| YouTube Channel

दुर्लभः (durlabhaH)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्लभः, त्रि, (दुर्दुःखेन लभ्यते इति दुर् + लभ +“ईषद्दुःसुष्विति ।” १२६ इति खल् ।)दुष्प्रापः इति मेदिनी भे, १६
यथा, --“दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः ।दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः
”इति चाणक्ये ५४
अतिप्रशस्तः इति शब्दरत्नावली
“सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।हरिद्वारे प्रयागे गङ्गासागरसङ्गमे
”इति कूर्म्मपुराणम्
प्रियः इति हेमचन्द्रः
दुर्लभः,
पुं,
(दुर् + लभ + खल् ।) कच्चुरः इतिमेदिनी भे, १६
कर्च्चूरः इति राजनिर्घण्टः
(विष्णुः यथा, महाभारते १३ १४९ ९६ ।“दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा
”“दुर्ल्लभतया दुर्ल्लभः ।‘जन्मान्तरसहस्रेषु तपोदानसमाधिभिः ।नराणां क्षीणपापानां कृष्णभक्तिः प्रजायते ।’इति वचनात् भक्त्या लभ्य इति भगवद्बचनाच्च ।”इति तत्र शाङ्करभाष्यम्
)