| YouTube Channel

दूर्वासोम (dUrvAsoma)

 
Monier Williams Cologne
English
दूर्वा—सोम
m.
a species of Soma plant.
वाचस्पत्यम्
Sanskrit
दूर्वासोम
पु०
सुश्रुतोक्ते रसायनाङ्गे सोमलताभेदे यथोक्तंतत्र उत्तरतन्त्रे“अंशुमान्मुञ्जवांश्चैव चन्द्रमा रजतप्रभः दूर्वा-सोमः कनीयांश्च श्वेताक्षः कनकप्रभः प्रतानवांस्ताल-वृन्तः करवीरोंऽशवानपि स्वयस्प्रभो महासोमो यश्चापिगरुडाहृतः गायत्रस्त्रैष्टुभः पाङ्क्तो जागतःशाङ्करस्तथा अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ।गायत्र्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते एते सोमाःसमाख्याता वेदोक्तैर्नामभिःपुनः सर्वेषामेव चैतेषामेकोविधिरुपासने सर्वे तुल्यगुणाश्चैव विधानं तेवक्ष्यते” “अतोऽन्यतमं सोममुपयुयुक्षः सर्वप्रकारपरि-चारकोपेतः प्रशस्तदेशे त्रिवृतमगारं कारयित्वा हृतदोषःप्रतिसंसृष्टः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु अशुं-मन्तमादायाध्वरकल्पेनाहृतमभिषुतमभिहुतं चान्तरान्तरा-कृतमङ्गलः सोमकन्दं सुवर्णसूच्या विदार्य्य पयोगृह्णीया-त्सौवर्णे पात्रेऽञ्जलिमात्रं, ततः सकृदेवोपयुञ्जीत नास्वा-दयंस्ततौपस्पृश्य शेषमप्स्ववसाद्य यमनियमाभ्यामात्मानंसंयोज्य वाग्यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत्”