| YouTube Channel

दूर्व्वाष्टमी (dUrvvASTamI)

 
शब्दकल्पद्रुमः
Sanskrit
दूर्व्वाष्टमी,
स्त्री,
(दूर्व्वा तद्रूपा गौरी तत्प्रियाअष्टमी ।) भाद्रशुक्लाष्टमी तत्र कर्त्तव्यव्रतविधि-र्यथा, --“ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।दूर्व्वां गौरीं गणेशञ्च फलाकारं शिवं यजेत्
फलव्रीह्यादिभिः सर्व्वैः शम्भुं नमः शिवाय ।अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया
”इति संवत्सरकौमुदीधृतगरुडपुराणवचनम्
*तद्व्रतप्रयोगविधिर्यथा, --पूर्व्वदिने संयमं विधाय तद्दिने प्रातः कृत-स्नानादिः आसने चोपविश्याचम्य ब्राह्मणान्स्वस्तिवाच्य सूर्य्यार्ध्यं दत्त्वा सङ्कल्पं कुर्य्यात् ।विष्णुर्नमोऽद्य भाद्रे मासि शुक्ले पक्षे अष्टम्यांतिथावारभ्यामुकगोत्रा श्रीअमुकी मर्त्यलोकाधि-करणकसुखसौभाग्याविच्छिन्नपुत्त्रपौत्त्रादिलाभ-पूर्व्वकब्रह्मलोकप्राप्तिकामा श्रीविष्णुप्रीतिकामावा भविष्यपुराणोक्ताष्टावर्षनिष्पादितदूर्व्वाष्टमी-व्रतमहं करिष्ये इति सङ्कल्प्य सूक्तं पठित्वा-सनशुद्ध्यादिकं विधाय गणेशादिदेवताः संपूज्यध्यानं कुर्य्यात् * यथा, --“नीलोत्पलदलश्यामं चतुर्ब्बाहुं किरीटिनम् ।शङ्खचक्रगदापद्मधारिणं वनमालिनम्
श्रीवत्सलक्षणोपेतं श्रिया वाण्या समन्वितम्
”इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसैरुप-चारैः संपूज्यार्घस्थापनं कृत्वा पुनर्ध्यात्वावाह्यपाद्यादिभिः पूजयेत् एतत् पाद्यं ओँकृष्णाय नमः एवं क्रमेण संपूज्य आवरण-देवताः पूजयेत् यथा ओँ शच्यै नमः ।एवं दुर्गायै गौर्य्यै श्रियै सरस्वत्यै गङ्गायै दित्यैअदित्यै सुषेणायै अरुन्धत्यै मन्दोदर्य्यै सुभ-द्रायै शाण्डिल्यै जयायै विजयायै रमायैदीक्षायै रेवत्यै दमयन्त्यै शीलायै सुकेशायैरम्भायै वासुदेवाय देवक्यै विष्णवे महादेवायसर्व्वेभ्यो देवेभ्यः सर्व्वाभ्यो देवीभ्यः ततो दूर्व्वांध्यायेत् * ।ओँ नीलोत्पलदलश्यामां सर्व्वदेवशिरोधृताम् ।विष्णुदेहोद्भवां पुण्याममृतैरभिषिञ्चिताम्
सर्व्वदैवाजरां दूर्व्वाममरां विष्णुरूपिणीम् ।दिव्यसन्तानसंदात्रीं धर्म्मार्थकाममोक्षदाम्
एवं ध्यात्वा षोडशोपचारैः पूजयेत् ।इदमासनं ओँ दूर्व्वायै नमः एवं क्रमेणसंपूज्य अष्टग्रन्थियुक्तडोरकं फलानि यज्ञोप-वीतादिकं दत्त्वा प्रणमेत् ।“त्वं दूर्व्वेऽमृतनामासि पूजितासि सुरासुरैः ।सौभाग्यसन्ततिं दत्त्वा सर्व्वकार्य्यकरी भव
यथा शाखाप्रशाखाभिर्व्विस्तृतासि महीतले ।तथा ममापि सन्तानं देहि त्वमजरामरम्
”ततो भोज्यमुत्सृजेत् डोरकं वामहस्ते बद्ध्वाकथां शृणुयात्
*
अथ कथा ।युधिष्ठिर उवाच ।“व्रतमेकं समाचक्ष्व विचार्य्य मधुसूदन ! ।येन सन्ततिविच्छेदो जायते कदाचन
श्रीकृष्ण उवाच ।मासि भाद्रपदेऽष्टम्यां शुक्लपक्षे युधिष्ठिर ! ।दूर्व्वाष्टमीव्रतं नाम या करोति पतिव्रता
तस्याः क्षयमाप्नोति सन्तानं साप्तपौरुषम् ।नन्दते वर्द्धते नित्यं यथा दूर्व्वा तथा कुलम्
युधिष्ठिर उवाच ।कथमेषा समुत्पन्ना कस्माद्दूर्व्वा चिरायुषी ।कस्माद्वन्द्या पवित्रा लोके धन्या महीतले
केन वा तद्व्रतं देव ! चरितं केन हेतुना
श्रीकृष्ण उवाच ।क्षीरोदसागरे पूर्व्वं मथ्यमानेऽमृतार्थिना ।विष्णुना बाहुजङ्घाभ्यां विधृतो मन्दरो गिरिः
भ्रमता तेन वेगेन लोमान्याघर्षितानि वै ।ऊर्म्मिभिस्तानि रोमाणि चोत्क्षिप्तानि तटा-न्तरे
अजायत शुभा दूर्व्वा रम्या हरितशाद्बला ।एवमेषा समुत्पन्ना दूर्व्वा विष्णुतनूद्भवा
तस्या उपरि विन्यस्तं मथितामृतमुत्तमम् ।देवदानवगन्धर्व्वयक्षविद्याधरोरगैः
तत्र येऽमृतकुम्भस्य निपेतुर्व्वारिबिन्दवः ।तैरियं स्पर्शमासाद्य दूर्व्वा चैवाजरामरा
वन्द्या पवित्रा देवैस्तु सर्व्वदाभ्यर्च्चिता तथा ।पूजयेत्तां प्रयत्नेन द्रव्यैर्नानाविधैरपि
अष्टम्यां फलपुष्पैस्तु गुवाकैर्नारिकेलकैः ।द्राक्षाहरीतकीभिश्च मोचकैर्जायकैस्तथा
नागरङ्गैश्च जम्बीरैर्बीजपूरैश्च शोभनैः ।दध्यक्षतैः पयोभिश्च धूपनैवेद्यदीपकैः
मन्त्रेणानेन राजेन्द्र ! शृणुष्व कथितं मया ।त्वं दूर्व्वेऽमृतनामासि वन्दितासि सुरासुरैः
सौभाग्यं सन्ततिं दत्त्वा सर्व्वकार्य्यकरी भव ।यथा शाखाप्रशाखाभिर्व्विस्तृतासि महीतले
तथा ममापि सन्तानं देहि त्वमजरामरम् ।एवमेव पुरा पार्थ ! पूजिता त्रिदशोत्तमैः
तेषां पत्नीभिरनिशं भगिनीभिस्तथैव ।पूजिता तथा गौर्य्या देव्या रत्या श्रिया तथा
सरस्वत्या गङ्गया दित्यादित्या सुशीलया ।बिन्दुमत्या वेशवत्या इन्दुमत्या सुशीलया
मन्दोदर्य्या चण्डिकया मायया दीक्षया तथा ।मर्त्यलोके रेवत्या दमयन्त्या सुशीलया
सुकेशया घृताच्या रम्भया मिश्रकेशया ।मज्जनन्या मेनकया तथैव मानिकादिभिः
स्त्रीभिरभ्यर्च्चिता दूर्व्वा सौभाग्यसुखदायिनी ।स्नाताभिः शुचिवस्त्राभिर्दूर्व्वा संपूजिता जनैः
दत्त्वा पिष्टानि विप्रेभ्यः फलानि विविधानि ।तिलपिष्टानि गोधूमधान्यपिष्टानि पायसम्
भोजयित्वा सहृन्मित्रं सम्बन्धिस्वजनं तथा ।ततो भुञ्जीत तच्छेषं स्वयं भक्त्या समाहिता
नारी चैव प्रकुर्व्वीत चाष्टमीव्रतमुत्तमम् ।सर्व्वतः सुखसौभाग्यपुत्त्रपौत्त्रादिभिर्युता
मर्त्यलोके चिरं स्थित्वा चतुर्व्वर्गं गता पुनः ।वसते रमया सार्द्धं यावच्चन्द्रदिवाकरौ
मेघावृतेऽम्बरतले विशदे पक्षेयाश्चाष्टमीव्रतमदो नभसीह कुर्य्युः ।दूर्व्वां तदक्षततिलैः प्रतिपूजयेयु-स्ताः प्राप्नुयुः सकलसिद्धिसमृद्धिमृद्धिम्
”इति भविष्योत्तरे दूर्व्वाष्टमीव्रतकथा समाप्ता