| YouTube Channel

देध्रीयकः-यिका (dedhrIyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“धृङ् अवस्थाने”@} 2 किरादिः।
‘धारणे च’ इति द्रुमे।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधरिषकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधरतिवत् 5 ऊह्यानि।
6 पुरन्ध्री 7, 8 9 महीध्रः-कुध्रः, 10 आधारः, 11 धर्मः, इमानि रूपाणि अस्य धातोरिति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१४)
02
=>
(६-तुदादिः-१४१२। अक। अनि। आत्म।)
03
=>
(श्लो। २९)
04
=>
[[४। अस्य धातोः किरादित्वात् ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति सनि इडागमो भवति। द्वित्वादिकम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
(९१३)
06
=>
[[५। पुरं धारयतीत्यर्थे ‘संज्ञायां भृ--’ (३-२-४६) इति खचि, पृषोदरादित्वात् उपधा- लोपे साधुः। स्त्रियाम्, गौरादित्वात् ङीष्।]]
07
=>
[[आ। ‘ह्रीणां नवोढां जगतोऽभिनन्द्यां तां पर्यगृह्णन् मुदिताः पुरन्ध्र्यः।।’ वा। वि। १-६०।]]
08
=>
[पृष्ठम्०८०८+ २८]
09
=>
[[१। ‘कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कः। एवं कुं धरतीति कुध्रः इत्यत्रापि ज्ञेयम्।]]
10
=>
[[२। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति घञन्तः निपात्यते। आध्रियतेऽस्मिन्नित्यर्थे = आधारः।]]
11
=>
[[३। ‘अर्त्तिस्तुसुहुसृधृ--’ (द। उ। ७-२६) इति मन्प्रत्यये रूपमेवम्। धरति ध्रियते वाऽस्मिन्नाचार इति धर्मः = न्यायः।]]
1 {@“धृञ् धारणे”@} 2 ‘धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, दिधीर्षकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिधरतिकवत् 4 ज्ञेयानि।
5 युगन्धाः- 6 जलन्धरः-पुरन्धरः-श्रुतन्धरः-वसुन्धरा, 7 धनुर्धरा, 8 महीध्रः 9, 10 कर्णधारः, 11 आधारः, 12 धारा, 13 धारयः 14 , 15 धारयन्, 16 धुरन्धरः, धर्मः
इमानि रूपाणि अधिकान्यत्रेति विशेषः।
अस्य धातोः उभयपदित्वात् शतरि--धरन्-न्ती, धरिष्यन्-न्ती-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१७)
02
=>
(१-भ्वादिः-९००। सक। अनि। उभ।)
03
=>
(श्लो। २९)
04
=>
(९१३)
05
=>
[[५। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति कर्मण्युपपदे ण्यन्तात् खच्- प्रत्ययः। युगं धारयतीति युगन्धरः = पर्वतविशेषः। ‘खचि ह्रस्वः’ (६-४-९४) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं जलन्धरः, पुरन्धरः, श्रुतन्धरः, वसुन्धरा इत्यादिषु ज्ञेयम्।]]
06
=>
[पृष्ठम्०८०९+ ३०]
07
=>
[[१। धनुर्धरा इत्यत्रापि खजेव। अजन्तत्वाभावात् मुमागमो न।]]
08
=>
[[२। महीं धरतीति महीध्रः = पर्वतः। एवं कुध्रः इत्यपि। ‘कप्रकरणे मूलविभु- जादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्यये पृषोदरादित्वात् उपधालोपे साधुः।]]
09
=>
[[आ। ‘यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः।’ शि। व। ३। २४।]]
10
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्। एवं सूत्रधारः इत्यादिष्वप्यण्।]]
11
=>
[[४। ‘ºअवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति संज्ञायां घापवादो घञ्।]]
12
=>
[[५। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठादङ्। ‘ऋदृशोऽङि--’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः इत्येव।]]
13
=>
[[६। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इत्यादिना ण्यन्तादस्मात् शप्रत्ययः। गुणायादेशौ। कर्तरि प्रत्ययोऽयम्।]]
14
=>
[[B। ‘सुखजातः सुरापीतो नृजग्धो माल्यधारयः।’ भ। का। ५। ३८।]]
15
=>
[[७। ण्यन्तादस्मात्, ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता। ‘धारयन् पारायणम्’ इत्यत्र क्लेशं विना धारणस्य द्योतनात् शता। कृच्छ्रार्थे तु धारयमाणः इति शानजेव।]]
16
=>
[[८। धुरं धरतीत्यर्थे संज्ञात्वाभावेऽपि बाहुलकात् खचि, ‘वाचंयमपुरन्दरौ च’ (६-३-६९) इत्यत्र चकारात् अमागमः इति प्र। सर्वस्वे।]]