दुष्टसाक्षिन् (duSTasAkSin)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
अभिधानचिन्तामणिपरिशिष्टम्
Sanskritकूटसाक्षी मृषासाक्षी सूची स्याद्दुष्टसाक्षिणि ।
कूटसाक्षिन् (पुं), मृषासाक्ष्य (पुं), सूचिन् (पुं), दुष्टसाक्षिन् (पुं)
वाचस्पत्यम्
Sanskritदुष्टसाक्षिन् कर्म० । नारदाद्युक्ते असाक्षित्वप्रयोजकदोषयुक्ते साक्षिणि । साक्षिणोदोषाश्च नारदेनोक्ताः यथा“यस्त्वात्मदोषदुष्टत्वादस्वस्थ इव लक्ष्यते । स्थानात् स्था-नान्तरं गच्छेदेकैकञ्चानुधावति । कासत्यकस्माच्च भृशम-भीक्ष्णं निःश्वसित्यपि । विलिखत्यवनीं पद्भ्याम्बाहू वासश्चधूनयेत् । भिद्यते मुखवर्णोऽस्य ललाटं स्विद्यते तथा ।शोषमागच्छतश्चोष्ठाबूर्द्ध्वं तिर्यङ्गिरीक्षते । त्वरमाणइवाबद्धमपृष्टो बहु भाषते । कूटसाक्षी स विज्ञेयस्तंवापं विनयेद्भृशम्” । अबद्धमसम्बद्धम् । विनयेच्छिक्षयेद्यथा कौटसाक्ष्याद्बिभेतीत्यर्थः । न तु दण्डयेदित्यर्थः ।प्राकृतवैकृतिकविकारविवेकस्य दुःशक्यत्वात् सम्भावनामा-त्रेण च दण्डनस्यान्याय्यत्वादिति मिता० उक्तम् । मदन-रत्ने त्वाविद्धमिति पठित्वा आकुलमिति व्याख्यातम् । श-ङ्खलिखितावपि “मन्त्रिभिः शास्त्रसामर्थ्याद्दुष्टलक्षणं ग्रा-ह्यन्तिर्यक्प्रेक्षते समन्तादेवावलोकयति । अकस्मान्मूत्रंपुरीषं विसृजति देशाद्देशं गच्छति पाणिना पाणिं पी-डयति नखान्निकृन्तति मुखमस्य विवर्णतामेति प्रस्वि-द्यति चास्य ललाटन्न चक्षुर्न्न च वाचं प्रतिपूजयत्य-कस्माद्ददाति, प्रशंसति पुनः पुनरन्यमपवदति बहिर्नि-रीक्षते शस्त्रं परामृशति शिरः प्रकम्पयत्यीष्ठौ निर्भुजतिसृक्कणी परिलेढि अतिविस्मितः कर्मस्वमहत्स्वपि भ्रुबौसंहरति तुष्णीं ध्यायति पूर्वोत्तरविरुद्धं व्याहरति एवमादिदुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशी-लादिति” अकस्मादिति तूष्णीमिति च यथायोगमनेकत्रसम्बन्धनीयम् । अन्यत्र प्रकृतिशीलादिति । प्रकृत्याखभावात् शीलन्तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्त-स्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि, एते अवान्तरवैल-क्षण्यस्य दुर्ज्ञेयत्वादित्यवधानेन परीक्ष्य वस्तुतत्त्वानुसर-णङ्करणीयमिति सूचितम्” वीरमिमुनिवाक्ये अन्येऽपि साक्षिदोषा असाक्षिलक्षणोक्त्यावीरमि० भङ्ग्यादर्शिता यथामनुः “नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।न दृष्टदोषाः कर्त्तव्या न व्याध्यार्त्ता न दूषिताः । न साक्षीनृपतिः कार्य्यो न कारुककुशीलवौ । न श्रोत्रियो नलिङ्गस्थो न सङ्गेभ्यो विनिर्गतः । आध्यधीनी नवक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैकोनाप्तो न विकलेन्द्रियः । नार्त्तो न मत्तो नोन्मत्तो नक्षुत्तृष्णोपपीडितः । न श्रमार्त्तो न कामार्त्तो न क्रुद्धोनुपि तस्करः” इति । अत्र सर्वैर्विशेषणैरसत्यसम्भावनाविस्मरणादिकमसाक्ष्यनिमित्तमुपलक्ष्यते । अतएव वृद्धविकलेन्द्रियविकर्म्मकृत्तस्करादीनां गोवृषन्यायेन पुन-रुपादानम् । अत्र बहवः शब्दाः स्पष्टार्थाः । अन्येमेधातिथ्यनुसारेण विव्रियन्ते । अर्थसम्बन्धिन उत्तम-र्णाधमर्णाद्याः उत्तमर्णोह्यधमर्णवचनेन पराजीयमानस्तदानीमेव रोधाविष्टोऽधमर्णादृणं प्रत्यादातुं प्रयतेतेतितच्चित्तानुवृत्तिरधमर्णस्य तदनुगुणकौटसाक्ष्यहेतुत्वेन संभा-व्यते । उत्तमर्णो निर्धनेऽधमर्णे स्वसाक्षितया घनं प्राप्यस्वस्मै तदर्पयिष्यतीति बुद्ध्या तदनुगुणवादी सम्भाव्यते ।तथार्थः प्रयोजनन्तत्सम्बन्धिनोर्वादिप्रतिवादिनोरन्यतर-स्माद् येषां स्वप्रयोजनं सिसाधयिषितन्तेऽप्युपकारगन्धान्नसाक्ष्यार्हा इत्यादि । सर्ठत्र कौटसाक्ष्यसम्भावनोन्नेया ।दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः । व्याध्यार्त्ता वचनवि-संवादापादकव्याधिपीडावन्तः । दूषिता अभिशस्ताः ।नृपतेरसाक्षित्वमकृताभिपायेणातो न प्राक्तननारदोक्तिविरोधः । लिङ्गस्थोऽपत्यादिः । सङ्गेभ्यो विनिर्गतःपरित्यक्तः पित्रादिगुरुजनसंसर्गात् वृद्धानुपसेवनादस्या-ऽसत्यसम्भावना । आध्यधीनो बन्धकीकृतः तस्य तदाज्ञा-वशवर्त्तित्वात् । वक्तव्यो निन्दास्पदम् विकर्मकृत् अधर्मा-भीरुः । वृद्धविकलेन्द्रिययोर्वार्द्धकस्वभावहेतुकेन्द्रियवैकल्येनभेदः । आर्त्तः शोकेन । नारदोऽपि “दासनैःकृतिका-श्रद्धवृद्धस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तार्त्त कितव-ग्रामयाजकाः । महापथिकसामुद्रबणिक्प्रव्रजितातुराः ।व्यङ्गैकश्रोत्रियाचारहीनक्लीवकुशीलवाः । नास्तिकव्रा-त्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थालीसहा-यारिचरज्ञातिसनाभयः । प्राग्दृष्टदोषशैलूषविषजीव्य-हितुण्डिकाः । गरदाग्निदकीनाशशूद्रापुत्त्रोपपातिनः ।क्लान्तसाहसिकश्रान्तनिर्धूताग्न्यवसायिनः । भिन्नवृत्ता-समावृत्तजडतैलिकमूलिकाः । भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः । कुनखीश्यावदन् श्वित्री मित्रध्रुक्शठशौण्डिकाः । ऐन्द्रजालि-कलुब्धोग्रश्रेणी गणबिरोधिनः । वधकृच्चित्रकृत् शङ्खीपतितः कूटकारकः । कुहकः प्रत्यवसितस्तस्करो राज-पूरुषः । मनुष्यपशुमांसास्थिमघुक्षीराम्बुसर्पिषाम् ।विक्रेता व्राह्मणश्चैव द्विजो वार्धुषिकश्च यः । च्युतःस्वघर्मात्कुलिकः सूचको हीनसेवकः । पित्रा विवद-मानश्च भेदकृच्चेत्यसाक्षिणः । श्रेण्यादिषु तु वर्गेषुकश्चिश्चेद्द्वेष्यतामियात् । तस्य तेभ्यो न साक्ष्यंस्याद्द्वेष्टारः सर्व एव ते” । नैकृतिकः परापकारशीलः ।चाक्रिकस्तैलिकः । प्रमत्तः सदाऽनवहितः । महापथिकोमहापथगामी । सामुद्रबणिग्वहित्रवाही । एकः श्री-त्रियो द्वयोरननुमतः । एकः, श्रोत्रिय इति पृथग्वा प्रा-यश्चोक्तं च प्रागेव तत् । अपरार्केण तु युग्मैकेति पठित्वायुग्मौ ष्ट्वाविति व्याख्यातम् । एकस्थालीसहाय एक-पाकभोजीति । सहाय्यन्यतरसाहाय्यकारी, मिश्रचण्डे-श्वरौ । मदनरत्नाकरस्तु एकस्थालीः सहाय इतिविशेषणद्वयं पृथक्कृत्य एकस्थाली स्थाल्यधिकरणकःपाकोलक्ष्यते । स एको यस्येत्येकस्थालीति व्याचख्यौ ।समासान्तविधेरनित्यत्वादेकस्थालीत्यत्र “नद्यृतश्चेति” पा० नकप् । अर्द्धपिप्पलीत्यादिवन्न ह्रस्व इति च समादधे ।अरिचरः भूतपूर्वः शत्रुः । भूतपूर्वे चरट् । कल्पतरौत्वस्त्रधर इति पठित्वा शस्त्रधर इति व्याख्यातम् । ज्ञा-तयः सगोत्राः सनाभयो मातुलतत्सुतमातृष्वस्रियादयः ।शैलूषः स्त्रीणां नर्तयिता । कुशीलवस्तु रङ्गापजीवीनट इति भेदः । विषजीवी विषक्रयजीवीति मदनरत्ने ।विषवद्योपजीवीति रत्नाकरे । अहितुण्डिकः सर्प-क्रीडोपजीवी व्यालग्राही । कीनाशः कर्कशः क्षुद्रा वा ।कृपण इति तु मदनरत्न । उपपातित उपपातकीतिकल्पतरुः । मदनरत्ने तूपपातक इति पठितम् । उपसमीपं पातकं यस्येति विगृह्य पातकयुक्त इति व्या-ख्यातञ्च । क्लान्तोऽतिखिन्नः श्रान्तोऽनवरतकर्मका-रीति मदनरत्ने । अशान्त इति पठित्वाऽयीग्यकर्मका-रीति रत्नाकरे । निर्धूतो वान्धवैस्त्यक्त इति मदन-रत्ने । ग्रामराजकुलश्रेण्यादिभिर्निःसारित इति रत्ना-करे । मूलिकः लोकभयशून्य इति भवदेवः । मूलं विप्रल-म्भस्तत्कारीति तु युक्तम् । अपरार्केण तु पौपिक इतिपठित्वा पौपिकः पूपादिविक्रयीति व्याकृतम् । वर्षसू-चको वर्षशकुनवेदो । नक्षत्रसूचको ज्यौतिषिकः । अ-थशसी परकीयपापप्रकाशकः । हीनाङ्ग उचितपरिमा-णन्यूनाङ्गः । व्यङ्गस्तु छिन्नाङ्गुल्यादिरिति भेदः ।भगवृत्तिर्भार्य्यादास्यादिसम्भोगशुल्कोपजीवी शङ्खी वृष-भनर्त्तनजीवीति मदनरत्नरत्नाकरयोः । कुहको दा-म्मिकः । प्रत्यवसितः प्रव्रज्यादिच्युतः । कुलिको राज्ञाव्यवहारपरिच्छेदकतया नियुक्तः । अस्य च साक्षित्व-करणे निषेधो, विधिस्तु कृतसाक्ष्य इति कल्पतरुः । मद-नरत्ने तु कुलं व्राह्मणादिगणस्तदधिकारी कुलिक इतिव्याख्यातम् । सूचको राज्ञा परदोषान्वेषणपूर्वकं स्वस्मैतन्निवेदने नियुक्तः । भेदकृन्मित्रादिप्रीतिभङ्गकर्त्ता ।श्रेण्यादिष्वित्यस्यायमर्थः । येषु श्रेण्यादिषु यस्यैकोऽपिद्वेष्यतां शत्रुतामाप्तस्तदीयविवादे तच्छ्रेण्यादिनिविष्टाःसर्व एव न साक्षिणस्तत्र हेतुर्द्वेष्टारः सर्वएव त इतितच्छ्रेण्यान्तर्गतैकद्वेष्यनुरोधकृतवैरनिर्यातनार्थमन्यथावा-दित्वसम्भवात् । अतएव नारदः “बालोऽज्ञानादसत्यात्स्त्री पाप्याभ्यां स्याच्च कूटकृत् । विब्रूयाद्बान्घवः स्नेहा-द्वैरनिर्यातनादरिरिति” । कात्यायनः “तद्वृत्तिजीविनोये च तत्सेवाहितकारिणः । तद्वन्धु सुहृदो भृत्या आ-प्तास्ते तु न साक्षिणः । मातृष्वसुःसुताश्चैव पितृष्वसृ-सुतास्तथा । मातुलस्य सुताश्चैव सोदर्यसुतमातुलाः ।एते सनाभयः प्रोक्ताः साक्ष्यन्तेषु न योजयेत् । कुल्याःसम्बन्धिनश्चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा” । तथा वृहस्पतिः “मातुपिता पितृव्यश्च भार्यायाभ्रातृमातुलौ । भ्राता सखाच जामाता सर्ववादेष्वसा क्षिणः । परस्त्रीपानसक्ताश्चकितवाः सर्वदूषकाः । उन्मत्तार्त्ताः साहसिका नास्ति-काश्च न साक्षिणः” इति । अत्र मातृष्वस्रादिशब्दानां स-म्बन्धिशब्दत्वादर्थिप्रत्यर्थिनोरन्यतरस्य एतादृशसम्बन्धिनोन साक्षिणः सम्बन्धिनि स्नेहादन्यत्र वैरसम्भवादितिध्येयम् । शङ्खलिक्षितौ “शुल्कगुल्माधिकृतौ दूतो वेष्टि-तशिराः स्त्रियोगुरुकुलवासिनः परिव्राजकवानप्रस्थनि-र्ग्रन्थाः शङ्खिनः व्यालग्राहिणः” इति अत्राऽसाक्षिणःइति प्रकृतम् शुल्काधिकृतः शुल्कग्रहणस्थानाधिकारी ।गुल्मः स्वस्थाननिवेशितः पदातिसमूहस्तदधिकृतः ।वेष्टितशिराः उद्धतवेषोमूर्द्धव्याध्यभिभूतो वा इतरेप्रसिद्धा व्याख्याततराश्च । अनेन प्रपञ्चेन लोभादि-कमसाक्षित्वनिमित्तमेव व्यक्तीकृतम् । यथाह मनुः“लोभान्मोहाद्भयात् क्रोधान्मैत्र्यात्कामात्तथैव च ।अज्ञानाद्बालभावाच्च साक्षी वितथ उच्यत” इति ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
