| YouTube Channel

दृश्यादश्य (dRzyAdazya)

 
वाचस्पत्यम्
Sanskrit
दृश्यादश्य
त्रि०
दृश्यञ्च अदृश्यश्च द्वन्द्व० दृश्ये अदृश्ये च“अष्टादशशताभ्यस्तादृश्यांशाः स्वोदयासुभिः विभज्यलब्धाः क्षेत्रांशैस्तैर्दृश्यादृश्यताथ वा” सू० सि० “दृश्याचासौ अदृश्या च” कर्म०! “सा दृष्टेन्दुः सिनीवाली”अमरोक्तेः किञ्चिदंशेन दृश्यचन्द्रायाम् किञ्चिदंशेनअदृश्यचन्द्रायाञ्च सिनीवाल्यां स्त्री तस्यां चन्द्रस्य दर्श-नादर्शनयोः सत्त्वात् तथात्वम् तदभिमानिदेवतायाञ्चसा अङ्गिरसस्तृतीयकन्या यथाह भा० व० २१७ अ०“यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः तनुत्वात्सा सिनीवाली तृतीयाऽङ्गिरसः सुता”