दृग्ज्या (dRgjyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiदृग्ज्या
दृश्-ज्या -
पराकोटि की दूरी की लम्बरेखा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritदृग्ज्या स्त्री सू० सि० उक्तायां दिनमानादिज्ञानार्थं शङ्कुच्छायो-पयोगिन्या दृष्टियोग्यायां दृग्वृत्तक्षेत्रस्थजावायाम् यथोक्तंतत्र “त्रिज्योदक्चरजार्युक्ता याम्यायां तद्विवर्जिता । अन्त्यानतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा । त्रिज्याभक्ताभवेच्छेदो लम्बज्याघ्नोऽथ भाजितः । त्रिभज्यया भवे-च्छङ्कुस्तद्वर्गं परिशोधयेत् । त्रिंज्यावर्गात् पदं दृग्ज्याछायाकर्णौ तु पूर्ववत्” सू० सि० “उत्तरगोले चरोत्पन्नयाज्यया चरज्ययेत्यर्थः पूर्वचरानयने चरज्यायाश्चरजेतिसङ्ज्ञोक्तेः । युक्ता त्रिज्यान्त्या स्यात् । याम्यगोलेतया चरज्ययोना त्रिज्यान्त्या स्यात् । नतोत्क्रम-ज्योना सूर्योदयाद्दिनगतघट्यो दिनशेषघट्यो वा दिना-र्धान्तर्गता उन्नतसंज्ञास्ताभिरूनं दिनार्धं न तकालोघट्यात्मकस्तस्यासुभ्यो लिप्तास्तत्त्वयमैरित्यादिविधिनामुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्ज्योत्क्रमज्या । पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्यक्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्रमज्याभवति । तया हीनेत्यर्थः । स्वाहोरात्रार्द्धसङ्गुणा ।गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासार्धं द्युज्या तयागुणिता त्रिज्यया भक्ता फलं छेदसंज्ञः स्यात् । अथान-न्तरं छेदो लम्बज्यया गुणितस्त्रिज्यया भाज्यः फलमि-ष्टकाले शङ्कुः स्यात् । तस्य शङ्कोर्वर्गं त्रिज्यावर्गाच्छो-घयेत् । शेषस्य मूलं दृग्ज्या । आभ्यां छायाकर्णौ तुपूर्ववत् पूर्वोक्तरीत्या भवतः । अत्र छायाकर्णौत्विति कोणच्छायाकर्णसाधनश्लोकान्तभागस्य ग्रहणात्तच्श्लोकोक्तरीत्याभीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ सा-ध्यावित्युक्तम् । अत्रोपपत्तिः । याम्योत्तरवृत्तोर्द्ध्वभाग-ग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजद्युरात्रवृत्तस-म्पातद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्रसूत्र-सम्पातपर्य्यन्तमहोरात्रवृत्ते सूत्रं त्रिज्यानुरुद्धमन्त्या ।सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले चर-ज्ययोना त्रिज्या उन्मण्डलयाम्योत्तरसूत्रावध्यहो-रात्रवृत्तव्यासार्धे त्रिज्यात्वात् उन्मण्डलस्योत्तर-दक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्यास्योत्तरसूत्र-योर्मध्ये चरज्यात्वाच्च । ग्रहाहोरात्रवृत्ते याम्यो-त्तराहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरेण स्थानेतत्सूत्रं नतकालस्य सम्पूर्णज्या । तन्मध्यादूर्द्धसूत्रंशररूपं नतोत्क्रमज्या । तया हीनान्त्या ग्रहस्थाना-दहोरात्रवृत्ते उदयास्तसूत्रपर्यन्तमृजुसूत्रं त्रिज्यानु-रुद्धमिष्टान्त्या । तत्तुल्या याम्योत्तरोर्ध्वव्यांससूत्रन्तर्गतासा द्युज्यापमाणसाधितेष्टहृतिः । द्युज्यागुणा त्रि-ज्याभक्ता फलं छेदः । अस्मात् त्रिज्याकर्णे लम्बज्याकोटिस्तदेष्टहृतिकर्णे काकोटिरित्यनुपातेनेष्टशङ्कुः ।अस्माद्दृग्ज्याच्छायातत्कर्णा उक्तरीत्या सिद्ध्यन्तीत्युक्तमु-पपन्नम्” रङ्गंनाथः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
