| YouTube Channel

दृष्टिः (dRSTiH)

 
Apte
English
दृष्टिः [dṛṣṭiḥ],
f.
[दृश्-भावे-क्तिन्]
Seeing, viewing.
Seeing with the mental eye.
Knowing, knowledge
सम्यग्- दृष्टिस्तस्य परं पश्यति यस्त्वाम्
Ki.*
18.28.
The eye, the faculty of seeing, sight
केनेदानीं दृष्टिं विलोभयामि
V.*
2
चलापाङ्गं दृष्टिं स्पृशसि &Sacute.1.23.
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
U.*
6.19
R.*
2.28
Ś.*
4.2
देव दृष्टिप्रसादं कुरु
H.*
1.
A look, glance.
View, notion
क्षुद्रदृष्टिरेषा
K.*
173
एतां दृष्टिमवष्टभ्य
Bg.*
16.9.
Consideration, regard.
Intellect, wisdom
तुभ्यं नमस्ते$स्त्वविषक्तदृष्टये
Bhāg.*
1.4.12.
(In Astrol.) Aspect of the stars.
Light (प्रकाश).
A theory, doctrine, notion
याश्च काश्च कृदृष्टयः (सर्वास्ता निष्फलाः)
Ms.*
12.95.
Comp.
-कृत्
n.
, -कृतम् a kind of lily (स्थलपद्म). -क्षम worth-seeing
V.*
4.21. -क्षेपः a glance, look.-गतम् a theory, doctrine. -गुणः a mark for archers, butt, target. -गोचर
a.
within the range of sight, in sight, visible. (-रः) the range of sight. -दानम् appearance. -दोषः the evil influence of the human eye.
पातः a look, glance
मार्गे मृगप्रेक्षिणि दृष्टिपातं कुरुष्व
R.*
13.18
Bh.*
1.11, 94
3.66.
act of seeing, function of the eye
रजःकणैर्विघ्नितदृष्टिपाताः
Ku.*
3.31 (Malli. interprets unnecessarily in our opinion पात by प्रभा). -पथः the range of sight. -पूत
a.
'kept pure by the sight', watched that no impurity is contracted
दृष्टिपूतं न्यसेत्पादम्
Ms.*
6.46. -प्रसादः the favour of a look. -बन्धुः a firefly.
मण्डलम् the pupil of the eye.
the circle of sight. -रागः the expression of the eyes
भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः
Ś.*
2.11-12.
वादः a Buddhist canon dealing with discussion on other religious views
दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया प्रतिकर्मसूत्रपूर्वानुयोगो पूर्व- गतचूलिकाः पञ्च स्युर्द्दष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते Hem.
N.
of the 12th Aṅga of the Jainas. -विक्षेपः a side-glance, leer, oblique look. -विद्या optics. -विभ्रमः an amorous glance, a coquettish look
Ś.*
1.23. -विषः a serpent. -संभेदः mutual glance
त्वयापि निरूपिता अनयोर्द्दष्टिसंभेदाः
Māl.
7.
Apte 1890
English
दृष्टिः f. [दृश्-भावे क्तिन्] 1 Seeing, viewing.
2 Seeing with the mental eye.
3 Knowing, knowledge.
4 The eye, the faculty of seeing, sight
केनेदानीं दृष्टिं विलोभयामि V. 2
चलापांगां दृष्टिं स्पृशसि Ś. 1. 24
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा U. 6. 19
R. 2. 28
Ś. 4. 2
देव दृष्टिप्रसादं कुरु H. 1.
5 A look, glance.
6 View, notion
क्षुद्रदृष्टिरेषा K. 173
एतां दृष्टिमवष्टभ्य Bg. 16. 9.
7 Consideration, regard.
8 Intellect, wisdom, knowledge.
9 (In astrol.) Aspect of the stars.
10 Light (प्रकाश).
Comp.
कृत् n.,
कृतं a kind of lily (स्थलपद्म).
क्षेपः a glance, look.
गुणः a mark for archers, butt, target.
गोचर a. within the range of sight, in sight, visible. (
रः) the range of sight.
पातः {1} a look, glance
मार्गे मृगप्रेक्षिणि दृष्टिपातं कुरुष्व R. 13. 18
Bh. 1. 11, 94
3. 66. {2} act of seeing, function of the eye
रजःकणौर्विघ्नितदृष्टिपाताः Ku. 3. 31 (Malli. interprets-unnecessarily in our opinion
पात by प्रभा).
पथः the range of sight.
पूत a. ‘kept pure by the sight’, watched that no impurity is contracted
दृष्टिपूतं न्यसेत्पादं Ms. 6. 46.
बंधुः a fire-fly.
विक्षेपः a side-glance, leer, oblique look.
विद्या optics.
विभ्रमः an amorous glance, a coquettish look
Ś. 1. 23.
विषः a serpent.
Apte Hindi
Hindi
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"देखना, समीक्षण"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
मन की आँख से देखना
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"जानना, ज्ञान"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"आँख, देखने की शक्ति, नजर"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"नजर, चितवन"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"विचार, भाव"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"विचार, आदर"
दृष्टिः
स्त्री*
- दृश् + क्तिन्
"बुद्धि, बुद्धिमत्ता, ज्ञान"
दृष्टिः
स्त्री*
- दृश्+क्तिन्
"नज़र, देखना"
दृष्टिः
स्त्री*
- दृश्+क्तिन्
मानसिक रूप से देखना
दृष्टिः
स्त्री*
- दृश्+क्तिन्
जानना
दृष्टिः
स्त्री*
- दृश्+क्तिन्
आँख
दृष्टिः
स्त्री*
- दृश्+क्तिन्
सिद्धान्त
Wordnet
Sanskrit
Synonyms:
सिद्धान्तः, राद्धान्तः, कृतान्तः, तन्त्रम्, दृष्टिः, दृष्टिगतम्, समुद्देश
noun
विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादिना संबद्धं किमपि मूलं मतं यत् बहवः समीचीनं मन्यन्ते।
"डार्विन महाभागस्य सिद्धान्तः यत् मनुष्यः अपि सपुच्छः आसीत्।"
Synonyms:
दृष्टिक्षेपः, दृष्टिः, आदृष्टिः, ईक्षणम्, ईक्षितम्, कटाक्षः, कटः, दृक्पातः, प्रदर्शः
noun
दर्शनस्य क्रिया।
"तस्य दृष्टिक्षेपेण एव तस्य क्रोधः सूच्यते।"
Synonyms:
मतम्, अभिप्रायः, सम्मतिः, दृष्टिः, बुद्धिः, पक्षः, भावः, मनः, धी, मतिः, आकुतम्, आशयः, छन्दः
noun
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
"सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।"
Synonyms:
दृष्टिः
noun
""
Synonyms:
मतम्, दृष्टिः, मतिः, धीः
noun
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
"अस्माकं मतेन भवताम् इदं कार्यं समीचिनम्।"
Synonyms:
दृष्टिः
noun
सा शक्तिः यया जीवाः पश्यन्ति।
"गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।"
Synonyms:
चक्षुः, लोचनम्, नयनम्, नेत्रम्, ईक्षणम्, अक्षि, दृक्, दृष्टिः, अम्बकम्, दर्शनम्, तपनम्, विलोचनम्, दृशा, वीक्षणम्, प्रेक्षणं, दैवदीपः, देवदीपः, दृशिः, द्शी
noun
अवयवविशेषः-दर्शनेन्द्रियम्।
"तस्याः चक्षुंषी मृगीवत् स्तः।"
अमरकोशः
Sanskrit
Word: दृष्टिः
Root: दृष्टिः
Gender: undefined
Number: undefined
Meaning(s):
eye
fire
dawn
light
eye-light
lightning
moonlight
brightness
intelligence
celestial world
planets and stars
flash of lightning
sun and moon [du.]
heavenly bodies [pl.]
life [divine principle]
mystical name for the letter r
metre of 32 short and 16 long syllables
science of the movements of the heavenly bodies
light as the type of freedom or bliss or victory
light as the divine principle of life or source of intelligence
Shloka(s):
3|3|231|1 ज्वालाभासौ पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। (नानार्थवर्गः)
Synonym(s):
3|3|231|1 ज्योतिः (ज्योतिस्) (नपुं) eye, fire, dawn, light, eye-light, lightning, moonlight, brightness, intelligence, celestial world, planets and stars, flash of lightning, sun and moon [du.], heavenly bodies [pl.], life [divine principle], mystical name for the letter r, metre of 32 short and 16 long syllables, science of the movements of the heavenly bodies, light as the type of freedom or bliss or victory, light as the divine principle of life or source of intelligence
Related word(s):
जातिः क्रिया
परा_अपरासंबन्धः क्रूरदृष्टिः
शब्दकल्पद्रुमः
Sanskrit
दृष्टिः,
स्त्री,
(पश्यत्यनेनेति दृश् + करणे क्तिन् ।)चक्षुः इत्यमरः ९३
(यथा, साहित्य-दर्पणे ६८ ।“दृष्टा दृष्टिमधोददाति कुरुते नालापमाभा-षिता
”)बुद्धिः (दृश् + भावे + क्तिन् ।) दर्शनम् ।इति मेदिनी टे, १०
(यथा, मनुः ४६ ।“दृष्टिपूतं क्षिपेत् पादं वस्त्रपूतं जलं पिबेत्
”)ग्रहाणां दृष्टिकथनम् यथा, तृतीयगृहे दशमगृहे शनेः पूर्णदृष्टिरन्येषांपाददृष्टिः पञ्चमगृहे नवमगृहे गुरोः पूर्ण-दृष्टिरन्येषामर्द्धदृष्टिः चतुर्थगृहे अष्टमगृहे चकुजस्य पूर्णदृष्टिरन्येषां त्रिपाददृष्टिः सप्तम-गृहे सर्व्वेषां पूर्णदृष्टिः पञ्चमगृहे सप्तमे नवमेद्वादशे राहोः पूर्णदृष्टिः द्वितीये दशमे चत्रिपाददृष्टिः तृतीये षष्ठे चतुर्थे अष्टमे चार्द्ध-दृष्टिः
*
ग्रहाणां दृष्ट्यभावनिर्णयो यथा, --स्थितिभवने एकादशे राहोर्दृष्ट्यभावः ।स्थितिभवने द्बितीये षष्ठे एकादशे द्बादशेचान्येषां दृष्ट्यभावः
*
एषां प्रमाणं यथा, --“तृतीये दशमे चैव पाददृष्टिरुदाहृता ।अर्द्धदृष्टिश्च नवमे पञ्चमे प्रकीर्त्तिता
चतुर्थे चाष्टमे चैव पादोना परिकीर्त्तिता ।सप्तमे परिपूर्णा फलमेवं प्रकल्प्यते
तृतीयदशमावार्किः पश्यन् पूर्णफलप्रदः ।त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः
सुतमदननवान्त्ये पूर्णदृष्टिः सुरारे-र्युगलदशमराशौ दृष्टिमात्रात्रयार्हः ।सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिःस्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः
स्वस्थानञ्च द्बितीयञ्च षष्ठमेकादशन्तथा ।द्वादशाख्यं पश्यन्ति शेषं पश्यन्ति ते ग्रहाः
”इति ज्योतिषतत्त्वम्
कृदन्तरूपमाला
Sanskrit
1 {@“दृशिर् प्रेक्षणे”@} 2 दर्शकः-र्शिका, दर्शकः-र्शिका, 3 दिदृक्षकः-क्षिका, 4 दरीदृशकः-शिका
5 द्रष्टा-द्रष्ट्री, दर्शयिता-त्री, दिदृक्षिता-त्री, दरीदृशिता-त्री
6 पश्यन्-न्ती, 7 8 पश्यन् 9, दर्शयन्-न्ती, 10 11 सन्दिदृक्षन्-न्ती
द्रक्ष्यन्-न्ती-ती, दर्शयिष्यन्-न्ती-ती, 12 सन्दिदृक्षिष्यन्-न्ती-ती
-- 13 संपश्यमानः, दर्शयमानः, 14 दिदृक्षमाणः, दरीदृश्यमानः, सन्द्रक्ष्यमाणः, दर्शयिष्यमाणः, दिदृक्षिष्यमाणः, दरीदृशिष्यमाणः
15 तादृक्-तादृशौ-तादृशः
-- -- -- दृष्टम्-दृष्टः-दृष्टवान्, दर्शितः, दिदृक्षितः, दरीदृशितः-तवान्
16 17 पश्यः, उत्पश्यः, 18 तादृशः, यादृशः, 19 सदृक्-सदृशः, अन्यादृक्- अन्यादृशः, ईदृक्-कीदृक्-ईदृशः-कीदृशः- 20 ईदृक्षः-कीदृक्षः, तादृक्षः, यादृक्षः, सदृक्षः, अन्यादृक्षः, सदृशी, तादृशी, 21 पापदृश्वा 22 -पारदृश्वरी, विवेकदृश्वा, 23 यमास्यदृश्वरी, 24 असूर्यम्पश्याः 25 26, 27 उग्रम्पश्यः 28, 29 कश्यपः, 30 31 सुदर्शनः, 32 ददृशिवान्-ददृश्वान् 33, मार्गदर्शी, दर्शः, 34 दिदृक्षुः, 35 सन्दिदर्शयिषुः, दरीदर्शः
द्रष्टव्यम्, दर्शयितव्यम्, दिदृक्षितव्यम्, दरीदृशितव्यम्
दर्शनीयम्, दर्शनीयम्, दिदृक्षणीयम्, दरीदृशनीयम्
दृश्यम्, दर्श्यम्, दिदृक्ष्यम्, दरीदृश्यम्
36 ईषद्दर्शनः-दुर्दर्शनः-सुदर्शनः
-- -- दृश्यमानः, दर्श्यमानः, दिदृक्ष्यमाणः, दरीदृश्यमानः
दर्शः, 37 आदर्शः, 38, 39 दर्शः दर्शः, दिदृक्षः, दरीदृशः
द्रष्टुम्, 40 द्रष्टुम्, 41 दर्शयितुम्, दिदृक्षितुम्, दरीदृशितुम्
42 दृक्, दृष्टिः, 43 दृष्टिः, दर्शना, दिदृक्षा, दरीदृशा
दर्शनम्, 44 पश्यः, दर्शनम्, दिदृक्षणम्, दरीदृशनम्
45 दृष्ट्वा, दर्शयित्वा, दिदृक्षित्वा, दरीदृशित्वा
सन्दृश्य, प्रदर्श्य, प्रदिदृक्ष्य, प्रदरीदृश्य
46 कन्यादर्शं 47, 48 मांसशोणितसन्दर्शं, विप्रदर्शम्
दर्शम् २, दृष्ट्वा २, दर्शम् २, दर्शयित्वा २, दिदृक्षम् २, दिदृक्षित्वा २, दरीदृशम्
दरीदृशित्वा
49 इति कुप्रत्यये, यथाक्रमं पश्वादेशे रूपम्।
पशुः = मन्त्रबाह्यो जनः।]] पशुः।
प्रासङ्गिक्यः
01
=>
(८६५)
02
=>
(१-भ्वादिः-९८८। सक। अनि। पर।)
03
=>
[[१। सन्नन्तान्ण्वुलि, सनो झलादित्वेन, ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वेन, अमभावे, द्वित्वादिषु कृतेषु, ‘त्रश्च--’ (८-२-३६) इत्यादिना धातुशकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[२। यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासे रीगागमः।]]
05
=>
[[३। तृचि, ‘सृजिदृशोर्झल्यमकिति’ (६-१-५८) इति अमागमे, यणादेशे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[४। शतरि, शपि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ- पश्यर्च्छ--’ (७-३-७८) इति पश्यादेशे, पररूपे, रूपमेवम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
07
=>
[हरिं]
08
=>
[[५। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति हेतौ शता। हरिदर्शनं मोक्षहेतुरित्यर्थः।]]
09
=>
[विमुच्यते]
10
=>
[ग्रामं]
11
=>
[[६। ‘दृशेश्च--’ (वा। १-३-२९) इत्यत्र ‘अकर्मकात्’ इत्युक्त्या, सकर्मकादस्मात् सम्पूर्वकात् तु यथाप्राप्तं परस्मैपदमेव भवतीति, तदन्तादस्मात् सनि परस्मै- पदमेव, नात्मनेपदमिति ध्येयम्।]]
12
=>
[ग्रामं]
13
=>
[[७। सम्पूर्वकादकर्मकादस्मात्, ‘दृशेश्चेति वक्तव्यम्’ (वा। १-३-२९) इति शानच्।]]
14
=>
[[८। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तादात्मनेपदमेव।]]
15
=>
[[९। ‘त्यदादिषु दृशोऽनालोचने कञ् च’ (३-२-६०) इत्यनेन क्विन्-कञ् इत्युभौ प्रत्ययौ भवतः। तत्र क्विनि, त्यदादीनां उपपदभूतानां ‘आ सर्वनाम्नः’ (६-३-९१) इत्यनेन दृग्दृशवतुषु परेषु आत्वे, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे रूपम्। एवम्, यादृक्, तादृक्, ईदृक् इत्यादयोऽपि ज्ञेयाः।]]
16
=>
[पृष्ठम्०७६५+ २९]
17
=>
[[१। कर्तरि, ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शपि, ‘पाघ्राध्मा- स्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना पश्यादेशे, पररूपे पश्यः इति भवतिः। ‘अनुपसर्गात्’ इति, अत्र सम्बध्यते, इति केचित्। तेन पश्यः इत्येव सिद्ध्यति। तूत्पश्य इति।]]
18
=>
[[२। ‘त्यदादिषु दृशोऽनालोचने कञ्च’ (३-२-६०) इत्यनेन कनि प्रत्यये सर्वनाम्नो दृग्दृशवतुषु दीर्घे रूपम्। स्त्रियाम्, ‘टिड्ढाणञ्’ (४-१-१५) इत्यादिना ङीप्।]]
19
=>
[[३। ‘समानान्ययोश्च’ (वा। ३-२-६०) इति क्विन्कञौ प्रत्ययौ भवतः। तत्र, ‘दृग्दृशवतुषु’ (६-३-८९) इत्यनेन समानशब्दस्य सभावे सदृक् सदृशः सदृक्षः इति भवति। ईदृक् इत्यादिषु क्विन्कञोः प्रत्यययोः ‘इदंकिमोरीश्की’ (६-३-९०) इत्यनेन प्रकृतेः की इत्येतौ आदेशौ भवत इति विशेषः।]]
20
=>
[[४। ‘दृशेः क्सश्च वक्तव्यः’ (वा। ३-२-६०) इति क्सप्रत्यये रूपम्।]]
21
=>
[[५। कर्मण्युपपदे, भूतकाले, ‘दृशेः क्वनिप्’ (३-२-९४) इति क्वनिप्। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इत्येव क्वनिप्प्रत्ययेऽस्मादपि सिद्धे, अत्र सूत्रे पुनर्वचनं मनिनादिनिवृत्त्यर्थम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीप्, रेफादेशश्च।]]
22
=>
[[आ। ‘मां घ्नता भवताऽकारि निश्शङ्कं पापदृश्वना।।’ भ। का। ६। १३०।]]
23
=>
[[B। ‘यमास्यदृश्वरी तस्य ताटका वेत्ति विक्रमम्।’ भ। का। ५। ३४।]]
24
=>
[[६। ‘असूर्यललाटयोर्दृशितपोः’ (३-२-३६) इति खश्। शित्त्वात् पश्यादेशः। खित्त्वात् मुम्। असूर्य इति निपातनात् नञोऽसमर्थसमासः।]]
25
=>
[[C। ‘असूर्यम्पश्यया मूर्त्या हृता तां मृगयावहे।।’ भ। का। ६। ९९।]]
26
=>
[राजदाराः]
27
=>
[[७। ‘उग्रम्पश्येरम्मदपाणिन्धमाश्च’ (३-२-३७) इत्यनेन खश्प्रत्ययान्तो निपातितः। उग्रमिति क्रियाविशेषणम्। ‘उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि।’ इति प्र। सर्वस्वे।]]
28
=>
[[ड्। ‘उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता।’ भ। का। ४। २३।]]
29
=>
[[८। पश्यतीति पश्यः। एव पश्यकः--स्वार्थे कन्। ‘पश्यकः कश्यपोऽभवत्’ इति पौराणिकवचनात् पृषोदरादित्वात् कल्मशम्-कश्मलम् इत्यादिष्विव वर्णव्यत्ययः।]]
30
=>
[पृष्ठम्०७६६+ २८]
31
=>
[[१। सुष्ठु दर्शयतीति सुदर्शनः। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
32
=>
[[२। क्वसौ, ‘दृशेश्चेति वक्तव्यम्’ (वा। ७-२-६८) इति इड्विकल्पे रूपद्वयम्।]]
33
=>
[[आ। ‘प्राह्णतनादित्यकरोपमप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २। २३।]]
34
=>
[[B। ‘संकथेच्छुरभिधातुमनीशा सम्मुखी बभूव दिदृक्षुः।’ शि। व। १०। ४१।]]
35
=>
[[C। ‘सन्दिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्।’ भ। का। ५। ६४।]]
36
=>
[[३। ईषदाद्युपपदेषु ‘भाषायां शासियुधिदृशि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। ‘अयं युच् वा।’ इति प्र। कौमुदी। तेन, पक्षे ईषद्दर्शः-दुर्दर्शः- सुदर्शः इत्यपि साधु।]]
37
=>
[[४। करणेऽधिकरणे चार्थे, ‘पुंसि संज्ञायां घः --’ (३-३-११८) इति घप्रत्ययः। आदर्शः = दर्पणम्।]]
38
=>
[[ड्। ‘अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु।।’ शि। व। ३। ३५।]]
39
=>
[[५। दृश्येते सूर्याचन्द्रमसावस्मिन् दिवसे इत्यधिकरणे, ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। दर्शः = अमावास्या।]]
40
=>
[[६। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्।]]
41
=>
[[E। ‘वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः।’ भ। का। ७। २९।]]
42
=>
[[७। स्त्रियाम्, सम्पदादित्वात् (वा। ३-३-९४) भावे क्विप्। ‘क्तिन्नपीष्यते’ (वा। ३-३-९४) इत्युक्त्या दृष्टिरित्यपि साधुः।]]
43
=>
[[८। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। दृष्टिः = नेत्रम्।]]
44
=>
[[९। यद्यपि, ‘पश्यार्थैश्चानालोचने’ (८-१-२५) इत्यत्र निर्देशबलात् दर्शनम् = पश्यः, भावे शप्रत्ययोऽयम्। ल्युडपवादोऽयमिति प्रतीयते, तथाऽपि, ‘अदर्शनम् लोपः’ (१-१-६०) इति ल्युडन्तस्यापि सूत्रकारनिर्देशात् ल्युडपि भवति।]]
45
=>
[पृष्ठम्०७६७+ २७]
46
=>
[[१। कर्मण्युपपदे ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति णमुल्। यां यां कन्यां पश्यति तास्सर्वा अपि वरयतीति भावः।]]
47
=>
[वरयति]
48
=>
[[आ। ‘मांसशोणितसन्दर्शं तुण्डघातमयुध्यत।।’ भ। का। ५। १०१।]]
49
=>
[[२। ‘अर्जिदृशि--’ [द। उ। १। ११२]