| YouTube Channel

दृङ्नति (dRGnati)

 
वाचस्पत्यम्
Sanskrit
दृङ्नति स्त्री सि० शि० ग्रहणदर्शनोपयोगितया दर्शितेदृक्प्रचारस्य नतिविशेषे यथा“त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्ययोर्वर्गवियोग-मूलम् स्याद्दृङ्नतिर्वेदगुणा त्रिमौर्व्या भक्ताथवालम्बननाडिकाः स्युः” मू० “त्रिभोनलग्नस्य यः” शङ्कुः सा-धितस्तथा दर्शान्तकाले रवेः स्वोपकरणैर्यः शङ्कुरुत्पद्यतेतावनष्टौ स्थापयित्वा तयोश्च दृगज्ये साध्ये अथतयोः शङ्क्वोर्यद्वर्गान्तरपदं तद्दृङ्नतिसंज्ञं भवतिप्रथमप्रकारोऽयम् अथ दृङ्नतेर्द्वितीयः प्रकारः तयो-र्दृर्ग्ज्ययोर्वर्गान्तरपदं दृङ्नतिसंज्ञं भवति अथ दृङ्-नतेर्लम्बनमुच्यते दृङ्नतिश्चतुर्गुणा त्रिज्यया भक्ताफलं लम्बननाडिकाः स्युः अत्रोपपत्तिः सैव यदावित्रिभलग्नं खमध्ये भवति तदा दृङ्मण्डलमेव क्रान्ति-वृत्तम् त्रिभोनलग्नार्कयोर्यान्तरज्या सैव तदार्कस्यदृगज्या सा चतुर्गुणा त्रिज्ययाप्ता मध्यंमं किललम्बनं भवति तदेव स्फुटम् ऊर्ध्वस्थितत्वात् क्रा-न्तिवृत्तस्य अथ यदा वित्रिभलग्नं खार्धान्नतम्तिर्यक्स्थितत्वात् क्रान्तिवृत्तस्य, तदा तत् प्राच्यपरयास्फुटं लम्बनं कोटिरूपं भवति तच्च वित्रिभलग्न-शङ्क्वनुपातेन तथा स्फुटं कोटिरूपं कृतम् तत्कथमिति चेत् तदर्थमुच्यते मध्यलम्बनानयने त्रिज्यैववित्रिभलग्नशङ्कुः ततः स्फुटत्वार्थं यः साधितो वि-त्रिभलग्नशङ्कुः दृक्क्षेपमण्डले कोटिस्तद्दृग्ज्या भु-जस्त्रिज्या कर्णः वित्रिभलग्नस्य यद्दृङ्मण्डलं तद्-दृक्क्षेपमण्डलमिति गोले कथ्वितम् अतस्त्रिज्यापरि-णतया नतज्यया यदानीतं तज्जातं कर्णरूपं तत्कोटिरूपस्य वित्रिभलग्नर्शङ्कोरनुपातेन कोटित्वं नीत-मित्युपपन्नम् यदेव स्फुटलम्बनस्य कोटिरूपत्वमुप-पन्नं तदेव प्रकारान्तरेणोपर्पादितम् रवेर्दृङ्मण्डलेया दृग्ज्या सा कर्णरूपिणी वित्रिभलग्नस्य यादृग्ज्या एव दृक्क्षेपः भुजरूपः यतः क्रान्ति-मण्डलप्राच्याः सम्यग्दक्षिणोत्तरं खार्धाद्वित्रिभलग्नोप-रिगतं दृक्क्षेपमण्डलम् तत्र वित्रिभलग्नस्य यादृग्ज्या दृक्क्षेपः तज्जनिता नतिकलाश्चन्द्रार्ककक्ष-योर्याम्योत्तरमन्तरं यत्सर्वत्र तुल्यमेव द्रष्टा पश्यति य-थाक्तं गोले “कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत्”ततः “नतिलिप्ता भुजः कर्णो दृग्लम्बनकलास्तयोः कृत्यन्तरपदं कोटिः स्फुटलुम्बनलिप्तिकाः” “यत इदलम्बनक्षेत्रमतो दृक्क्षेपार्कदृग्ज्ययोर्वर्गान्तरपदतुल्यार्दृङ्नतिर्भवितुमर्हति परं यथा स्थिते गोले क्षेत्रोप-रीयं दृश्यते यतो वित्रिभलग्नार्कयोरन्तरज्यावित्रिभलग्नशङ्कुव्यासार्द्धपरिणता सती दृङ्नतिर्भवति ।अत एवानेनापि प्रकारेण क्षितिजस्थेऽर्के परमा दृङ्-नतिर्वित्रिभलग्नशङ्कुतुल्या भवति अतोऽयमपि प्रकारःपूर्वतुल्य एव किन्तु दृक्क्षेपार्कदृग्ज्ययोस्तुल्ये श-लाके भुजकर्णरूपे समायां भूमौ विन्यस्य तदन्तरे को-टिरूपां दृङ्नतिं दर्शयेत् एवमनेकविधान्युपपत्त्यनु-सारेण क्षेत्राणि परिकल्प्य धूलीकर्मोपसंहारमार्य्याःकुर्वते अथ प्रस्तुतमुच्यते अत्र किल वित्रिभलग्नस्यरवेश्च दृग्ज्ययोर्यद्वर्गान्तरपदं तावदेव तच्छङ्क्वोरपिभवति तत् कथमिति चेत् तदुच्यर्त अत्र स्वस्वश-ङ्कुवर्गेणोनौ त्रिज्यावर्गौ दृग्ज्यावर्गौ भवतः तयो-रन्तरे कृते त्रिज्यावर्गयोस्तुल्यत्वाद्गतयोः शङ्कुवर्गान्तर-मेवावशिष्यते एवं यत्र कुत्रचिद्व्यासार्द्धेऽपि भुजज्य-योर्वर्गान्तरतुल्यं तत्कोटिज्ययोर्वर्गान्तरं भवतीति ।अत उक्तम् “त्रिभोनलग्नस्य रवेश्च शङ्क्वोर्वा दृग्ज्य-योरिति” दृङ्नतितस्त्रिज्यानुपातेन लम्बनस्य घटीक-रणम्” प्रमिता० अत्रोपपत्तिरपि तत्रोक्ता यथा“अथ याम्योत्तरायां तु भित्तौ पूर्वोक्तमालिखेत् येकक्षामण्डले तत्र ज्ञेये दृक्क्षेपमण्डले त्रिभोनलग्न-दृग्ज्या या दृक्क्षेपो द्वयोरपि तच्चापांशैर्नतौ विन्दूकृत्वा वित्रिभसंज्ञकौ तल्लम्बनकलाः प्राग्वज्ज्ञेयास्तानतिलिप्तिकाः कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपितत् याम्योत्तरं नतिः सा दृक्क्षेपात् साध्यतेततः” “इदमेव छेद्यकं याम्योत्तरायां भित्तौ पूर्वपार्श्वेलिखित्वा नत्युपपत्तिर्दर्शनीया ये तत्र कक्षाक्षमण्डलेते दृक्क्षेपमण्डले दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्यास दृक्क्षेपः द्वयोरपि तावान् ब्रह्मगुप्तमते तु तच्चा-पांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षेपचापांशाः स्युः ।तयोर्वृत्तयोः खार्द्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ विन्दूकार्यौ तौ वित्रिभसंज्ञौ ततः प्राग्वद्भूमध्याद्भूपृष्ठाच्च सूत्रे प्रसार्य लम्बनलिप्तिका ज्ञेयास्ता नतिलि-प्तिकाः नतिर्नाम चन्द्रार्ककक्षयोर्याम्योत्तरमन्तरम् तद्-वित्रिभलग्नस्थाने यावत् सर्वतीऽपि तावदेव भवति ।अतो दृक्क्षेपात् साधिता नतिः”