| YouTube Channel

दूडभः (dUDabhaH)

 
शब्दकल्पद्रुमः
Sanskrit
दूडभः, त्रि, (दुर्दुःखेन दभ्यते इति दुर् + दभ +खल् “दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेःष्टुत्वञ्च ।” १०९ इत्यस्येति वार्त्ति-क्योक्त्या ऊत्वं भस्य डत्वञ्च ।) व्यसनप्राप्तः ।विपद्युक्तः इति संक्षिप्तसारः
(दुर्दहः ।यथा, ऋग्वेदे १५ ।“युवं दक्षं धृतव्रतमित्रावरुणदूळभम्
”“दूडभं दुर्दहं शत्रुभिर्दग्धुं विनाशयितुमशक्य-मित्यर्थः ।” “दूडभं दह भस्मीकरणे दुःखेनदह्यते इति दुर्दहं ईषद्दःसुष्वित्यादिनादुरित्युप-पदे दग्धेः खल् व्यत्ययो बहुलमित्युकारस्यऊकारो रेफस्य लोपः दकारस्य डकारो हका-रस्य भकारः
इति तद्भाष्ये सायनः
)