| YouTube Channel

दुर्व्वासाः (durvvAsAH)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्व्वासाः, [स्]
पुं,
(दुर्दुष्टं निगूढमित्यर्थः वास इवधर्म्मावरणत्वं यस्य तथा महाभारतवच-नम्- ।“निगूढनिश्चयं धम्म यं तं दुर्व्वाससं विदुः
”)मुनिविशेषः अत्रिमुनिपुत्त्रः शङ्करांश-जातः इति श्रीभागवतम्
(यथा, विष्णु-पुराणे ।“दुर्व्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम्
”)तत्पर्य्यायः कुशारणिः इति त्रिकाण्ड-शेषः
तस्य भार्य्या और्व्वमुनिकन्या कन्दली ।इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम्
(महा-देवः यथा, महाभारते १३ १७ ६२ ।तस्य सहस्रनामकीर्त्तने ।“साङ्ख्यप्रसादो दुर्व्वासाः सर्व्वसाधुनिषेवितः
”दुर्निन्दितं वासो वस्त्रं यस्य ।) मन्दवस्त्रयुक्ते, त्रि
(यथा, ऋग्वेदे १९ ।“मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतयेमा नो अस्यै
”)