| YouTube Channel

दुर्म्मुखः (durmmukhaH)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्म्मुखः,
पुं,
(दुर्निन्दितं मुखं यस्य ।) वानर-विशेषः (यथा, रामायणे ३९ ३३ ।“अयुतेन वृतश्चैव सहस्रेण शतेन ।ततो यूथपतिर्वीरो दुर्म्मुखो नाम वानरः
”)नागभेदः इति मेदिनी खे, १०
(यथा, हरिवंशे ११४ ।“कुहरः पुष्पदंष्ट्रश्च दुर्म्मुखः सुमुखस्तथा
”)अश्वः इति हेमचन्द्रः १५
(सर्पः इतित्रिकाण्डशेषः ५९
) महिषासुर-सेनापतिविशेषः यथा, मार्कण्डेये ८३ १९ ।“दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम्
”(नृपविशेषः यथा, महाभारते २१ ।“संग्रामजिर्द्दुर्म्मुखश्च उग्रसेनश्च वीर्य्यवान्
”धृतराष्ट्रस्य पुत्त्रविशेषः यथा, तत्रैव ११७ ।“दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव
”राक्षसविशेषः यथा, भागवते १० १८ ।“रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ-धूम्राक्षदुर्म्मुखसुरान्तनरान्तकादीन्
”यक्षविशेषः इति ब्रह्मपुराणम्
गणपते-र्गणानामन्यतमः यथा, महागणपति-स्तोत्रे ११ ।“षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशा-ङ्कुशाभीरवान्-बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्ममुञ्ज-त्विषः ।आमोद्रः पुरतः प्रमोदसुमुखौ तं चाभितोदुर्म्मुखःपश्चात्पार्श्व गतोऽस्य विघ्न इति यो यो विघ्न-कर्त्तेति
”वर्षविशेषः यथा, ज्योतिषतत्त्वधृतभविष्य-पुराणवचनम् ।“तुषधान्यक्षयो देवि ! सर्व्वशस्यमहार्षता ।व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः
”)
दुर्म्मुखः, त्रि, (दुर्दुःखजनकं मुखं मुखनिःसृत-वचनादिकं यस्य ।) अप्रियवादी तत्पर्य्यायः ।मुखरः अबद्धमुखः इत्यमरः ३६
(अप्रियदर्शनम् यथा, कथासरित्सागरे ।१२ ५२ ।“चक्रे वसन्तकस्यापि रूपं दन्तुरदुर्मुखम्
”)