देवगणग्रह (devagaNagraha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritदेवगणग्रह सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्चशुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य । तद्गणाना मेवग्रहत्वं च तत्रोक्तं यथा“गुह्यानागतविज्ञानमनवस्था सहिष्णुता । क्रिया वा-ऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते । अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम् । हिस्युर्हिंसाविहा-रार्थं सत्कारार्थमथापि च । असंख्येया ग्रहगणा ग्र-हाधिपतयस्तु ये । व्यज्यन्ते विविधाकारा भिद्यन्ते तेतथाष्टधा । देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाःपितरो भुजङ्गाः । रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः । सन्तुष्टः शुचिरपि चेष्ट-गन्धमाल्यो निस्तन्द्रो ह्यवितथसंस्कृतप्रमाषी । तेजस्वी-स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स देव-जुष्टः । संस्वेदी द्विजगुरुदेवदीषवक्ता जिह्माक्षो विगत-भयो विमार्गदृष्टिः । सन्तुष्टो भवति न चान्नपानजातै-र्दुष्टात्मा भवति च देवशत्रुजुष्टः । हृष्टात्मा पुलिनवना-न्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः । नृत्यन्वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितोमनुष्यः । ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो-द्रुतगतिरल्पवाक् सहिष्णुः । तेजस्वी वदति च किं ददामि कस्मै यो यक्षप्रहपरिपीडितो मनुष्यः । प्रेतेभ्योविसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चाप-सव्यवस्त्रः । मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भ-वति पितृग्रहाभिभूतः । भूमौ यः प्रसरति सर्पवत्कदा-चित् सृक्कण्यौ विलिहति जिह्वया प्रसक्तम् । निद्रालु-र्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ।मांसासृग्विविधसुराविकारलिप्सुर्निल्लज्जो भृशमतिनि-ष्ठुरोऽतिशूरः । क्रोधालुर्विपुलबलो निशाविहारीशौचद्विड्भवति च रक्षसा गृहीतः । उद्धस्तः कृशप-रुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः । ब-ह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टं भ्रमति रुदन्पिशाचजुष्टः । स्थूलाक्षस्त्वरितगतिः स्वफेनलेही नि-द्रालुः पतति च कम्पते च योऽति । यश्चाद्रिद्विरदनगा-दिविच्युतःसन् संसृष्टो न भवति वार्द्धकेन जुष्टः । देव-ग्रहाः पौर्णमास्यामासुराः सन्ध्ययोरपि । गन्धर्वः प्राय-शोऽष्टम्यां यक्षाश्च प्रतिपद्यथ । कृष्णपक्षे च पितरःपञ्चम्यामपि चोरगाः । रक्षांसि निशि पैशाचाश्चतुर्दश्यांविशन्ति च । दर्पणादीन् यथा छाया शीतोष्णं प्रा-णिनो यथा । स्वमणिंभास्करार्चिश्च यथा देहं च देहि-नः । विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ।तपांसि तीव्राणि तथैव दानव्रतानि धर्मो नियमश्चसत्यम् । गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताच्चयथाप्रभावम् । न ते मनुष्यैः सह संविशन्ति नवा म-नुष्यान् क्वचिदाविशन्ति । ये वाविशन्तीति वदन्ति मो-हात्ते भूतविद्याविषयादपोह्याः । तेषां ग्रहाणां परि-चारका ये कोटीसहस्रायुतपद्मसंख्याः । असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति । निशा-चराणां तेषां हि ये देवगणसंसृताः । ते तु तत्सत्वसंस-र्गाद्विज्ञेयास्तु तदञ्जनाः । देवग्रहा इति पुनः प्रोच्यन्तेशुचयश्च ये । देववत् ते नमस्यन्ते प्रत्यर्थन्ते च देववत्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
