| YouTube Channel

दूङ् (dUG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दू
मूलधातुः:
दूङ्
धात्वर्थः:
परितापे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दूयते
अनुबन्धादिविशेषः:
ओदित्
धातुप्रदीपः
Sanskrit
दूङ् परितापे
- दूयते दुदुवे दूनः 27
क्षीरतरङ्गिणी
Sanskrit
दूङ् परितापे
- (अर्थविवरणम्) परितापः खेदः
दूयते द्रविता दूनः 25
धातुवृत्तिः
Sanskrit
दूङ् (अर्थः) परितापे
(अर्थविवरणम्) परितापः खेदः
( दूयते ) इत्यादि सूयतिवत् इट्त्वस्य नित्यः आत्मनेभाषावुदात्तौ 25
कृदन्तरूपमाला
Sanskrit
1 {@“दूङ् परितापे”@} 2 स्वादिः।
परितापः = खेदः।
‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
ण्यन्ते, सन्नन्ते, यङन्ते क्रमेण, दावकः-विका, दुदूषकः-षिका, दोदूयकः- यिका
इत्यादीनि रूपाणि तौदादिककूङ्धातुवत् 4 ज्ञेयानि।
शुद्धात् तु इमानि रूपाणि भवन्तीति विशेषः।
यथा-दावकः-विका, दविता-त्री, दूयमानः, दविष्यमाणः, प्रदूः-प्रदुवौ-प्रदुवः, 5 दूनम् 6 -दूनः-दूनवान्, दवः, दवितव्यम्, दवनीयम्, दव्यम्- 7 अवश्यदाव्यम्, ईषद्दवः-दुर्दवः-सुदवः, दूयमानः, दवः, दवितुम्, दूतिः, दवनम्, दूत्वा, प्रदूय, दावम् २-दूत्वा
--इति।
प्रासङ्गिक्यः
01
=>
(८५५)
02
=>
(४-दिवादिः-११३३। अक। सेट्। आत्म।)
03
=>
(श्लो। २२)
04
=>
(२३८)
05
=>
[[२। धातोरस्य सेट्त्वेऽपि, ‘श्रयुकः क्किति’ (७-२-११) इति क्ङिति प्रत्यये परतः गुणनिषेधः। तेन निष्ठा, क्तिन्, क्त्वा प्रत्ययेषु इण्णिषेधो ज्ञेयः। अत्र, ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इत्यनेन ओदित्त्वस्यातिदेशात्, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वम्।]]
06
=>
[[B। ‘किं सूयसे गिरमदून नितान्तदीनामुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
07
=>
[[३। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, गुणावादेशयो रूपमेवम्।]]