| YouTube Channel

दृतिवातवतोरयन (dRtivAtavatorayana)

 
वाचस्पत्यम्
Sanskrit
दृतिवातवतोरयन
न०
अलुक् स० सत्रभेदे “दृतिवातवतो-रयनमेकैकेन पृष्ठ्यस्तोमेन मासं मासम्” कात्या० श्रौ० २४ ।२४ १६ “दृतिवातवतोरयनमिति सत्रस्य संज्ञा” कर्कः ।ताण्ड्यव्रा०२५ वाक्यादौ अस्य विवृतिः “अथदृतिवातवतोरयनमाह भा० “अतिरात्रस्त्रिवृता मासं, पञ्चदशेन मासं, सप्तदशेन मासमेकविंशेन मासं, त्रिणवेन मासं, त्रयस्त्रिंशेन मासं, महाव्रतं, त्रयस्त्रिं-शेन मासं, त्रिणवेन मासमेकविंशेन मासं, सप्तदशेनमासं, पञ्चदशेन मासं, त्रिवृता मासमतिरात्रः” ।१ “प्रथमं प्रायणीयोऽतिरात्रस्ततस्त्रिवृदादित्रयस्त्रिं-शान्ताः आदितः षण्मासा आप्तव्याः विषुवतःस्थाने महाव्रतं भवति तएव त्रिवृदादिमासा उत्त-रस्मिन् पक्षसि द्वादशादिसप्तमासान्ताः षण्मासाःस्युः तत उदयनीयमहः एतानि त्रिषष्ट्युत्तरशतत्रय-महानि स्युः अधिकयोर्द्वयोरह्नोः व्यवस्थाविषये सूत्र-कारः दृतिवातवतोरयने द्वावेकीनौ मासौ सुनुयुस्त्रि-वृताविति गौतमस्त्रयस्त्रिंशाविति धानञ्जय्यः उभौ वात्रिंशिनौ स्यातां यथैतद्व्राह्मणमिति त्रयस्त्रिंशावे-कोनाविति कल्पकारस्य मतम् अथैतदयनं कर्तृद्वाराप्रशंसति” भा० “एतद्वै दृतिवातवन्तौ खाण्डव उपेतोविषुवति वातवानुत्तिष्ठति, समापयति दृतिस्तस्मात्तनीयां-सोवातवता भूयांसो दार्त्तेयाः” “एतत् सत्रायणंदृतिश्च वातवांश्चेत्युभौ यजमानौ खाण्डवे वने उपेतःअन्वतिष्ठतामित्यर्थः भूतकाले व्यत्ययेन वर्त्तमानप्रत्ययःएवमुत्तरयोरप्याख्यातयोर्द्रष्टव्यं तयोरनुष्ठानप्रयुक्तंकिञ्चित् फलवैषम्यं वक्तुमाह वातवान् विषुवति महा-व्रते सम्पूर्णे उत्तिष्ठति उत्तिष्ठन् सत्रं समापितवान्दृतिस्तु द्वादशापि मासानास्थाय संमापयन् यस्मादेकंतस्माद्वातवता वातवतोवंश्यास्तनीयांसः अत्यर्थं तनवःकृशा अभवन् दार्त्तेया दृतिवंश्यास्तु भूयांसो, बहुकृत्-स्नानुष्ठानं प्रशस्तफलवदित्युक्तं भवति अत्र विवृतिभिःकॢप्तम् इति वातवतोरयनमात्रिणवेभ्यस्त्रिवृद्भ्य उद्धर-त्युक्थानि पञ्चदशेभ्यः षोडशिनमित्यादिकं द्रष्टव्यम्”