दृक्कर्म्मन् (dRkkarmman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritदृक्कर्म्मन् दृगर्थं दृष्ट्यर्थं कर्म । ग्रहाणां दर्शनयोग्यता-ज्ञानार्थे सू० सि० उक्तेः कर्मभेदे तच्च ग्रहनक्षत्रयोगा-द्युपयोगि संस्कारभेदरूपं यथाह तत्र“नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने । शृङ्गोन्नतौ तुचन्द्रस्य दृक्कर्मादाविदं स्मृतम्” सू० सि० “अत्र निमित्तस-प्तनी ग्रहनक्षत्राणां बहुत्वाद्वहुवचनम् । नक्षत्रग्रह-योर्युत्थर्थं नक्षत्रग्रहयोरिदं द्वयं दृक्कर्म स्मृतं प्रागुक्तम्आदौ प्रथमं कार्यम् । ताभ्यामनन्तरं क्रिया कार्ये-त्यर्थः । अत्र नक्षत्रध्रुवकाणामायनदृक्कर्मसंस्कृतानामे-वोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम् । ग्रहा-णामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यजनितास्तोदयौच ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि । तयोः साधन-निमित्तं ग्रहस्य नक्षत्रस्य वा देयम् । अत्राक्षदृक्कर्मार्थंकेवलः शरः साध्यः । न तु दिनमानरात्रिमाननतोन्नतेसाध्ये । क्षितिजसम्बन्धेन दृग्ग्रहरूपोदयास्तलग्नस्या-वश्यकत्वेन क्षितिजातिरिक्तायनपरिणामस्य व्यर्थत्वात्युतौ तु समप्रोतचलवृत्ते युगपद्दर्शनार्थं तत्परिणामस्या-वश्यकत्वात् । शृङ्गोन्नतिनिमित्तं चन्द्रस्य । तुकारःसमुच्चयार्थकश्चकारपरः । अत्रापि श्लोके पूर्वार्द्धोक्तमाक्ष-दृक्कर्म संस्कार्यमिति ध्येयम्” । रङ्गना०दृक्कर्म द्विविधम् आयनमक्षजञ्च तत्रायनदृक्कर्मायनशब्दे७७१ पृ० सि० शि० उक्तं दर्शितम् अक्षजं दृक्कर्मोच्यते“इदानीमक्षजं दृक्कर्माह प्रसि० “स्फुटास्फुटक्रान्ति-जयोश्चरार्धयोः समान्यदिक्त्वेऽन्तरयोगजासवः । पलोद्भ-वाख्या भनभःसदां शरे महत्यथाल्पे यदि वा स्युरन्यथा ।स्पष्टेषुरक्षवलनेन हती विभक्तो लम्बज्यया रविहृतोऽ-क्षभया हतो वा । लब्धं हतं त्रिभगुणेन हृतं द्युमौर्व्यास्युर्वाऽसवः पलभवा अथ तैः शरे तु । याम्योत्तरे क्रम-विलोमविधानलग्नं खेटात् कृतायनफलादुदयाख्यलग्नम् ।सौम्ये क्रमेण विपरीतमिषौ तु याम्ये भार्धाधिकात्खचरतोऽस्तविलग्नमेवम्” मू० । “ग्रहस्य स्फुटक्रान्तेर-स्फुटक्रान्तेश्चरार्धे साध्ये । यदि स्फुटास्फुटक्रान्तीतुल्यदिक्के तदा चरार्धयोरन्तरं कार्यम् । यदि भिन्न-दिक्के तदा योगः । एवं येऽसवो भवेयुस्ते पलोद्भवाज्ञेयाः । ग्रहस्य भस्य वा यदा महांश्छरस्तदैवम् ।यदाल्पस्तदान्यथा वा पलोद्भवासुवः साध्याः । ग्रहस्यस्पष्टः शरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्यः ।अथ वा अक्षभया गुणितो द्वादशभिर्भाज्यः । यल्लब्धंतत् त्रिज्यया गुण्यं द्युज्यया भाज्यं फलं पलीद्भवाअसवो भवन्तीत्यनुकल्पः । अथ कृतायनदृक्कर्मकं ग्रहंरविं प्रकल्प्य तैः पलोद्भवासुभिर्लग्नं साध्यम् । यदिग्रहस्य याम्यः शरस्तदा क्रमविलग्नम् । यदि सौम्य-स्तदा विलीमलग्नम् । एवं कृते सति ग्रहस्योदयलग्नंभवति । अथ तमेव ग्रहं सभार्धं रविं प्रकल्प तैरेवा-सुभिरुत्तरे शरे यत् क्रमलग्नं याम्ये विलोमं क्रियतेतद्ग्रहस्यास्तलग्नम्” । “अत्रोपपत्तिः । अत्र गोले विषु-वन्मण्डलं स्वाक्षांशैर्यावन्नामितं तावदुन्मण्डलमुत्तरगोलेक्षितिजादुपरि लगति याम्येऽधः । यतस्तत्रस्थो ग्रहःस्वचरार्धासुभिरुन्नतिं नतिं च गतः । अतश्चरार्द्धस्य यावासना सैव पलोद्भवासूनाम् । स्फुटास्फुटक्रान्तिजयो-श्चरार्धयोरन्तरे यावन्तीऽसवस्तावन्तः शरभवा इत्यर्था-ज्जातम् । यतस्तयोरन्तरं शर एवं तुल्यदिक्त्वे । यदामहता शरेणान्यदिक्त्वं नीता क्रान्तिस्तदा शरस्यैकंखण्डमुत्तरतोऽन्यद्दक्षिणतः । तयोर्योगे यतः शरीभवति । अतस्तज्जनितयोश्चरार्धयोर्योगे शरजनिताः प-लोद्भवासवः स्युः । एवं हि सहति शरे । अथाल्पे ।ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छ-रेण ग्रहस्य तदुन्नमनं तत् त्रैराशिकेन साध्यते । यदिलम्बज्यया कोट्याऽक्षवलनतुल्यो भुजस्तदा स्फुटशरतु-ल्यया किमिति । अत्र यत् फलं तद्ग्रहद्युज्यावृत्तेज्यारूपं भवति । अथ वा लघुना क्षेत्रेणानुपातः ।यदि द्वादशाङ्गुलकोट्या पलभा भुजस्तदा स्फुटशरकोट्याकिमिति । फलं तुल्यमेव । अथ त्रिज्यावृत्त परि-णामायानुपातः । यदि द्युज्यावृत्त एतावती ज्या तदात्रिज्यावृत्ते कियतीति । फलस्य धनुः कर्तुं युज्यते ।तच्छरस्याल्पत्वान्नोपपद्यत इति न कृतम् । आयनदृक्क-र्मण्यस्फुटविक्षेपादसवः साधिताः इह तु स्फुटात् ।तत्र कारणमुच्यते । तेन दृक्कर्भणा निरक्षदेशक्षिति-जस्थो ग्रहः कृतः । तत् क्षितिजमन्यदेश उन्मण्डलम् ।शरमूले यद्द्युज्यावृत्तं शराग्रे च यत् तयोर्वृत्तयोरुन्म-ण्डले यावदन्तरं तावान् स्फुटः शरः । स तु कोटि-रूपः । अतोऽत्र कोटिरूपेण पलोद्भवा असवः साधिताःकृतायनदृक्कर्मको ग्रहोऽक्षवशात् प्रागुदित उदेष्यति वायैरसुभिस्तेऽत्र पलोद्भवाख्याः । अथ याम्ये शरे तैर-सुभिः क्षितिजादधःस्थो ग्रहो यावदुपरि क्षितिजं नीयतेतावत् कृतायनदृक्कर्मग्रहादग्रतः क्रान्तिवृत्तं क्षितिजेलगति । यदि सौम्यः शरस्तदा तैरसुभिः क्षितिजादु-परिस्थो ग्रहः क्षितिजं यावदधो नीयते तावत् कृता-यनदृक्कर्मकाद्ग्रहात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति ।अत उक्तं शरे याम्योत्तरे क्रमविलोमविधानलग्नमि-त्यादि । एवं कृते उदयलग्नं जातम् । अस्मादुदय-लग्नसाधनाद्व्यस्तमस्तलग्नसाधनम् । यतो यैरसुभिर्वि-क्षेपेण प्राच्यां ग्रहः क्षितिजादुन्नाम्यते तैरेव प्रतीच्यांनाम्यते । यैर्नाम्यते तैरेवोन्नाम्यते । अथ प्रतीच्यांग्रहेऽस्तं गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम् ।अतो भार्धाधिकात् खचरत इत्युक्तम् । इदं सर्वंगोलोपरि सम्यग्दृश्यते” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
