| YouTube Channel

दुर्य्योधनः (duryyodhanaH)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्य्योधनः,
पुं,
(दुर्दुःखेन युध्यतेऽसा युध +“भाषायां शासियुधीति ।” युच् ।) स्वनाम-ख्यातकुरुवंशभवराजविशेषः धृतराष्ट्रज्येष्ठ-पुत्त्रः कुरुपाण्डवयुद्धे भीमेन हतः तत्पर्य्यायः ।कुरुराट् गान्धारेयः सुयोधनः इतित्रिकाण्डशेषः
(अयं कलेरंशेन पृथिव्या-मवतीर्णः यथा, महाभारते ६७ ८८-८९ ।“कलेरंशस्तु संजज्ञे भुवि दुर्य्योधनो नृपः ।दुर्ब्बुद्धिर्दुर्म्मतिश्चैव कुरूणामयशस्करः
जगतो यस्तु सर्व्वस्य विद्बिष्टः कलिपुरुषः ।यः सर्व्वां घातयामास पृथिवीं पृथिवीपते !
”)