| YouTube Channel

दुर्हृत् (durhRt)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्हृत्, [द्] त्रि, (दुर्दुष्टं हृदयं यस्य “सुहृ-द्दुर्हृदौ मित्रामित्रयोः ।” १५० इति निपा-तनात् हृदयस्य हृद्भावः ।) शत्रुः इत्यमरः ।२ १०
(यथा, मार्कण्डेये २६ ३४ ।“मित्राणामुपकाराय दुर्हृदां नाशनाय
”)दुष्टचित्ते, त्रि (यथा, महाभारते ३१२ १२ ।“अश्मसारमयं नूनं ह्यदयं मम दुर्हृदः ।यमौ यदेनौ दृष्ट्वाद्य पतितौ नावदीर्य्यते
”)
वाचस्पत्यम्
Sanskrit
दुर्हृत्
त्रि०
दुस्थं हृदयमस्य प्रा० ब० “सुहृद्दुर्हृदौ मित्रा-मित्रयोः” पा० निपा० अमित्रे शत्रौ दुः-स्थितं हृदस्य प्रा० ब० दुःस्थितहृदये
त्रि०
“अश्म-सारमयं नूनं हृदयं मम दुर्हृदः” भा० व० ११२ अ० तस्यभावः युवा० अण् द्विपदवृद्धिः दौहार्द्द दुष्टान्तःकरणत्वेशत्रुत्वे
न०