| YouTube Channel

दृग्गोलः (dRggolaH)

 
शब्दकल्पद्रुमः
Sanskrit
दृग्गोलः,
पुं,
खगोलान्तर्गतगोलविशेषः यथा, “खस्वस्तिके चाधः स्वस्तिके चान्तःकीलकौ कृत्वातयोः प्रोतं श्लथं दृङ्मण्डलं कार्य्यं तत् पूर्व्व-वृत्तभ्यः किञ्चिन्न्यूनं कार्य्यं यथा खगोलान्तर्भ्रमतियद्येक एव ग्रहगोलस्तदैकमेव दृङ्मण्डलम् योयो ग्रहो यत्र यत्र वर्त्तते तस्य तस्योपरि परि-भ्राम्येदमेव विन्यस्य दृग्ज्याशङ्कादिकं दर्श-नीयम् अथवा पृथक् पृथगष्टौ दृङ्मण्डलानिरचयेत् तत्राष्टमं वित्रिभलग्नस्य तच्च दृक्क्षेप-मण्डलं तस्मिन् खगोले ध्रुवचिह्नयोर्नलिकाद्बयंबद्ध्वा तन्नलिकाधारमेव खगोलाद्बहिरङ्गुलत्रया-न्तरे दृग्गोलं रचयेत् कथितैः खगोलवृत्तै-र्व्वक्ष्यमाणैर्भगोलवृत्तैः क्रान्तिमण्डलाद्यैर्यो निब-ध्यते दृग्गोलः यतोऽग्रा कुज्यासमशङ्क्वा-द्यक्षक्षेत्राणि द्विगोलजातानि भगोलवृत्तानिखगोलवृत्तमिलितानि उत्पद्यन्ते गोलबन्धेसम्यङ्नोपलक्ष्यत इति दृग्गोलः कृतः ।” इतिसिद्धान्तशिरोमणिः