| YouTube Channel

दुह (duha)

 
शब्दसागरः
English
दुह (औ) दुहौ r. 2nd cl. (दोग्धि, दुग्धे) 3rd pers. plu. (दुहन्ति) To milk, (इर)
दुहिर r. 1st cl. (दोहति)
1. To hurt, to afflict, to give pain.
2. To
kill. अदा० उभ० द्विक० अनिट् भ्वा० पर० सक० सेट्
दुह
m.
(धुक्) A milker.
E.
दुह्, and क्विप्
aff.
Capeller Eng
English
2 दुह् & दुह
a.
(—°) milking
milching or yielding.
Wilson
English
दुह (औ) दुहौ r. 2nd cl. (दोग्धि) 3rd pers. plu.
(दुहन्ति) To milk. (इर) दुहिर r. 1st cl. (दोहति)
1 To hurt, to afflict, to give pain.
2 To kill.
Monier Williams Cologne
English
दुह
mfn.
id. ifc.
Monier Williams 1872
English
दुह, अस्, आ, अम्, (at the end of a comp.) milking
yielding, granting (e. g. काम-द्°, गो-द्°
cf. दुर्-
दुहा).
Benfey
English
ऽदुह -दुह् + अ,
adj.
Yielding (cf.
कामदुह).
--
Comp.
दुस्-,
adj.
,
f.
हा,
difficult to be milked, MBh. 5, 1128.
Shabdartha Kaustubha
Kannada
दुह - प्रपूरणे (अदा० उभ० द्विकर्म० अनि०) दोग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಹಾಲುಕರೆ
प्रयोगाः - > "पयो घटोघ्नीरपि गा दुहन्ति मन्दं विवर्णं विरसं गोपाः"
उल्लेखाः - > भट्टि० १२-७३
दुह - प्रपूरणे (अदा० उभ० द्विकर्म० अनि०) दोग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಹಿಂಡು /ಹಿಸುಕು /ಹಿಂಡಿ ಸಾರವನ್ನು ತೆಗೆ
प्रयोगाः - > "यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥"
उल्लेखाः - > कुमा० १-२०
दुह - प्रपूरणे (अदा० उभ० द्विकर्म० अनि०) दोग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಎಳೆದುಕೊ /ಪೂರ್ತಿಮಾಡು
प्रयोगाः - > "दुदोह गां यज्ञाय सस्याय मघवा दिवम् सपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥"
उल्लेखाः - > रघु० १-२६
दुह - प्रपूरणे (अदा० उभ० द्विकर्म० अनि०) दोग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಇಷ್ಟಾರ್ಥವನ್ನು ಪೂರ್ತಿಮಾಡು /ಬೇಡಿದುದನ್ನು ಕೊಡು
प्रयोगाः - > "कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुर्हृदो निष्प्रलान्ति"
उल्लेखाः - > उ० रा० ५-३०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दुह्
मूलधातुः:
दुह
धात्वर्थः:
प्रपूरणे
गणः:
अदादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
दोग्धि-दुग्धे
धातुप्रदीपः
Sanskrit
दुहँ दुह प्रपूरणे
- दोग्धि पयो गामस्मै गोपः दुग्धे दुह्यते गौः क्षीरम् प्रधाने कर्मणि लकारः ''स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता '' दुदोह दुदुहे दोग्धा अधुक्षत् अधुक्षत अदुग्ध अदुक्षः अदुग्धाः अधुक्षथाः अधुग्ध्वम् अधुक्षध्वम् अधुक्षथ अदुह्वहि अधुक्षावहि अधुक्षाव स्वयमदुग्ध स्वयमदोहि स्वयमधुक्षत (3) गोधुक् कामदुघा गौः ।। 4 ।।
शब्दकल्पद्रुमः
Sanskrit
दुह, इर् अर्द्दने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) इर्, अदुहत् अदोहीत अर्द्दन-मिह वधः इति दुर्गादासः
दुह, दुहि इति कविकल्पद्रुमः
(अदां-उभं-सकं-अनिट् ।) धुक् दोहनम् तच्चव्यक्तीकरणमिति धातुपारायणिकाः ल, दोग्धि दुग्धे गां दुग्धं गोपः स्वयं प्रदुग्धास्यगुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीतिकिराते वसूनीति कर्म्मणो विद्यमानतया कर्म्म-कर्त्तृत्वाभावात् स्खलितमित्येके दुहादेरप्रधान-कर्म्मविषये कर्म्मकर्त्तृत्वे प्रधानकर्म्मप्रयोगो दुर्निवारः इति कुलचन्द्रः
स्वमते तु अतएवा-नयोर्ढेऽपि ढवत्त्वमिति वचनात् पचदुहोः कर्म्मणिविद्यमानेऽपि कर्म्मकर्त्तृत्वम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दुह बधे
भ्वा०
पर०
सक०
सेट् दोहति इरित् अदोहीत् अदुहत् दुद्रोह दुहितः
दुह दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्सारणेउभ० अदा० द्विक० अनिट् दोग्धि दुग्धे दुह्यात् अधोक्अदुग्ध अधुक्षत् अदुग्ध अधुक्षन्त अधुक्ष्मह्नि अदुह्महिदुदोह दुदोहिथ दुदुहिव दुदुहे दुह्यात् धोक्ष्यति ते ।दोग्धव्यं दुह्यं दोह्यम् दोग्धा द्रोहनं दुग्धम् दोग्धुम्दुग्ध्वा संदुह्य “यं सर्वशैलाः परिकल्प्य वत्सं मेरोस्थिते दोग्धरिंदोहदक्षे भास्वन्ति रत्नानि महौषधीश्चपृथूपदिष्टां दुदुहुर्धरित्रीम्” कुमा० “यः पयो दोग्धि पा-षाणम्” “पयोवटीध्रीरपि गा दुहन्ति” भट्टिः एक-कर्माविवक्षायाम् अस्यैककर्मकत्वमपि “दुदोह यज्ञसिद्ध्यर्थमृग्मसुःसामलक्षणम्” मनुः “दुग्ध्वा पयः पत्रपुटे मदीयम्”रघुः निःसारणमात्रे “दुग्धेऽस्मै सर्वं कामं योवाचो दोहः” छा० उ० “न कर्मफलमाप्नोति योऽधर्मंदोग्धुमिच्छति” भा० व० ११६५ श्लो० “यत्र धर्मदुघाभूमिः सर्बकासदुघा सती दोग्धि स्माभीप्सितानर्थान्यजमानस्य सर्वदा” माग० १९ दुधुक्षति अस्यगौणकर्मणि ककारादि “प्रधानकर्मण्याख्येवे त्वादी-नाहुर्द्विकर्मणाम् अपधाने दुहादीनां ण्यन्ते कर्तुश्चकर्मणः” इत्युक्तेः “तेषु तेषु तु पात्रेषु दुह्यमानावसुन्धरा” हरिवं० ८१ श्लो० अस्य कर्मकर्त्तरि गौणक-र्मणः कर्तृत्वविवक्षायाम् केवलं तङ् यक् गौःपयोदुग्धे वा चिण् अदोहि अधुक्षत अदुग्ध सि० कौ०
क्षीरतरङ्गिणी
Sanskrit
दुहँ दुह प्रपूरणे
- प्रपूरणं दुहस्नुनमां यक्चिणौ (3189) दुग्धे गौः स्वयमेव, अदुग्ध शल इगुपधादनिटः पूरणाभावः, उपसर्गोऽत्र धात्वर्थे बाधते प्रस्थानवत् गां दुग्धे, दोग्धि दोग्धा क्सः (3145) अधुक्षत्, अधुक्षत, अदुग्ध गौः स्वयमेव दुहश्च (3163) इत्यदोहि गौः स्वयमेव बहुवचने क्सस्याचि (7372) लुक् लुग् वा दुहदिह (7373) इति क्सस्य वा लुक्-अदुग्ध अदुग्धः, अधुक्षत अधुक्षथाः शंसिदुहि (31109 काशिका ) इति क्यप्-दुह्यम् ण्यद् (द्र0 31124) अपि दृश्यते दोह्यम् सत्सूद्विष (3261) इति क्विप्-गोधुक् दुहः कब्घश्च (3270) कामदुघा नप्तृनेष्टृ (उ0 295) इति दुहिता अन्येभ्योऽपि दृश्यते (13130) इति युच्-सुदोहनः, गोदोहनो घटः, गौरादौ (द्र0गण0 4141) गोदोहनी उणादौ दोहदो ऽभिलाषविशेषः 4
धातुवृत्तिः
Sanskrit
दुहँ दुह (अर्थः) प्रपूरणे
( दोग्धि दुग्धः दुहन्ति धोक्षि दुग्धः दुग्ध दोह्मि दुह्वः दुह्मः ( 1 ) ( 1 )इति कुत्रचित्रास्ति दुग्धे दुहाते दुहते धुक्षे धुग्ध्वे दुहे दुह्वहे) झलि पदान्ते "दादेः" इति हकारस्य घकारः, "झषस्तथोः'' इति तकारथकारयोर्धकारः "झलां जश् झषि''इति घकारस्य गकारः सकारादौ ध्वे पदान्ते "एकाचो बशो भष्'' इति भष्भावेन दकारस्य धकारः, तत्र सकारादौ "इण्कोः'' इति षत्वे "खरि च'' इति चर्त्वम्, दुहन्तिदुहते इत्यत्र पूर्व्वत्रासिद्धत्वादन्तरङ्गत्वाद्वा प्रागेवान्त्यादादेशयोर्झल्परत्वाभावान्न घत्वप्रसङ्गः ( दुदोहदुदुहतुः दुदोहिथ दुदुहथुःदुदुह दुदोह ( दुदुहिव दुदुहे दुदुहिषे, दुदुहिढ्वे दुदुहिध्वे दुदुहिवहे, ) क्रादिनियमादिट् ध्वमि "विभाषेट'' इति मूर्द्धन्यविकल्पः (दोग्धा दोग्धासे, धोक्ष्यति, धोक्ष्यते दोग्धु, दुग्धात्, दुग्धाम् दुग्धि दोहानि, दोहाव, दुग्धां, दुहातां, धुक्ष्व धुग्ध्वं, दोहै ) हेरपित्त्वान्न गुणः आटि तु पित्त्वाद्गुणः ( अघोक् अदुग्धाम् अदुहन् अधोक् अदुग्धम् अदुग्ध अदोहम्, अदुह्व, अदुग्ध अदुहाताम् अदुग्धाः, अदुग्ध्वम् अदुहि अदुह्वहि, ) तिप्सिपोर्हल्ड्यादिलोपः( 2 ) ( 2 ) लोपे इति क्कचित् पाठः पदान्तत्वात् "दादेः'' इति हकारस्य घकारः, "एकाचो बशः'' इति दकारस्य धकारः, जश्त्वचर्त्वे, प्रत्ययलक्षणेन लघूपधगुणः ( दुह्यात् दुह्याताम् दुह्याम् दुहीत दुहीथाः दुहीय ) अपित्सार्वधातुकत्वान्न गुणः आशिषि सलोपाभावो विशेषः, ( दुह्यात्, दुह्यास्ताम्, धुक्षीष्ट ) इत्यादि तङि "लिङ्सिचौ'' इति कित्त्वान्न गुणः घत्वभष्भावौ धुक्षीध्वमित्यत्र ( सूत्रम्) इणः षीध्वम् (इति सूत्रम्) इति मूर्द्धन्यो भवति, घत्वे ( 3 ) ( 3 ) षित्वस्येति पाठः षत्वस्य पूर्वत्रासिद्धत्वात्सीध्वमोऽभावात्, कृते घत्वादौ षीध्वमिणः परो भवति (अधुक्षत् अधुक्षताम् अधुक्षन् अधुक्षः अधुक्षम् अधुक्षाव अधुक्षत अधुक्षाताम् अधुक्षन्त, अधुक्षथाः अधुक्षि अधुक्षावहि ) "शल अगुपधादनिटः( 4 ) ( 4 ) इतिक्स इति पाठः क्सः'' ( सूत्रम्) क्सस्याचि (इति सूत्रम्) इत्यल्लोपः अत्र केचित् क्सस्य भाविनीमनकारान्ततामाश्रित्य झस्याद्भावे "क्सस्याचि'' इत्यल्लोपेऽधुक्षतेतीच्छन्ति तदसत् तत्राचीत्यस्य परसप्तमीत्वात् तत्र दन्त्यादौ तङि"लुग्वा दुहदिह'' इत्यादिना क्सस्य वा लुक्, ( अदग्ध, अदुग्धम्, अदुह्वहि ) इति भवति अत्रात्मनेपदे ताविति वक्तव्ये दन्त्यग्रहणादन्त्योष्ठ्योऽपि वकारो दन्त्यग्रहणेन गृह्यते दुधुक्षति, दुधुक्षते दोदुह्यते दोदुहीति, दोदोग्धि ) इत्यादि द्विषिवत् (दोहयति अदूदुहत् ) अयं द्विकर्म्मकः, गां दोग्धि पय इति तत्र पुरुषप्रवृत्तेः पयोर्थत्वात्पयः प्रधानं कर्म्मान्यदप्रधानम् तत्राप्रधाने दुहादीनामिति वचनात् कर्म्मणि नादयोऽप्रधाने भवन्ति दुह्यते गौः पयो देवदत्तेन, अदीहि गौः, दोग्धव्या, सुदोहा, दुग्धेति कृद्योगलक्षणषष्ठी द्वितीयावदुभयोरपि कर्म्मणोर्भवति दोग्धा गोः पयस इति "उभयथापि गोणिकापुत्र'' इति भाष्ये उक्तत्वादप्रधाने द्वितीयापि भवति दोग्धा गां पयस इति दोग्धव्या गौः पयो देवदेत्तेनेत्यत्राभिहिते कर्म्मणि कर्त्तरि "कर्तृकर्ङ्कणोः'' इति षष्ठी भवति, उभयप्राप्तौ कृत्ये षष्ठीनिषेधस्योक्तत्वात् उपपादितं चैतद्धरतौ, कर्म्मकर्तरि "न दुहस्नुनमाम्'' इति निषेधाद्यगस्य भवति दुग्धे गौः पयः स्वयमेव ( अदुग्धम् अदुग्ध, दुहीत ) इति, पयो मुञ्चतीत्यर्थः चिण् तु "दुहश्च'' इति विकल्पनात्पक्षे भवत्येव, अदोहीति अन्यदा कर्तृवत् क्से तस्य वा लुकि अधुक्षत, अदुग्धेति भवति एवं "न दुह'' इति चिण्निषेधो दुहिव्यतिरिक्तार्थो भवतिअस्ति दुहेः सकर्मकस्यापि कर्म्मवद्भावो [ दुहिपच्योर्बहुलं सकर्मकयोः ] इति, "न दुह'' इति निषेधो "दुहश्च'' इति चिण्विकल्पश्च प्रकृतिग्रहणन्यायेन यङ्लुगन्तेऽपि भवति ( दोदुग्धे गौः पयः अदोदोहि अदोदोहिष्ट) इति यङ्लुगन्तस्य सेट्कत्वाद् क्सोऽस्तीति "च्लेः सिच्'' इति सिजेव (दह्यं, दोह्यम् ) [शसिदुहिगुहिभ्यो वा] इति वक्तव्यमिति क्यब्ण्यतौ, (गोधुक्, प्रधुक्) "सत्सूद्विष'' इत्यादिना सोपपदात्सोपसर्गाच्च क्विप् (कामदुघा) "दुहः कब् घश्च'' इति कप्प्रत्ययो हस्य घः दोही, "संपृच'' इत्यादिना घिनुण, (दुहिता) "नप्तृनेष्टृ'' इत्यादिना तृचीटि गुणाभावो निपात्यते "ऋन्नेभ्य'' इति ङीप् स्वस्रादिपाठान्न भवति, दुहितरावित्यादौ सर्वनामस्थाने "अप्तृन्'' इति दीर्घो भवति तत्र नप्त्रादीनां ग्रहणं संज्ञाशब्दानामौणादिकानामेषामेव दीर्घ इति नियमार्थमित्युक्तत्वात् सौ तु "ऋदुशन'' इत्यनङि नान्तत्वात "सर्वनामस्थाने च'' इति दीर्घः दुहितुरपत्यं दौहित्रः बिदादित्वादञ् स्त्रियांदौहित्री, "शार्ङ्गरवाद्यो'' इति ङीन् सूतपुत्री सूतदुहिता [सूताग्रभोजराजमेरुभ्यो दुहितुः पुत्रड्वा वक्तव्यः ] इति पुत्रडादेशः टित्त्वान् ङीप् एवमुग्रपुत्रीत्याद्यपि भवति, %%%वार्चयम%%% इत्यत्र वृत्तौ पुत्रडादेशमुक्त्वा के चित्तु शार्ङरवादिषु पुत्रशब्दं पठन्ति तस्य पुत्रीति भवति, अन्यत्रापि हि दृश्यते शैलपुत्रीत्युक्तम् कथं तर्हि "वा सूतकापुत्रिकावृन्दारकाणाम्'' इतीत्वविकल्प उक्तः अत्र हरदत्तः, पुत्रिके शार्ङरवादिपाठान् ङीनि स्वार्थे कन्, "केःणः'' इति ह्रस्वः इकारस्तस्य पक्षेऽत्वं विधीयतइति इरिदयमर्द्दनार्थे शपि गतः 4
कृदन्तरूपमाला
Sanskrit
1 {@“दुह प्रपूरणे”@} 2 “प्रपूरणम् = पूरणाभावः, उपसर्गोऽत्र धात्वर्थं बाधते प्रस्थानवत्।” इति क्षीरस्वामी।
3 ‘प्रपूरणे दोग्धि दुग्धे, दोहतीत्यर्दने दुहेः।।’ 4 इति देवः।
दोहकः-हिका, दोहकः-हिका, दुधुक्षकः-क्षिका, दोदुहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदेग्धिवत् 5 ज्ञेयानि।
6 दुह्यम्-दोह्यम्, 7 गोधुक्-प्रधुक्-प्रदुहौ-प्रदुहः, 8 कामदुधा 9 10, 11 दोही, 12 13 दुहानः, 14 15 गोदोहनी, 16 ईषद्दोहनः-दुर्दोहनः-सुदोहनः
17 इत्यादिना तृन्प्रत्यये इडागमे, गुणनिषेधे निपातितः।
दुहिता = स्त्र्यपत्यम्।]] दुहिता, इत्यस्माद्धातोस्तत्तत्प्रत्ययेषु यथासम्भवं रूपाणि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(८५३)
02
=>
(२-अदादिः-१०१४। सक। अनि। उभ।)
03
=>
[पृष्ठम्०७५९+ ३१]
04
=>
(श्लो। १९३)
05
=>
(८४२)
06
=>
[[१। ‘शंसिदुहिगुहिभ्यो वा’ (काशिका वा। ३-१-१०९) इति क्यप् वा भवति। क्यपि गुणनिषेधे दुह्यम् इति, औत्सर्गिके ण्यति दोह्यम् इति रूपे भवतः।]]
07
=>
[[२। ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (३-२-६१) इत्यनेन क्विपि, ‘दादेर्धातोर्घः’ (८-२-३२) इति घत्वे पदान्तनिमित्तकेषु चर्त्वभष्भाव- जश्त्वादिकेषु रूपम्। ‘उपसर्गेऽपि’ इत्युक्तत्वात् उपसर्गभिन्नेषु सुबन्तेषु उप- पदेष्वपि कर्मभूतेषु क्विप् भवति, तेन गोधुक् इति सिद्धम्।]]
08
=>
[[३। ‘दुहः कब् घश्च’ (३-२-७०) इत्यनेन सुप्युपपदे कप्प्रत्ययः, धात्वन्त्यवर्णस्य घकारादेशश्च विहितः।]]
09
=>
[[आ। ‘आराधय सपत्नीकः प्रीता कामदुघा हि सा।’ रघुवंशे १। ८१।]]
10
=>
[गौः]
11
=>
[[४। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरि- मुहदुषद्विषद्रुहदुह--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये रूपम्।]]
12
=>
[गां पयो]
13
=>
[[५। शानचि, शपोलुकि, रूपमेवम्। ‘दुहियाचि--’ (भाष्यम् १-४-५१) इत्यादिना द्विकर्मकत्वम्।]]
14
=>
[[B। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः।’ धा। का। २। ४४।]]
15
=>
[[६। गावः दुह्यन्तेऽत्रेति अधिकरणे ‘करणाधिकरणयोश्च’ (३-३-११७) इति ल्युट्। गोदोहनी = स्थलविशेषो गोष्ठादिः।]]
16
=>
[[७। ‘अन्येभ्योऽपि दृश्यते’ (३-३-१३०) इति ईषदाद्युपपदेषु खलपवादो युच्प्रत्ययः। क्षीरस्वामिमतेनेदमुक्तम्। अन्ये तु बाहुलकादाहुः।]]
17
=>
[[८। ‘नप्तृनेष्ट्ट--’ [द। उ। २-३]