| YouTube Channel

दृशी (dRzI)

 
Apte Hindi
Hindi
दृशी
स्त्री*
- दृशि + ङीष्
आँख
दृशी
स्त्री*
- दृशि + ङीष्
शास्त्र
L R Vaidya
English
dfSI {% f. %} 1. The eye
2. a śāstra.
शब्दकल्पद्रुमः
Sanskrit
दृशी,
स्त्री,
(दृश्यतेऽनयेति दृश् + इन् चकित् वा ङीष् ।) चक्षुः इति शब्द-रत्नावली
(यथा, --“किं सम्भूतं रुचिरयोर्द्विजशृङ्गयोस्तेमध्ये कृशो वहसि यत्र दृशिः श्रिता मे
”इति भागवते १२ ।चेतनः पुरुषः यथा, पातञ्जलसूत्रम् २५ ।“तदभावात् संयोगाभावो हानं तद्दृशेः कैव-ल्यम् ।”“तस्या अविद्याया अभावात् नाशात् संयोगा-भावः संयोगस्य नाशो भवतीति शेषः तच्च हानंसंयोगविगमः दृशेः पुरुषस्य कैवल्यं मुक्तिरितिचोच्यते
दृक्शक्तिः यथा, तत्रैव २० ।“द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।”दृशिमात्र इति दृक्शक्तिरेव विशेषेण परामृ-ष्टेत्यथः ।” इति भाष्यम्
दर्शनम् यथा, ऋग्वेदे ८० ।“एषा शुद्रा तन्वो विदानोर्द्ध्वेव स्नाती दृशयेनो अस्थात्
”“दृशये दर्शनाय” इति तद्भाष्ये सायनः
”)
वाचस्पत्यम्
Sanskrit
दृशि(शी) स्त्री दृश--भावे कि वा ङीप् दृष्टौ प्रकाशे च“द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः” पात० सू० “दृ-शिमात्र इति दृक्शक्तिरेव विशेषणेन परामृष्टेत्यर्थः सपुरुषो बुद्धेः प्रतिसंवेदी बुद्धेर्न सरूपोनात्यन्तं विरूपइति तावत् सरूपः कस्मात्? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिस्तस्याश्च विषयोगवादिर्घटादिर्ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति कस्मात्?न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता चेतिसिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्व-मिति किञ्च परार्था बुद्धिः संहत्यकारित्त्वात् स्वार्थःपुरुष इति तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणाबुद्धिस्त्रिगुणत्वादचेतनेति गुणानान्तूपद्रष्टा पुरुष इत्यतोन सरूपः अस्तु तर्हि विरूप इति नात्यन्तं विरूपः, कस्मात्? शुद्धोऽप्यसौ पश्यन्नतदात्मापि तदात्मक इवप्र्त्यवभासते तथा चोक्तम् अपरणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा परिणामिन्यर्थे प्रतिसंक्राम्येव तद्-वृत्तिमनुपतति तस्याश्च प्राप्तचेतनानुग्रहरूपायाबुद्धिवृत्तेरनुकारमात्रतया बुद्धिकृत्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते” भा० सूर्यप्रकाशयोरिव द्रष्टृदृश्योर्धर्मधर्मिणोरैक्यात् चेतने पुरुषे “दृशिस्वरूपो गग-नोपमोमतः” “तदभावात् संयोगाभावोहानं तद् दृशेःकैवल्यम्” पात० सू० “मिथ्यादर्शनस्याभावात् बुद्धिपुरु-षसंयोगाभावः आत्यन्तिको बन्धनोपरम इत्यर्थः एत-द्धानं तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनरसंयोगोगुणैरित्यर्थः दुःखकारणनिवृत्तौ दुःखोपरमो हानंतदा सरूपप्रतिष्ठः पुरुष इत्युक्तम्” भा० दृश--इक् ।४ दृशधातौ “दृशेरनालोचने कङ् च” पा०