| YouTube Channel

देङ् (deG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दे
मूलधातुः:
देङ्
धात्वर्थः:
रक्षणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दयते
धातुप्रदीपः
Sanskrit
देङ् रक्षणे
- दयते प्रणिदयते दीयते दयतेर्दिगि लिटि (7/4/9) इति दिग्यादेशेन द्विर्वचनबाधेष्यते दिग्ये दत्तम् ।। 970 ।।
क्षीरतरङ्गिणी
Sanskrit
देङ् रक्षणे
दयते दयतेर्दिगि लिटि (749) अवदिग्ये मनिन् (दश0 उ0 673) दामा दाण् दाने (1662) यच्छति दैप् शोधने (1656) दायति मुखम् अदादौ दाप् लवने (252) दाति व्रीहीन् ह्वादौ डुदाञ् दाने (3 9) दत्ते, ददाति दिवादौ दो अवखण्डने (438) द्यति 933
धातुवृत्तिः
Sanskrit
देङ् (अर्थः) रक्षणे
दयते दिग्ये दिग्याते दिग्यिषे दिग्ये ) "दयतेर्दिगिलिटि'' इति दिग्यादेशे "एरनेकाचः'' इति यण् "दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यत'इति वृत्तिः दातेत्यादि ( अदित अदिथ ) "स्थाध्वोरिच्च'' इति सिचः कित्त्वमित्वं ( प्रदाय ) "घुमास्था'' इतीत्वं "न ल्यपि'' इति निषिध्यते शेषं मयतिवत् 943
कृदन्तरूपमाला
Sanskrit
1 {@“देङ् रक्षणे”@} 2 ‘दाञो दत्ते ददातीति दाणो यच्छति दो द्यति।
दाति दायति दाप्दैपोर्दयते रक्षणे ङितः।।’ 3 इति देवः।
दायकः-यिका, दापकः-पिका, दित्सकः-त्सिका, देदीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदानार्थकदाण्धातुवत् 4 ज्ञेयानि।
5 प्रणिदयमानः, प्रणिदास्यमानः इति शानजन्ते ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(८६९)
02
=>
(१-भ्वादिः-९६२। सक। अनि। आत्म।)
03
=>
(श्लो। ४)
04
=>
(८३१)
05
=>
[[१। शानचि, आत्वाभावे, अयादेशे, ‘नेर्गदनदपतपदघु--’ (८-४-१७) इत्यादिना णत्वे, रूपम्।]]