| YouTube Channel

दृंहकः-हिका-दिदृंहिषकः-षिका (dRMhakaH-hikA-didRMhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दृहि वृद्धौ”@} 2 दृंहकः-हिका, दृंहकः-हिका-दिदृंहिषकः-षिका, दरीदृंहकः-हिका
इत्या- नीतराणि सर्वाण्यपि रूपाणि दृहधातुवत् 3 ज्ञेयानि।
4 दृढः, 5 दृंहा इति निष्ठायां, स्त्रियां रूपे अस्य धातोः भवतः।
नुम् सर्वत्र भवतीति विशेषः।
6 दृंहितः।
प्रासङ्गिक्यः
01
=>
(८६७)
02
=>
(१-भ्वादिः-७३४। अक। सेट्। पर।)
03
=>
(८६६)
04
=>
[[२। ‘दृढः स्थूलबलयोः’ (७-२-२०) इत्यनेन स्थूले बले वाच्ये, धातोरस्य क्तप्रत्ययस्येडभावः नकारहकारलोपः, निष्ठातकारस्य ढत्वं निपात्यते। अन्यत्र दृंहितम्-दृंहितवान् इत्येव रूपे।]]
05
=>
[[३। स्त्रियाम्, ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः।]]
06
=>
[[आ। ‘तच्छ्रुत्वा परिद्वंहितादरमसौ नन्दो बृहद्भोजनैः--।’ धा। का। १। ९२।]]