| YouTube Channel

दृशिँर् (dRzi~r)

 
धातुप्रदीपः
Sanskrit
दृशिर् प्रेक्षणे
- पश्यति सम्पश्यते ददर्श ददृशतुः द्रष्टा अदर्शत् अद्राक्षीत् परलोकदृश्वा सदृक् सदृशौ सदृशः दृष्ट्वा दृष्टम् दृष्टिः ।। 996 ।।
क्षीरतरङ्गिणी
Sanskrit
दृशिर् प्रेक्षणे
- पाघ्राध्मा (7378) इति पश्यादेशः पश्यति समो गम्यृछि (1329) इत्यत्र दृशेश्च )(1329 काशिका) इति तङ्-संपश्यते विभाषा सृजिदृशोः (7265) थलीट्-ददर्शिथ, दद्रष्ठ सृजिदृशोर्झल्यमकिति (6158) इत्यमागमः-द्रष्टा स्यसिच्सीयुट्तासिषु (6462) इति चिण्वदिट् च-दर्शिष्यते त्वया इरितो वा (3157) इत्यङ्, ऋदृशोऽङि गुणः (7416) अदर्शत, अद्राक्षीत्, दृशः (3147) इति क्सो नास्ति ज्ञाश्रुस्मृदृशां सनः (1357) तङ्-दिदृक्षते चङि उरृत् (7447) वा-अददर्शत्, अदीदृशत्, अभिवादिदृशोरात्मनेपदे (1453 वा0) वा कर्तुः कर्मसंज्ञा-राजा दर्शयते भृत्यान्, भृत्यैर्वा पाघ्राध्माधेड्दृशः शः (तु0 31137) उत्पश्यः असूर्यललाटयोर्दृशितपोः (3236) खश्-असूर्यम्पश्या राजदाराः उग्रम्पश्येरम्मदपाणिन्धमाश्च (3237) त्यदादिषु दृशोऽनालोचने कञ्च (3260) तादृक्, तादृशः तादृक्षः (द्र0 3260काशिक) समानान्ययोश्च (3260 वा0) सदृशः, अन्यादृशः दृशे क्वनिप् (3294) पारदृश्वा दर्शः, आदर्शः अर्जिदृशिकम्यमि (उ0 127) इति पशुः भाषायां शासियुधिदृषिधृविमृषिभ्यो युच् (33130 वा0) सुदर्शनः कर्मणि दृशिविदोः साकल्ये (3429) णमुल्- कन्यादर्शं वरयति 959
धातुवृत्तिः
Sanskrit
दृशिर् (अर्थः) प्रेक्षणे
( पश्यति ) "पाघ्रा'' इत्यादिना पश्यादेश इत्संज्ञकाशकारादौ शपि ( ददृशे ददृशतुः ददर्शिथ दद्रष्ठ ददृशिव ) "विभाषा सृजिदृशोः" इति थलि इडभावपक्षे "सृजिदृशोर्झल्यमकिति" इति अकिति झलादौ अमागमविधानात् अमि यणि "व्रश्च'' इत्यादिना षत्वं ( द्रष्टा द्रक्ष्यति ) षत्वं, "षढो, कः सि'' इति कत्वं ( पश्यतु पश्येत् आशिषि दृश्यात् अदर्शत्, अदर्शताम् ) "हरितो वा'' इत्यङि "ॠदृशोऽङि गुणः'' इति गुणः अङभावे "न दृशः'' इति क्सनिषेधात् सिच्यमि यणादेशे हलन्तलक्षणायां वृद्धौ ( अद्राक्षीत् दिदृक्षते ) "ज्ञाश्रुस्मृदृशां सनः'' इति सनन्तात्तङ् "हलन्ताच्च'' इति सनः कित्त्वात् गुणः, नाप्यमागमः ( दरीदृश्यते ) रीक् ( दर्द्रष्टि दर्द्रष्टः ) लोटि हेर्धित्वेऽमागमे षत्वष्टुत्वजश्त्वेन दर्हर्ङ्ढि दर्दृशानि आटि "नाभ्यस्तस्य'' इति गुणनिषेधः लङिः तिप्सिपोः अदर्द्रक् ( सूत्रम्) क्विन्प्रत्ययस्य कुः (इति सूत्रम्) इत्यत्र क्विन् कुरिति वक्तव्ये प्रत्ययग्रहणं यस्मात् क्विनस्ति तस्य सर्वत्र पदान्ते कुत्वार्थमिति षत्वं बाधित्वा शकारस्यान्तरतम्यात्कुत्वेन खकारे "वावसाने'' चर्त्वं ककारः दर्शयति रूपतर्कं कार्षापणम् ( अदीदृशत् अददर्शत् ) "उरृत्'' वा दृशेः सर्वत्र प्रयोज्यस्य रूपतर्कस्य कर्मत्वं, यदायं दृशिश्चक्षुःसाधने ज्ञानविशेषे वर्त्तते तदेदमुपसंख्यानं, यदा तु ज्ञानमात्रवचनस्तदा बुद्ध्यर्थत्वादेव सिद्धम् तत्र बुद्धर्था ज्ञानसामान्यवचना तु विशेषवचना इति स्थितं, यदा तु ण्यन्तादात्मनेपदं तदा [अभिवादिदृशोरात्मनेपदउपसंख्यानम्] इति प्रयोज्यस्य कर्मत्वविकल्पनात् दर्शयते रूपततर्केण कार्षापणं रूपतर्कमित्युभयं भवति, पश्यन्ति भृत्या राजानं, दर्शयते भृत्यान् राजा भृत्यैरिति वा संपश्यते [ दृशेश्चेति वक्तव्यम् ] इति संपूर्वात् अकर्मकात् तङ् ( संददृशे संद्रक्ष्यते संपश्यताम् समपश्यत संपश्येत आशिषि संदृक्षीष्ट समदृक्षत) लिङ्सिचोः कित्वात् गुणः, नाप्यमागमः झलि सिज्लोपे प्रत्ययलक्षणेन "षढोः कः सि'' इति कत्वं भवति सिज्लोपस्य प्रत्ययलक्षणेऽसिद्धत्वादिति तत्रोक्तम् कर्मणि दृश्यते ( अदर्शि )स्यादिषु पक्षे चिण्वदिटि ( दर्शिष्यते द्रक्ष्यते अदर्शिषाताम् अदृक्षाताम् दर्शिषीष्ट द्रक्षीष्ट दर्शिता ) द्रष्टेत्युभयं भवति ( दृश्यम् ) "ऋदुपधाच्च'' इति क्यप् ( उत्पश्यः ) "पाघ्राध्माधेट्दृशःशः'' इति उपसृष्टात् कर्त्तरि शे पश्यादेशः दर्शनं पश्यः अत्र "पश्यार्थैः'' इति निपातनात् भावे शः अदर्शनमित्यादिनिर्देशात् ल्युडपि भवति असूर्यंपश्या राजदाराः गुप्तिपरं चैतत् एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि पश्यन्ति इति "असूर्यललाटयोः'' इति खश् अत एवासूर्येति निर्देशात् दृशिना नञ्संबन्धेन असमर्थत्वेऽपिसमासः ( उग्रंपश्यः ) "उग्रंपश्य'' इत्यादिना क्रियाविशेषणे कर्मण्युग्रशब्दउपपदे खशिनिपात्यते (तादृक्) "त्यदादिषु दृशोऽनालोचने कञ् च'' इति त्यदादिषु कर्मसूपपदेषु आलोचनात् चक्षुर्विज्ञानात् अन्यत्र वर्त्तमानात् दृशेः कञ् प्रत्ययः चकारात् क्विन्, कञः कित्वात् गुणः, ( तादृशी ) "टिड्ढाणञ्''इत्यादिना ङीष्, (तादृक्षः), [क्सश्च वक्तव्यः]इति क्सश्च "आ सर्वनाम्नः'' इति दृग्दृशवतुषु परतः सर्वनाम्नोऽन्त्यस्याकारः [ दृक्षे चेति वक्तव्यः ] इति चाकारः ( सदृक् सदृशः सदृक्षः )दृग्दृशवतुषु इति समानस्य सभावे [ दृक्षे चेतिवक्तव्यम् ] इति दृक्षे सभावे, अत एव दृगादिषु सभाववचनात् समानान्ययोश्चेति व्यक्तव्याद्वा कञ् क्विन् कः समानान्ययोरपि उपपदयोर्भवति सदृशीत्यत्र पूर्ववन्ङीब् भवति (परलोकदृश्वा) "दृशेःक्वनिप्'' इति कर्मण्युपपदे भूते क्वनिप् स्त्रियां "वनो च''इति ङीप्_ ( परलोकदृश्वरी सुदर्शनः ) [भाषायां शासियुधिदृशिभ्यो युज्वक्तव्यः] इति खलोऽपवादोयुच् कन्यादर्शं वरयति यां यां कन्यां पश्यति तां तां वरयतीत्यर्थः "कर्मणि दृशिविदोः साकल्ये'' इति कर्मण्युपपदेऽस्मात् साकल्ये गम्ये णमुल् ( पशुः ) "अर्दिदृशि'' इत्युप्रत्ययः पशादेशश्च यदायमसत्त्ववचनस्तदा चादित्वान्निपातनत्वं, यथा लोधं नयन्ति पशुमन्यमाना इति, पशु सम्यगिति ह्यत्रार्थः (दर्शनः)"भृदृशि" इत्यादिना ऽनच् (दृक्) संपदादित्वात् क्विप् क्तिनपीष्यते इति क्तिनि (दृष्टिः) 968