| YouTube Channel

दुर्मल्लीका (durmallIkA)

 
वाचस्पत्यम्
Sanskrit
दुर्म(ल्ली)ल्लिका स्त्री दृश्यकाव्यरूपे उपरूपकभेदे सा० द० यथा“नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् प्र-स्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकं तथा सला-पकं श्रीगदितं शिल्पकञ्च विलासिका दुर्मल्लिकाप्रकरणी हल्लीशोभाणिकेति अष्टादश प्राहु-रुपरूपकाणि मनीषिणः विना विशेषं सर्वेषां लक्ष्मनाटकवन्मतम्” इत्युद्दिश्य तल्लक्षणमुक्तं यथा“दुर्मल्ली चतुरङ्का स्यात् कौशिकी भारती तथा अगर्भानागरनरा न्यूननायकभूषिता त्रिनालिः प्रथमो-ऽङ्कोऽस्यां विटक्रीडाश्रयो भवेत् पञ्चनालिर्द्वितीयी-ऽङ्को विदूषकविलासवान् षण्णालिकस्तृतीयस्तु पीठमर्दविलासवान् चतुर्थो दशनालिः स्यादङ्कः क्रीडितनायकः यथा विन्दुमती”