| YouTube Channel

दृभ (dRbha)

 
शब्दसागरः
English
दृभ (ई) दृभी r. 6th cl. (दृभति)
1. To string, to arrange.
2. To give pain.
r. 1st and 10th cls. (दर्भति दर्भयति-ते) To fear, to be afraid. तुदा० पर०
सक० सेट् भ्वा० पर० अक० चुरा० उभ०
Wilson
English
दृभ (ई) दृभी r. 6th cl. (दृभति)
1 To string, to arrange.
2 To give pain. r. 1st and 10th cls. (दर्भति दर्भयति) To fear, to be
afraid.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दृभ्
मूलधातुः:
दृभ
धात्वर्थः:
सन्दर्भे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दर्भयति-ते, दर्भति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
दृभँ दृभ संदर्भे
- पूर्ववदुदाहरणम् दृभितमिति विशेषः 266
शब्दकल्पद्रुमः
Sanskrit
दृभ, कि भये इति कविकल्पद्रुमः
(चुरां-पक्षे भ्वां-अकं-सेट् ।) कि, दर्भयति दर्भति ई, दृब्धः रमानाथस्तु दृ भी इति घातुद्वयं मत्वादारयति दरति भाययति भयति इत्याह ।इति दुर्गादासः
दृभ, कि गुम्फने इति कविकल्पद्रुमः
(तुदां-चुरां पक्षे भ्वां-सकं-सेट् ।) श, दृभति ।ई, दृब्धः कि, दर्भयति दर्भति गुम्फनं ग्रन्थ-नम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दृभ ग्रथने वा चुरा०
उभ०
पक्षे तु०
पर०
सक०
सेट् दर्भयतिते दृमति अदीदृभत्--तं अददर्भत् अदर्भीत् ईदित् ।दृब्धः दृब्धवान् दर्भ
दृभ भये वा चुरा०
उभ०
पक्षे
भ्वा०
पर०
अक० सेट् दर्भयति--तेदर्भति अदीदृभत् अददर्भत् अदर्भींत् ईदित्दृब्धः दृब्धवान्
धातुवृत्तिः
Sanskrit
दृभँ दृभ (अर्थः) सन्दर्भे
अस्यानीदित्त्वान्निष्ठायामपि सेट्त्त्वं विशेषः अमुं बहवो पठन्तीतिपुरुषकारे अस्माभिस्तु देवमैत्रेयानुसारेण पठितः तुदादेरीदितो ग्रन्थने दृभतीति 281
कृदन्तरूपमाला
Sanskrit
1 {@“दृभ सन्दर्भे”@} 2 ‘दृभी भये विभाषा णौ स्यातां दर्भति दर्भयेत्।।
अनीदितश्च सन्दर्भे दृभति ग्रन्थ ईदितः।’ 3 इति देवः।) दर्भकः-र्भिका, दिददर्भियिषकः-षिका, दर्भकः-र्भिका, दिदर्भिषक-षिका, दरीदृभकः-भिका
इत्यादीनि रूपाणि चौरादिकचर्पयतिवत् 4 ज्ञेयानि।
णिजभावपक्षे शतरि दर्भन् इति रूपम्।
प्रासङ्गिक्यः
01
=>
(८६२)
02
=>
(१०-चुरादिः-१८२३ अक। सेट्। उभ। आधृषीयः।)
03
=>
(श्लो। १४१-२)
04
=>
(५५४)