| YouTube Channel

दूष्यः (dUSyaH)

 
शब्दकल्पद्रुमः
Sanskrit
दूष्यः, त्रि, (दुष + णिच् + यत् ।) दूषणीयः इतिमेदिनी ये, ३१
(यथा, महाभारते १२ ।१६५ ३२ ।“स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्म्मतः
”निन्द्यः इति त्रिकाण्डशेषः ३१३
यथा, कामन्दकीयनीतिसारे ।“राज्योपघातं कुर्व्वाणा ये पापा राजवल्लभाः ।एकैकशः संहता वा दूष्यांस्तान् परिचक्षते
”)