शुकाग्रा पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत् । मण्डपेमानमेतत्तु स्वरूपञ्चापरं वदे । त्रैवेदं कारयेत् क्षेत्रंयत्र तिष्ठन्ति देवताः । इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् । नेमिः पादेन विस्तीर्णा प्रासादस्य सम-न्ततः । गर्भन्तु द्विगुणं कुर्यात् नेम्यामानं भवेदिह ।स एव भित्तेरुत्सेधो द्विगुणः शिखरो मतः । प्रासादा-नाञ्च वक्ष्यामि मानं योनिञ्च नामतः । वैराजः पुष्प-काख्यश्च कैलासो मालकाह्वयः । त्रिपिष्टः पञ्च पञ्चैतेप्रासादाः सर्वयोनयः । प्रथमश्चतुरस्रो हि द्वितीयस्तु तदायतः । वृत्तो वृत्तायतश्चान्योऽष्टास्रश्चेह च पञ्चमः ।एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः । सर्वप्रकृतिभूतेभ्यश्चत्वारिंशच्च पञ्च च । मेरुश्च मन्दरश्चैव विमानश्चतथाऽपरः । भद्रकः सर्वतोभद्रो! रुचकोनन्दनस्तथा ।नन्दिवर्द्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी । चतुरस्रात् समु-द्भुता वैराजादिति गम्यताम् । वडभी गृहराजश्चशालागृहञ्च मन्दिरम । विशालश्च तथा ब्रह्ममन्दिरंभवनं तथा । उत्तम्भं शिविका वेश्म नवैते पुष्पकोद्-भवाः । बलयो दुन्दुभिः पद्मो महापद्मस्तथाऽपरः ।बर्द्धनोऽप्यन्य उष्णीष शङ्खश्च कलसस्तथा । खपूरवृक्षका-श्चान्यो वृत्ताः कैलाससम्भवाः । गजोऽथ वृषभो हंसोगरुडः सिंहनामकः । भूमुखो भूधरश्चैव श्रीजयः पृ-थिवीधरः । वृत्तायतसमुद्भूता नवैते मालकाह्वयात् ।वज्रं चक्रं तथान्यच्च स्वस्तिकं वज्रसंज्ञितम् । चित्रस्व-स्तिकखड्गौ च गदा श्रीवृक्ष एव च । विजयो ना-मतश्चैते त्रिपिष्टपसमुद्भवाः । त्रिकोणपत्रमर्द्धेन्दुचतुष्कोणं द्विरष्टकम् । यत्र तत्र विधातव्यं संस्थानंमण्डपस्य तु । राज्यञ्च विजयश्चैवमायुर्बर्द्धनमेव च ।पुत्रलाभः श्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत् । कुर्य्यात्ध्वजादिसंख्यां वा द्वारि गर्भगृहन्तथा । मण्डपः समसंख्याभिर्गुणितः सूत्रतस्तथा । मण्डपस्य चतुर्थांशाद्-भद्रः कार्यो विजानता । स्पर्द्धागवाक्षकोपेतो निर्ग-वाक्षोऽथ वा भवेत् । सार्द्धभित्तिप्रमाणेन भित्तिमाने-न वा पुनः । भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाःक्वचित् । प्रासादे मञ्जुरी कार्य्या चित्रा विषममूमिका ।परिमाणनिरोधेन रेखा वैषम्यभूमिका । आधारस्तुचतुर्द्वारश्चतुर्मण्डप्रशोभितः । शतशृङ्गसमायुक्तो मेरुप्रा-साद उत्तमः । मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरल-ङ्कृताः । घटनाकारमानानां भिन्ना भिन्ना भवन्ति ये ।कियन्तोयेषु साधारानिराधाराश्च केचन । प्रतिच्छन्द-कभेदन प्रासादाः सम्भवन्ति ते । अन्योन्यसङ्करा-स्तेषां घटना नामभेदतः । देवतानां विशेषाय प्रासादाबहवः स्मृताः । प्रासादे नियमो नास्ति देवानां च स्वयम्भुवाम् । तान्येव देवतानाञ्च पूर्बमानेन कारयेत्चतुरस्रायतास्तत्र चतुष्कोणसमन्विताः । चन्द्रशालान्विताः कार्य्या भेरीशिखरसंयुता । पुरतो वाहना-नाञ्च कर्तव्या लघुमण्डपाः । नाट्यशाला च कर्तव्याद्वारदेशसमाश्रया । प्रासादा देवतानाञ्च कार्या दिक्षुविदिक्ष्वपि । द्वारपालाश्च कर्तव्या मुख्याङ्गत्वात् पृथक्पृथक् । किञ्चिद्विदूरतः कार्य्या मठास्तत्रोपजीविनाम् ।प्रावृता जगती कार्य्या फलपुष्पजलान्विता । प्रासादेषुसुरान् स्थाप्य पूजभिः पूजयेन्नरः । वासुदेवे सर्वदेवान्स्वर्गभाक् तद्गृहादिकृत्”प्रासादसामान्यलक्षणमुक्तमग्निपुराणे १०४ अ० यथा“ईश्वर उवाच वक्ष्येप्रासादसामान्यलक्षणं ते शिखि-ध्वज! । चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ।अद्रिभागेण गर्भः स्यात् पिण्डिका पादविस्तरात् । पञ्च-भागीकृतेक्षेत्रे ह्यन्तर्भागेतु पिण्डिका । सुषिरं भागवि-स्तीर्णं भित्तयो भागविस्तरात् भागौ द्वौ मध्यमे गर्भेज्यष्ठनागद्वयेन तु । त्रिभिस्तु कन्यसोगर्भः येषो भित्तिरिति क्वचित् । षोढाभक्तेऽथ वा क्षेत्रेभित्तिर्मागैकविस्त-रात् । गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ।विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा । अर्द्धा-र्द्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः । जगती विस्त-रार्द्धेन त्रिभागेण क्वचिद्भवेत् । गेमिः पादोनविस्तीर्णाप्रासादस्य समन्ततः । परिधिस्त्र्यंशको मध्ये रथकां-स्तत्र कारयेत् । चामुण्डभैरवं तेषु नाट्येशं च निवे-शयेत् । प्रासादार्द्धेन देवानामष्टौ वा चतुरोऽपि वा ।प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा । आ-दित्याः पूर्वतः स्थाप्याः स्कन्दोऽग्निर्वायुगोचरे । एवंयमादयो न्यास्याः स्वस्यां स्वस्यां दिशि स्थिताः । चतुर्द्धाशिखरं कृत्वा शुकनासा द्विभागिका । तृतीये वेदिकात्वग्रे सकण्ठा मलसारकः । वैराजः पुष्पकश्चान्यः कै-लासो मालकस्तथा । त्रिविष्टपश्च पञ्चैव मेरुमूर्द्धनिसंस्थिताः । चतुरस्रस्तु तत्राद्यो द्वितीयोऽपि तदायतः ।वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः । एकैकोनवधा भेदैश्चत्वारिंशच्च पञ्च च । प्रासादः प्रथमो मेरु-र्द्वितीयो मन्दरस्तथा । विमानश्च तथा भद्रः सर्वतोभद्रएव च । रुचको नन्दको नन्दिवर्द्धनश्च तथापरः ।श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः । बलभीगृहराजश्च शालागृहञ्च मन्दिरम् । विशालश्च तथाब्रह्ममन्दिरं भुवनन्तथा । उत्तम्भः शिविका वेश्म नवैतेपुष्पकोद्भवाः । बलयो दुन्दुभिः पद्मो महापद्मक एव च ।बर्द्धनो वान्य उष्णीषः शङ्खश्च कलसस्तथा । खपूरवृक्ष-कश्चान्योः वृत्ताः कैलाससम्भवाः । गजोऽथ वृषभो हंसोगरुत्मान् सिंहनामकः । भूमुखो भूधरश्चान्यः श्रीजयःपृथिवीधरः । वृत्तायतात् समुद्भूता नवैते मालकाह्वयात् ।वज्रं चक्रं तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम् । चित्रंस्वस्तिकखड्गञ्च गदा श्रीवृक्ष एव च । विजयो नाम-तश्चैते त्रिविष्टपसमुद्भवाः । नगराणामिमाः सञ्ज्ञालाटादीनामिमास्तथा । ग्रीवार्द्धेनोन्नतञ्चूलं पृथुलञ्चविभागतः । दशधा वेदिकां कृत्वा पञ्चभिः स्कन्धविस्तरः ।त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु तदण्डकम् । दिक्षुद्वाराणि कार्याणि न विदिक्षु कदाचन । पिण्डिकाकोणविस्तीर्णा मध्यमान्ता ह्यदाहृता । क्वचित् पञ्चम-भागेन महतां गर्भपादतः । उच्छ्राया द्विगुणास्तेषाम-न्यथा वा निगद्यते । षष्ठ्याधिकात् समारभ्य अङ्गुलानांशतादिह । उत्तमान्यपि चत्वारि द्वाराणि दशहानितः ।त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः । उच्छ्रा-यार्द्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा । चतुर्भि-रष्टभिर्वापि दशभिरङ्गुलैस्ततः । उच्छ्रायात् पादविस्तीणांविशाखास्तदुदुम्बरे । विस्तरार्द्धेन बाहुल्यं सर्वेषामेव की-र्तितम् । द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम् । अघः-शाखा चतुर्थांशे प्रतीहारो निवेशयेत् । मिथुनैरथ-बल्लीभिः शाखाशेषं विभूषयेत् । स्तम्भविद्धेऽभृत्यतास्यात् वृक्षविद्धे त्वभूतिता । कूपविद्धे भयं पूगवृक्षविद्धे धनक्षयः । प्रासादगृहशालादिमार्गविद्धेषु बन्ध-नम् । सभाबिद्धे तु दारिद्र्यं वर्णविद्धे निराकृतिः ।उलूखले च दारिद्र्यं शिलाविद्धे तु शत्रुता । छायाविद्धेतु दारिद्र्यं वेधदोषे हि जायते । छेदादुत्पाटनाद्वापितथा प्राकारलङ्घनात् । सीमाया द्विगुणत्यागाद् वेध-दोषी न जायते” ।देवगृहरूपप्रासादे विशेषस्तत्र ४२ अ० उक्तो यथा“मानेन प्रतिमाया वा प्रासादमपरं शृणु । प्रतिमायाःप्रमाणेन कर्तव्या पिण्डिका शुभा । गर्भस्तु पिण्डिका-र्द्धेन गर्भमानास्तु भित्तयः । भित्तेरायाममानेन उत्से-धन्तु प्रकल्पयेत् । भित्त्युच्छ्रायात्तु द्विगुणं शिखरं कल्प-येद् बुधः । शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् ।शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् । अष्टमांसेनगर्भस्य रथकानान्तु निर्गमः । परिधेर्गुणभागेन रथकां-स्तत्र कल्पयेत् । तत्तृतीयेन वा कुर्याद्रथकानान्तु निर्ग-मम् । वामत्रयं स्थापनीयं रथकत्रितये सदा । शिख-रार्थं हि सूत्राणि चत्वारि विनिपातयेत् । शुकनासो-र्द्ध्वतः सूत्रं तिर्यग्भूतं निपातयेत् । शिखरस्यार्द्धभा-गस्थं सिंहं तत्र तु कारयेत् । शुकनासां स्थिरीकृत्यमध्यसन्धौ निधापयेत् । तदूर्द्ध्वन्तु भवेद्वेदी सकण्ठा म-लसारकम् । स्कन्धभग्नं न कर्तव्यं विकरालं तथैव च ।ऊर्द्ध्वं च वेदिकामानात् कलसं परिकल्पयेत् । विस्ता-राद्द्विगुणं द्वारं कर्तव्यं तु सुशोभनम् । उदुम्बरौतदूर्द्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः । द्वारस्य तु चतुर्थांशेकार्य्यौ चण्डप्रचण्डकौ । विश्वक्सेनवत्सदण्डौ शिखोर्द्ध्वोडु-म्बरे श्रियम् । दिग्गजैः स्नाप्यमानान्तां घटैः साब्जांसुरूपिकाम् । प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयोभवेत् । प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत् ।पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका । गारुडं म-ण्डपं चाग्रे एकं भौमादिधाम च । कुर्याद्धि प्रतिमा-यान्तु दिक्षु चाष्टासु चोपरि । पूर्बं वराहं दक्षे च नृ-सिंहं श्रीधरं जले । उत्तरे तु हयग्रीवमाग्नेय्यां जाम-दग्न्यकम् । नैरृत्यां रामकं वायौ वामनं वासुदेव-कम् । ईशे प्रासादरचना देया वस्वर्ककादिभिः । द्बा-रस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक्” ।वृ० सं० ५७ अ० कश्चिद्विशेषोऽत्रोक्तो यथा“कृत्वा प्रभूतं सलिलमारामान् विनिवेश्य च । देवता-यतनं कुर्याद्यशोधर्माभिवृद्धये । इष्टापूर्तेन लभ्यन्ते येलोकास्तान् बुभूषता । देवानामालयः कार्यो द्वयमप्यत्रदृश्यते । सलिलोद्यानयुक्तेषु कृतेष्वकृतकेषु च । स्थाने-ष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः । सरःसु नलिनोच्छ-त्रनिरस्तरविरश्मिषु । हंसांसाक्षिप्तकह्लारवीचीविमल-वारिषु । हंसकारण्डवक्रौञ्चचक्रवाकविराविषु । पर्य-न्तनिचुलच्छायाविश्रान्तजलचारिषु । क्रौञ्चकाञ्चीक-लापाश्च कलहंसकलस्वनाः । नद्यस्तोयांशुका यत्र शफ-रीकृतमेखलाः । फुल्लतीरद्रुमोत्तंसाः सङ्गमश्रोणिम-ण्डलाः । पुलिनाभ्युन्नता रम्या हंसहासाश्च निम्नगाः ।वनोपान्तनदीशैलनिर्झरोपान्तभूमिषु । रमन्ते देवतानित्यं पुरेषूद्यानवत्सु च । भूमयो ब्राह्मणादीनां याःप्रोक्ता वास्तुकर्मणि । ता एव तेषां शस्यन्ते देवतायतने-ष्वपि । चतुःषष्टिपदं कार्यं देवतायतनं सदा । द्वारंच मध्यमं तत्र समदिक्स्थं प्रशस्यते । यो विस्तारो भवे-द्यस्य द्विगुणा तत्समुन्नतिः । उच्छ्रायाद् यस्तृतीयोऽश-स्तेन तुल्या कटिर्भवेत् । विस्तारार्धं भवेद्गर्भो भित्तयो-ऽन्याः समन्ततः । गर्मपादेन विस्तीर्णं द्वारद्विगुणमुच्छ्रि-तम् । उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुदुम्बरः । वि-स्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् । त्रिपञ्चसप्त-नवभिः शाखामिस्तत्प्रशस्यते । अधःशाखाचतुर्भागेप्रतीहारौ निवेशयेत् । शेषं मङ्गल्यविहगैः श्रीवृक्षस्व-स्तिकैर्घटैः । मिथुनैः पत्रवल्लीभिः प्रमथैश्चोपशोभयेत् ।द्वारमानाष्टभागोना प्रतिमा स्यात्सपिण्डिका । द्वौ भागौप्रतिमा तत्र तृतीयांशश्च पिण्डिका । मेरुमन्दरकैलासवि-मानच्छन्दनन्दनाः । समुद्गपद्मगरुडनन्दिवर्द्धनकुञ्जराः ।गृहराजो वृषो हंसः सर्वतोभद्रको घटः । सिंहो वृत्त-श्चतुष्कोणः षोडशाष्टाश्रयस्तथा । इत्येते विंशतिः प्रोक्ताःप्रासादाः संज्ञया मया । यथोक्तानुक्रमेणैव लक्षणानिवदाम्यतः । तत्र षडश्रिर्मेरुर्द्वादशभौमो विचित्रकुहरश्च ।द्वारैर्युतश्चतुर्भिर्द्वात्रिंशद्धस्तविस्तीर्णः । त्रिंशद्धस्तायामोदशभौमो मन्दरः शिखरयुक्तः । कैलासोऽपि शिख-रवान् अष्टाविंशोऽष्टभौमश्च । जालगवाक्षकयुक्तो विमा-नसंज्ञस्त्रिसप्तकायामः । नन्दन इति षड्भौमो द्वात्रिंशःषोडशाण्डयुतः । वृत्तः समुद्गनामा पद्मः पद्माकृतिःशयानष्टौ । शृङ्गेणैकेन भवेदेकैव च भूमिका तस्य ।गरुडाकृतिश्च गरुडो नन्दीति च षट्चतुष्कविस्तीर्णः ।कार्यश्च सप्तभौमो विभूषितोऽण्डैश्च विंशत्या । कुञ्जर इतिगजपृष्ठः षोडशहस्तः समन्ततो मूलात् । गृहराजःषोडशकस्त्रिचन्द्रशाला भवेद्वलभी । वृष एकभूमिशृङ्गोद्वादशहस्तः समन्ततो वृत्तः । हंसो हंसाकारो घटो-ऽष्टहस्तः कलसरूपः । द्वारैर्युतश्चतुर्भिर्बहुशिस्वरो भ-वति सर्वतोभद्रः । बहुरुचिरचन्द्रशालः षड्विंशः पञ्च-भौमश्च । सिंहः सिंहाक्रान्तो द्वादशकोणोऽष्टहस्तवि-स्तीर्णः । चत्वारोऽञ्जनरूपाः पञ्चाण्डयुतस्तु चतुरस्रः ।भूमिकाङ्गुलमानेन मयस्याष्टीत्तरं शतम् । सार्धं हस्त-त्रयं चैव कथितं विश्वकर्मणा । प्राहुः स्थपतयश्चात्रमतमेकं विपश्चितः । कपोतपालिसंयुक्ता न्यूना गच्छन्तितुल्यताम् । प्रासादलक्षणमिदं कथितं समासाद्गर्गेणयद्विरचितं तदिहास्ति सर्वम् । मन्वादिभिर्विरचितानिपृथूनि यानि तत्सस्मृतिं प्रति मयात्र कृतोऽधिकारः” ।तत्प्रतिष्ठाविधिश्च मठप्रतिष्ठाशब्दे वक्ष्यते ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
