| YouTube Channel

दुस्पर्श (dusparza)

 
Shabdartha Kaustubha
Kannada
दुस्पर्श
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತೀಟಕಸಂಧಿ
निष्पत्तिः - > स्पृश (संस्पर्शने) - "घञ्" (३-३-१९) "खल्" (३-३-१२६) वा
व्युत्पत्तिः - > दुःखेन स्पृश्यते
दुस्पर्श
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೆಗ್ಗುಳ್ಳ /ಮುಳ್ಳು ಬದನೆಕಾಯಿ
शब्दकल्पद्रुमः
Sanskrit
दुस्पर्शः,
पुं,
(दुःखेन स्पृश्यते इति दुर् + स्पृश +कर्म्मणि खल् विसर्गस्य वा लोपः ।) दरालभा ।इत्यमरटीकायां भरतः
(पर्य्यायोऽस्य यथा, “यासो यवासो दुस्पर्शो धन्वयासः कुनाशकः ।दुरालभा दुरालम्भा समुद्रान्ता रोदिनी
गान्धारी कच्छुरानन्ता कषाया हरविग्रहा
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)दुःखस्पृश्ये, त्रि
वाचस्पत्यम्
Sanskrit
दुः(दु)स्पर्श
त्रि०
दुःखेन स्पृश्यंतेऽसौ दुर् + स्पृश--कर्मणिखल् वा विसर्गलोपः स्प्रष्टुमशक्ये मेदि० “दुर्ग्राह्योमुष्टिना वायुः दुस्पर्शः पाणिना शशी” भा० आनु० ३३ अ०३ दुरालभायाम् स्त्री अमरः लताकरञ्जे राजनि० क-पिकच्छ्वाम् आकाशवल्ल्यां कण्टकार्य्याम् स्त्री रा-जनि०