| YouTube Channel

दुष्कृतं (duSkRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
दुष्कृतं,
क्ली,
(दुष्टं कृतम् ।) पापम् इत्यमरः ।१ २३
तत्तु तत्कर्त्तुर्मरणानन्तरं तेनसह गच्छति यथा, --“गृहादर्था निवर्त्तन्ते श्मशानादपि बान्धवाः ।सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति
तस्माद्बित्तं समासाद्य दैवाद्बा पौरुषादथ ।दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि कार-येत्
”इति वह्निपुराणे यमानुशासननामाध्यायः
(दुष्टकृते, त्रि यथा, महाभारते ४३ २० ।“युष्माकञ्चाप्रसादेन दुष्कृतेन कर्म्मणा ।यत् पापं वर्द्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः
”)