| YouTube Channel

दुर्म्मनाः (durmmanAH)

 
शब्दकल्पद्रुमः
Sanskrit
दुर्म्मनाः, [स्] त्रि, (दुर्दुष्टं मनो यस्य ।) चिन्ता-दिव्याकुलचित्तः तत्पर्य्यायः विमनाः २अन्तर्म्मनाः इत्यमरः
(यथा, भागवते १९ ।“रूपं भगवतो यत्तत्मनः कान्तं शुचापहम् ।अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्म्मना इव
”शतावर्य्याम्, स्त्री इति राजनिर्घण्टः
(दुर्दुष्टंमनः इति विग्रहे दुष्टचित्ते, क्ली यथा, रामायणे ३१ २० ।“यदि दुःस्थो रक्षेत भरतो राज्यमुत्तमम् ।प्राप्य दुर्मनसा वीर गर्व्वेण विशेषतः
”)