दृशिर् (dRzir)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaदृशिर् - प्रेक्षणे (भ्वा० पर० सक० अनि०) पश्यति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅವಲೋಕಿಸು /ನೋಡು
प्रयोगाः - > "वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः"
उल्लेखाः - > माघ० १-१
धातुपाठः (Krishnacharya)
Sanskrit दृश्
दृशिर्
प्रेक्षणे
भ्वादिः
सकर्मकः
अनिट्
परस्मैपदी
पश्यति
कृदन्तरूपमाला
Sanskrit1 {@“दृशिर् प्रेक्षणे”@} 2 दर्शकः-र्शिका, दर्शकः-र्शिका, 3 दिदृक्षकः-क्षिका, 4 दरीदृशकः-शिका
5 द्रष्टा-द्रष्ट्री, दर्शयिता-त्री, दिदृक्षिता-त्री, दरीदृशिता-त्री
6 पश्यन्-न्ती, 7 8 पश्यन् 9, दर्शयन्-न्ती, 10 11 सन्दिदृक्षन्-न्ती
द्रक्ष्यन्-न्ती-ती, दर्शयिष्यन्-न्ती-ती, 12 सन्दिदृक्षिष्यन्-न्ती-ती
-- 13 संपश्यमानः, दर्शयमानः, 14 दिदृक्षमाणः, दरीदृश्यमानः, सन्द्रक्ष्यमाणः, दर्शयिष्यमाणः, दिदृक्षिष्यमाणः, दरीदृशिष्यमाणः
15 तादृक्-तादृशौ-तादृशः
-- -- -- दृष्टम्-दृष्टः-दृष्टवान्, दर्शितः, दिदृक्षितः, दरीदृशितः-तवान्
16 17 पश्यः, उत्पश्यः, 18 तादृशः, यादृशः, 19 सदृक्-सदृशः, अन्यादृक्- अन्यादृशः, ईदृक्-कीदृक्-ईदृशः-कीदृशः- 20 ईदृक्षः-कीदृक्षः, तादृक्षः, यादृक्षः, सदृक्षः, अन्यादृक्षः, सदृशी, तादृशी, 21 पापदृश्वा 22 -पारदृश्वरी, विवेकदृश्वा, 23 यमास्यदृश्वरी, 24 असूर्यम्पश्याः 25 26, 27 उग्रम्पश्यः 28, 29 कश्यपः, 30 31 सुदर्शनः, 32 ददृशिवान्-ददृश्वान् 33, मार्गदर्शी, दर्शः, 34 दिदृक्षुः, 35 सन्दिदर्शयिषुः, दरीदर्शः
द्रष्टव्यम्, दर्शयितव्यम्, दिदृक्षितव्यम्, दरीदृशितव्यम्
दर्शनीयम्, दर्शनीयम्, दिदृक्षणीयम्, दरीदृशनीयम्
दृश्यम्, दर्श्यम्, दिदृक्ष्यम्, दरीदृश्यम्
36 ईषद्दर्शनः-दुर्दर्शनः-सुदर्शनः
-- -- दृश्यमानः, दर्श्यमानः, दिदृक्ष्यमाणः, दरीदृश्यमानः
दर्शः, 37 आदर्शः, 38, 39 दर्शः दर्शः, दिदृक्षः, दरीदृशः
द्रष्टुम्, 40 द्रष्टुम्, 41 दर्शयितुम्, दिदृक्षितुम्, दरीदृशितुम्
42 दृक्, दृष्टिः, 43 दृष्टिः, दर्शना, दिदृक्षा, दरीदृशा
दर्शनम्, 44 पश्यः, दर्शनम्, दिदृक्षणम्, दरीदृशनम्
45 दृष्ट्वा, दर्शयित्वा, दिदृक्षित्वा, दरीदृशित्वा
सन्दृश्य, प्रदर्श्य, प्रदिदृक्ष्य, प्रदरीदृश्य
46 कन्यादर्शं 47, 48 मांसशोणितसन्दर्शं, विप्रदर्शम्
दर्शम् २, दृष्ट्वा २, दर्शम् २, दर्शयित्वा २, दिदृक्षम् २, दिदृक्षित्वा २, दरीदृशम् २
दरीदृशित्वा २
49 इति कुप्रत्यये, यथाक्रमं पश्वादेशे च रूपम्।
पशुः = मन्त्रबाह्यो जनः।]] पशुः।
01 (८६५)
02 (१-भ्वादिः-९८८। सक। अनि। पर।)
03 [[१। सन्नन्तान्ण्वुलि, सनो झलादित्वेन, ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वेन, अमभावे, द्वित्वादिषु कृतेषु, ‘त्रश्च--’ (८-२-३६) इत्यादिना धातुशकारस्य षकारे, ‘षढोः कः सि’ (८-२-४१) इति तस्य ककारे, षत्वे च रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04 [[२। यङन्ते सर्वत्र ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासे रीगागमः।]]
05 [[३। तृचि, ‘सृजिदृशोर्झल्यमकिति’ (६-१-५८) इति अमागमे, यणादेशे च रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06 [[४। शतरि, शपि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ- पश्यर्च्छ--’ (७-३-७८) इति पश्यादेशे, पररूपे, च रूपमेवम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
07 [हरिं]
08 [[५। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति हेतौ शता। हरिदर्शनं मोक्षहेतुरित्यर्थः।]]
09 [विमुच्यते]
10 [ग्रामं]
11 [[६। ‘दृशेश्च--’ (वा। १-३-२९) इत्यत्र ‘अकर्मकात्’ इत्युक्त्या, सकर्मकादस्मात् सम्पूर्वकात् तु यथाप्राप्तं परस्मैपदमेव भवतीति, तदन्तादस्मात् सनि परस्मै- पदमेव, नात्मनेपदमिति ध्येयम्।]]
12 [ग्रामं]
13 [[७। सम्पूर्वकादकर्मकादस्मात्, ‘दृशेश्चेति वक्तव्यम्’ (वा। १-३-२९) इति शानच्।]]
14 [[८। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तादात्मनेपदमेव।]]
15 [[९। ‘त्यदादिषु दृशोऽनालोचने कञ् च’ (३-२-६०) इत्यनेन क्विन्-कञ् इत्युभौ प्रत्ययौ भवतः। तत्र क्विनि, त्यदादीनां उपपदभूतानां ‘आ सर्वनाम्नः’ (६-३-९१) इत्यनेन दृग्दृशवतुषु परेषु आत्वे, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वे च रूपम्। एवम्, यादृक्, तादृक्, ईदृक् इत्यादयोऽपि ज्ञेयाः।]]
16 [पृष्ठम्०७६५+ २९]
17 [[१। कर्तरि, ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शपि, ‘पाघ्राध्मा- स्थाम्नादाण्दृश्यर्ति--’ (७-३-७८) इत्यादिना पश्यादेशे, पररूपे पश्यः इति भवतिः। ‘अनुपसर्गात्’ इति, अत्र न सम्बध्यते, इति केचित्। तेन पश्यः इत्येव सिद्ध्यति। न तूत्पश्य इति।]]
18 [[२। ‘त्यदादिषु दृशोऽनालोचने कञ्च’ (३-२-६०) इत्यनेन कनि प्रत्यये सर्वनाम्नो दृग्दृशवतुषु दीर्घे रूपम्। स्त्रियाम्, ‘टिड्ढाणञ्’ (४-१-१५) इत्यादिना ङीप्।]]
19 [[३। ‘समानान्ययोश्च’ (वा। ३-२-६०) इति क्विन्कञौ प्रत्ययौ भवतः। तत्र, ‘दृग्दृशवतुषु’ (६-३-८९) इत्यनेन समानशब्दस्य सभावे सदृक् सदृशः सदृक्षः इति भवति। ईदृक् इत्यादिषु क्विन्कञोः प्रत्यययोः ‘इदंकिमोरीश्की’ (६-३-९०) इत्यनेन प्रकृतेः ई की इत्येतौ आदेशौ भवत इति विशेषः।]]
20 [[४। ‘दृशेः क्सश्च वक्तव्यः’ (वा। ३-२-६०) इति क्सप्रत्यये रूपम्।]]
21 [[५। कर्मण्युपपदे, भूतकाले, ‘दृशेः क्वनिप्’ (३-२-९४) इति क्वनिप्। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इत्येव क्वनिप्प्रत्ययेऽस्मादपि सिद्धे, अत्र सूत्रे पुनर्वचनं मनिनादिनिवृत्त्यर्थम्। स्त्रियाम्, ‘वनो र च’ (४-१-७) इति ङीप्, रेफादेशश्च।]]
22 [[आ। ‘मां घ्नता भवताऽकारि निश्शङ्कं पापदृश्वना।।’ भ। का। ६। १३०।]]
23 [[B। ‘यमास्यदृश्वरी तस्य ताटका वेत्ति विक्रमम्।’ भ। का। ५। ३४।]]
24 [[६। ‘असूर्यललाटयोर्दृशितपोः’ (३-२-३६) इति खश्। शित्त्वात् पश्यादेशः। खित्त्वात् मुम्। असूर्य इति निपातनात् नञोऽसमर्थसमासः।]]
25 [[C। ‘असूर्यम्पश्यया मूर्त्या हृता तां मृगयावहे।।’ भ। का। ६। ९९।]]
26 [राजदाराः]
27 [[७। ‘उग्रम्पश्येरम्मदपाणिन्धमाश्च’ (३-२-३७) इत्यनेन खश्प्रत्ययान्तो निपातितः। उग्रमिति क्रियाविशेषणम्। ‘उग्रम्पश्यः क्रूरदृष्टिरुग्रं पापं विदन्नपि।’ इति प्र। सर्वस्वे।]]
28 [[ड्। ‘उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता।’ भ। का। ४। २३।]]
29 [[८। पश्यतीति पश्यः। स एव पश्यकः--स्वार्थे कन्। ‘पश्यकः कश्यपोऽभवत्’ इति पौराणिकवचनात् पृषोदरादित्वात् कल्मशम्-कश्मलम् इत्यादिष्विव वर्णव्यत्ययः।]]
30 [पृष्ठम्०७६६+ २८]
31 [[१। सुष्ठु दर्शयतीति सुदर्शनः। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
32 [[२। क्वसौ, ‘दृशेश्चेति वक्तव्यम्’ (वा। ७-२-६८) इति इड्विकल्पे रूपद्वयम्।]]
33 [[आ। ‘प्राह्णतनादित्यकरोपमप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २। २३।]]
34 [[B। ‘संकथेच्छुरभिधातुमनीशा सम्मुखी न च बभूव दिदृक्षुः।’ शि। व। १०। ४१।]]
35 [[C। ‘सन्दिदर्शयिषुः साम निजुह्नूषुः क्षपाटताम्।’ भ। का। ५। ६४।]]
36 [[३। ईषदाद्युपपदेषु ‘भाषायां शासियुधिदृशि--’ (वा। ३-३-१३०) इति खलपवादो युच्प्रत्ययः। ‘अयं युच् वा।’ इति प्र। कौमुदी। तेन, पक्षे ईषद्दर्शः-दुर्दर्शः- सुदर्शः इत्यपि साधु।]]
37 [[४। करणेऽधिकरणे चार्थे, ‘पुंसि संज्ञायां घः --’ (३-३-११८) इति घप्रत्ययः। आदर्शः = दर्पणम्।]]
38 [[ड्। ‘अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु।।’ शि। व। ३। ३५।]]
39 [[५। दृश्येते सूर्याचन्द्रमसावस्मिन् दिवसे इत्यधिकरणे, ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। दर्शः = अमावास्या।]]
40 [[६। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थक्रियायां तुमुन्।]]
41 [[E। ‘वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः।’ भ। का। ७। २९।]]
42 [[७। स्त्रियाम्, सम्पदादित्वात् (वा। ३-३-९४) भावे क्विप्। ‘क्तिन्नपीष्यते’ (वा। ३-३-९४) इत्युक्त्या दृष्टिरित्यपि साधुः।]]
43 [[८। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। दृष्टिः = नेत्रम्।]]
44 [[९। यद्यपि, ‘पश्यार्थैश्चानालोचने’ (८-१-२५) इत्यत्र निर्देशबलात् दर्शनम् = पश्यः, भावे शप्रत्ययोऽयम्। ल्युडपवादोऽयमिति प्रतीयते, तथाऽपि, ‘अदर्शनम् लोपः’ (१-१-६०) इति ल्युडन्तस्यापि सूत्रकारनिर्देशात् ल्युडपि भवति।]]
45 [पृष्ठम्०७६७+ २७]
46 [[१। कर्मण्युपपदे ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति णमुल्। यां यां कन्यां पश्यति तास्सर्वा अपि वरयतीति भावः।]]
47 [वरयति]
48 [[आ। ‘मांसशोणितसन्दर्शं तुण्डघातमयुध्यत।।’ भ। का। ५। १०१।]]
49 [[२। ‘अर्जिदृशि--’ [द। उ। १। ११२]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
