| YouTube Channel

दुल (dula)

 
शब्दसागरः
English
दुल r. 10th cl. (दोलयति-ते)
1. To raise, to throw up.
2. To excite.
3. To
shake, to swing. चुरा० उभ० सक० सेट्
Wilson
English
दुल r. 10th cl. (दोलति)
1 To raise, to throw up.
2 To excite.
3 To shake, to swing.
Shabdartha Kaustubha
Kannada
दुल - उत्क्षेपे (चुरा० उभ० सक० से०) दोलयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಮೇಲಕ್ಕೆ ಎತ್ತು
दुल - उत्क्षेपे (चुरा० उभ० सक० से०) दोलयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಅಲ್ಲಿಂದಿಲ್ಲಿಗೆ ಚಲಿಸು /ಆ ಕಡೆಯಿಂದ ಕಡೆಗೆ ಆಡುತ್ತಿರು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दुल्
मूलधातुः:
दुल
धात्वर्थः:
उत्क्षेपे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
दोलयति-ते
धातुप्रदीपः
Sanskrit
दुलँ दुल उत्क्षेपे
- दोलयति दोला दुलिः दौलेयः 68
शब्दकल्पद्रुमः
Sanskrit
दुल, उत्क्षेपे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, दोलयति धूलिं वायुः ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दुल उत्क्षेपे (दोलान) चुरा०
उभ०
सक०
सेट् दोलयति तेअदूदुलत् “नारी पदद्वयं स्थाप्य कान्तस्योरुद्वयोपरि ।कटिं चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जरी“आन्दोलत् दोलने” कविकल्पद्रुमः अस्य वा चुरा-रत्वमपि दुल--कि “दुलिः अम्बादुली नितत्नीरभ्र-यन्ती” तैत्ति० दुलीति उत्क्षिपन्तीत्यर्थः
क्षीरतरङ्गिणी
Sanskrit
दुलँ दुल उत्क्षेपे
- दोलयति दोला, दोलितः आन्दोलितः, आन्दोलयति, प्रेङ्खोलयति, वीजयत्येते लोकात् 63
धातुवृत्तिः
Sanskrit
दुलँ दुल (अर्थः) उत्क्षेपे
( दोलयति अदूदुलत् दोला ) भिदादेराकृतिगणत्वादङ् ( दुलिः ) कर्मष्ठः "अच इः'' इतीप्रत्ययः "बहुलमन्यत्रापि संज्ञाच्छन्दसोः'' इति णिलुक् 66
कृदन्तरूपमाला
Sanskrit
1 {@“दुल उत्क्षेपे”@} 2 दोलकः-लिका, दुदोलयिषकः-षिकाः
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकक्षेपार्थककालयतिवत् 3 ज्ञेयानि।
4 दोला, 5 दुलिः, 6 सन्दोलयन्-न्ती।
प्रासङ्गिक्यः
01
=>
(८५१)
02
=>
(१०-चुरादिः-१६००। सक। सेट्। उभ।)
03
=>
(१७५)
04
=>
[[१। ‘भिदादेः’ (३-३-१०४) आकृतिगणत्वात्, ण्यन्तात् प्राप्तं युचं बाधित्वा, अङ्प्रत्यये, णिलोपे दोला इति रूपं सम्पद्यते।]]
05
=>
[[२। ‘अच इः’ (द। उ। १-६७) इति इकारप्रत्यये रूपम्। ‘बहुलमन्यत्रापि संज्ञाच्छ- न्दसोः’ (द। उ। ८।४०) इति णेर्लुक्। दुलिः = कमठी।]]
06
=>
[[आ। ‘सन्दोलयन्नधिकपोलितमद्रिराजं सञ्चोलितं सुबहुमूलितशाखिबृन्दैः।।’ धा। का। ३-२१।]]