दुहिता (duhitA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindi(स्त्री) बेटी
Kridanta Forms
Sanskritदुह् (दु꣡हिँ꣡र् अर्दने - भ्वादिः - सेट्)
ल्युट् = दोहनम्
अनीयर् = दोहनीयः - दोहनीया
ण्वुल् = दोहकः - दोहिका
तुमुँन् = दोहितुम्
तव्य = दोहितव्यः - दोहितव्या
तृच् = दोहिता - दोहित्री
क्त्वा = दोहित्वा / दुहित्वा
ल्यप् = प्रदुह्य
क्तवतुँ = दुहितवान् / दोहितवान् - दुहितवती / दोहितवती
क्त = दुहितः / दोहितः - दुहिता / दोहिता
शतृँ = दोहन् - दोहन्ती
Wordnet
Sanskrit तनया, कन्या, सुता, आत्मजा, दुहिता, पुत्री, कन्यका, नन्दिनी, अकृता, अङ्गजा
स्त्री अपत्यम्।
"स उत्तरस्य तनयाम् उपयेमे इरावतीम्।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
अभिधानरत्नमाला
Sanskritदुहिता
दुहिता, तनया, पुत्री
दुहिता तनया पुत्री जामाता दुहितुः पतिः ।
verse 2.1.1.505
page 0058
शब्दकल्पद्रुमः
Sanskritदुहिता, [ऋ] (दोग्धि विवाहादिकालेधनादिकमाकृष्य गृह्णातीति । यद्बा, दोग्धि गाइति । आर्षकाले कन्यासु एव गोदोहनभार-स्थितेस्तथात्वम् । दुह + “नप्तृनेष्टृत्वष्टृहोतृ-पातृभ्रातृजामातृमातृपितृदुहितृ ।” उणां ।२ । ९६ । इति तृच् । निपातनात् गुणाभावः ।)कन्या । इत्यमरः । २ । ६ । २८ ॥
कन्यादान-पात्रापात्रं यथा, --“कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ।वराय गुणहीनाय वृद्धायाज्ञानिने तथा ॥
दरिद्राय च मूढाय योगिने कुत्सिताय च ।अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ॥
चापलायाङ्गहीनाय चान्धाय बधिराय च ।जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ॥
ब्रह्महत्यां लभेत् सोऽपि यः स्वकन्यां ददाति च ।शान्ताय गुणिने चैव यूने च विदुषेऽपि च ॥
वैष्णवाय सुतां दत्त्वा दशवापीफलं लभेत् ॥
” * ॥
कन्याविक्रये दोषो यथा, --“यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।विपदा धनलोभेन कुम्भीपाकं स गच्छति ॥
कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी ।कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश ॥
मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम् ।विक्रीणीते मांसभारं वहत्येवं दिवानिशम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
कन्यादानफलं यथा, --“दशवापीसमा कन्या दीयते ब्राह्मणाय तत् ।वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ॥
सन्ध्यायज्ञवेदपाठकारिणे सत्यवादिने ।अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥
त्रिसन्ध्याकारिणे सत्यवादिने गृहशालिने ।वेदज्ञाय च विप्राय दत्तार्द्धफलदायिनी ॥
प्रतिग्रहगृहीताय सन्ध्याहीनाय नित्यशः ।मूर्खाय दत्ता कन्या च सा चतुःफलदायिनी ॥
परदारगृहीताय याजकाय द्बिजाय च ।शठाय सन्ध्याहीनाय वाप्येकफलदा सुता ॥
सर्व्वसन्ध्यास्वगायत्त्रीविहीनाय शठाय च ।विप्रोद्भवाय दत्ता या वाप्यर्द्धफलदा सुता ॥
पापिने शूद्रजाताय विप्रक्षेत्रोद्भवाय च ।दत्ता चाण्डालतुल्याय कन्या सा नरकप्रदा ॥
विष्णुभक्ताय विदुषे विप्राय सत्यवादिने ।जितेन्द्रियाय दत्ता या विंशद्बापीफलप्रदा ॥
षष्टिवर्षसहस्राणि दिव्यरूपं विधाय च ।एवम्भूताय दत्ता च मोदते विष्णुमन्दिरे ॥
दत्त्वा कन्यां सुशीलाञ्च हराय हरयेऽथवा ।नारायणस्वरूपञ्च भवेदेव श्रुतौ श्रुतम् ॥
विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये ।स लभेद्धरिदास्यञ्च ध्रुवं विप्रोद्भवाय च ॥
” * ॥
विवाहानन्तरं कन्याया भर्त्तृगृहगभनसमयेपित्रादीनां रोदनं शास्त्रसिद्धम् । यथा दुर्व्वा-ससा सह और्व्वकन्यायाः कन्दल्या विवाहे ।“कन्यासमर्पणं कृत्वा मोहादुच्चै रुरोद च ।मूर्च्छामवाप स मुनिः स्वकन्याविरहातुरः ॥
अपत्यभेदशोकौघः स्वात्मारामं न मुञ्चति ।क्षणेन चेतनां प्राप्य बोधयामास कन्यकाम् ॥
मूर्च्छितां तातविच्छेदाद्रुदन्तीं शोकसंयुताम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डश्रीकृष्णजन्मखण्डे ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
