| YouTube Channel

दृश (dRza)

 
शब्दसागरः
English
दृश (औ ईर) औदृशीर r. 1st cl. (पश्यति) To see. With उत् prefixed, 1. To
see, to observe.
2. To anticipate, to foresee.
3. To doubt, to think
doubtingly. भ्वा० पर० सक० अनिट्
Wilson
English
दृश (औ ईर) औदृशिर r. 1st cl. (पश्यति) To see.
With उत् prefixed,
1 To see, to observe.
2 To anticipate, to foresee.
3 To doubt, to think doubtingly.
Monier Williams Cologne
English
दृश
m.
look, appearance (cf. ई-द्°, की-द्°, ता-द्°
&c.
)
Monier Williams 1872
English
दृश, अस्, m. seeing, looking [cf. ई-द्°, की-द्°, ता-
द्°, &c.]
(आ), f. the eye
(अम्), ind. = 2. दृश्, at the
end of adv. comp.
—दृशाकाङ्क्ष्य (°शा-आक्°), अम्,
n. ‘the desire of the eye, a lotus, a species of Nelum-
bium.
—दृशोपम (°शा-उप्°), अम्, n. ‘resembling
the eye, the white lotus, Nelumbium Speciosum.
Macdonell
English
दृश dṛś-a,
m.
(ī,
f.
) sight, look, appearance 🞄(—°).
Lanman
English
dṛśa, m. the seeing
in cpds [518], look,
appearance. [do.]
शब्दकल्पद्रुमः
Sanskrit
दृश, इर् प्रेक्षे इति कविकल्पद्रुमः
(भ्वां-परं-सकं-अनिट् ।) इर्, अदर्शत् अद्राक्षीत् ।औ, द्रष्टा प्रेक्षश्चाक्षुषज्ञानम् पश्यति चन्द्रंलोकः ततः ददृशे तौ इति व्यतीहारेआत्मनेपदम् कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगेभागरथि ! स्वं वपुरिति गणकृतानित्यत्वात् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दृश वाक्षुषज्ञाने
भ्वा०
पर०
सक०
अनिट् पश्यति इरित्अदर्शत् अद्राक्षीत् ददर्श ददर्शिथ दद्रष्ठ ददृशिवद्रष्टा दृश्यात् द्रक्ष्यति दर्शनीयं द्रष्टव्यं दृश्यः द्रष्टादृष्टः द्रष्टुं दृष्टिः दृक् दृष्ट्वा प्रदृश्य “तुतोष पश्यन्वितृणान्तरालाः” भट्टिः पश्यतो हरः “न तु मांशक्यसे द्रष्टुमनेनैव स्वचक्षुषा दिव्यं ददामि तेचक्षुः पश्य से योगमैश्वरम्” “अपश्यद् देवदेवस्यशरीरे पाण्डवस्तदा” गीता “ददर्श दूनः स्थलपद्मिनींनलः” नैष० मानसज्ञाने “शान्तोदान्त उपरतस्तितिक्षुःश्रद्धावान् समाहितीभूत्वा आत्मन्यात्मानं पश्यति”श्रुतिः “आत्मा वा अरे द्रष्टव्यः” वृ० उ० श्रुतिः णमुल्“तं विप्रदर्शं कृतघातयत्ना” भट्टिः “दृशेरनालोचनेकङ् च” पा० कर्त्तरि कङ् अन्यादृशः कीदृशः चात्क्विन् क्स अन्यादृक् अन्यादृक्षः पश्यः “अपास्यपश्यं निजदृश्यखेटात्” नील० ता० “उग्रम्पश्या-कुलेऽरण्ये” भट्टिः दर्शयति ते अददर्शत् अदीदृशत् ।णिचि कर्मणः कर्तृत्वे तङ् दर्शयते भवो भक्तान्भक्तैर्वा आत्मानमिति शेषः एवं विषये दृशेः कर्तुर्वाकर्मसंज्ञा “सीतां रामेण चात्मानमदर्शयत लक्ष्मणम्”मुग्धबो० सनि तङ् दिदृक्षते “दिदृक्षमाणः परितःससीतं रामं यदा नैक्षत लक्षणञ्च” भट्टिः दिदृक्षा कर्मणिदृश्यते “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्”श्रुतिः “जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः”मनुः “अदर्शि सङ्कोप्य कदाप्यवीक्षितः” “रूपमदर्शिधृतोऽसि यदर्थम्” नैष० अस्यार्षे क्वचित्तङपि “यं यंहि ददृशे सेयं तं तं मेने नलं नृपम्” भा० व० २२०२ श्लो० ।दर्शनयोग्ये प्रकाशे अक० “मधुरात्मानमदर्शयत् पुरः”कुमा० दर्शनार्थत्वे तङ् स्यादिति बोध्यम् ।अनु + अनुरूपदर्शने “रथे विलग्नाविव चन्द्रसूर्यौ घनान्तरेणा-नुददर्श लोकः” भा० वि० १६९ श्लो० दृशिशब्दे पात० सूत्रेउदा० दृश्यम् “बहुविधमनुदृश्य चार्थहेतोः कृ-पणमिहार्यमनार्यमाश्रयन्तम्” भा० शा० १७९ अ०अभि + आभिमुख्येन समन्ताद्वा दर्शने “तदा प्रभृति कौ-न्तेय! नरा गिरिमिमं सदा नाशक्नुवन्नभिद्रष्टुं कुतएवाघिरोहितुम्” भा० व० ९९८२ श्लो०अव + नीचतया दर्शने “यथा जलस्थ आभासः स्थल-स्थेनावदृश्यते स्वाभासेन यथा सूर्यो जलस्थेन दिवि-स्थितः” भाग० २७ १२आ + आभिमुख्येन समन्ताद्वा दर्शने आदर्शः “उत्कलादा-र्शितपथः कलिङ्गाभिमुखो ययौ” रघुः ।उद् + नीचस्थस्योच्चतया दृष्टौ उत्प्रेक्षणे चउप + सामीप्येन दर्शने “चतुष्पाद् व्यवहारोऽयं विवा-देषूपदर्शितः” याज्ञ० ।नि + दृष्टान्ततया साम्मुख्येन वा दर्शने “द्रष्टुमिच्छामि तेरूपमैश्वरं त्वं निदर्शय” भा० आश्र० १५८८ श्लो०निदर्शनालङ्कारः “निदर्शयामास विशेषदृश्यम्” रघुःपरा + विपरीतदर्शने यस्य यथारूपं ततोऽन्यरूपेण दर्शने“धूममग्निं परादृश्या मित्राहृत्स्वा दधतां भयम्” अथ०८ “त्रीन् स्तनानुपेयुस्तं पराददृशुः द्वौ स्तनाउपेयुस्तन्नेदीयसः पराददृशुः” शत० ब्रा० ।परि + परितः समन्ताद्वा दर्शने “परिदृष्टानि तीर्थानि गङ्गा-चैव मया नृप!” भा० आश्र०७३ अ० परिच्छिन्नतयादर्शने “बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिःपरिदृष्टो दीर्घसूक्ष्मः” पा० सू० दीर्घसूक्ष्मशब्दे ३६१४ पृ० दृश्यम् ।प्र + सम्यग्दर्शने “मनसैव प्रदीपेन महानात्मा प्रदृश्यते”भा० आश्व० १९ अ० “अहो त्वयाद्य विप्रेषु भक्तिरागःप्रदर्शितः” भा० अनु० ७२११ श्लो० एकदेशदर्शने ।प्रदर्शनार्थमिदमुक्तम् “योगेश्वरत्वं कृष्णेन यत्र राज्ञांप्रदर्शितम्” भा० आ० ५१० श्लो० ।प्रति + तुल्यरूपदर्शने “कृताभ्यङ्गः शोणितेन रुद्रवत् प्रत्य-दृश्यत” भा० भी० ४६७९ श्लो० “निमित्तलक्षणं ज्ञानंशाकुनं स्वप्नदर्शनम् अवश्यं सुखदुःखेषु नराणांप्रतिदृश्यते” रामा० अयो० ५८१५ श्लो०वि + विशेषेण दर्शने “विदर्शयन्तोविविधान् भूयश्चित्रांश्च नि-र्झरान्” रामा० अयो० ४८ अ० १३ श्लो०सम् + सम्यग्दर्शने “संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-शनम्” भा० शा० १०६८ श्लो०