| YouTube Channel

दुर्नाम (durnAma)

 
Wordnet
Sanskrit
Synonyms:
कुख्यात, कुप्रसिद्ध, दुर्नाम
adjective
यस्य दुर्गुणाः प्रसिद्धाः सन्ति।
"वीरप्पन इत्याख्यः एकः कुख्यातः अपराद्धः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
दुर्नाम, [न्]
क्ली,
(दुर्दुष्टं नाम यस्य ।) अर्शो-रोगः इति राजनिर्घण्टः
(यथा, सुश्रुते ।१ ४५ ।“दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ।दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनम्
”पित्तजश्लेष्मजयोरनयोर्हेतुर्यथा, --“कट्वम्ललवणोष्णानि विदाहीनि भुरूणि ।सेवनानिलतोयेन श्रमाद्व्ययामपीडया ।यानव्यायामदोषाद्वा दुर्नाम पित्तसम्भवम्
अव्यायामात्तस्य शीलादजस्रंशीताद्वान्यद्वातसंसेवनाच्च ।गौण्यात्यम्लात्तैलसम्पिच्छिलेनदुर्नामा सञ्जायते श्लेष्मदोषात्
”इति हारीते चिकित्सितस्थाने द्वादशेऽध्याये
चिकित्सास्य यथा, --“व्योषाण्यरुष्करविडङ्गतिलाभयानांचूर्णं गुडेन सहितन्तु सदोपयोज्यम् ।दुर्नामकुष्ठगरशोथशकृद्विवन्धा-नग्नेर्जयत्यबलतां क्रिमिपाण्डुताञ्च
”इति व्योषाद्यचूर्णम्
पचेद्वारिचतुर्द्रोणे कण्टकार्य्यमृताशतम् ।तत्राग्नित्रिफलाव्योषपूतिकत्वक्कलिङ्गकैः
काश्मर्य्यविडङ्गैस्तु सिद्धं दुर्नाममेहनुत् ।घृतं सिंह्यमृतं नाम बोधिसत्त्वेन भाषितम्
इति सिंह्यमृतं घृतम्
”इति वैद्यकचक्रपाणि संग्रहे अर्शोऽधिकारे
“मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।अद्यात् सतैललवणं दुर्नामविनिवृत्तये
”“चूर्णीकृताः षोडश शूरणस्यभागास्ततोऽर्द्धेन चित्रकस्य ।महौषधाद्द्वौ मरिचस्य चैकोगुडेन दुर्नामजयाय पिण्डी
”इति शूरणपिण्डी
इति वाभटे चिकित्सास्थाने अष्टमेऽध्याये
“माणशूरणभल्लातत्रिवृद्दन्तीसमन्वितम् ।त्रिकत्रयसमायुक्तं लौहं दुर्नामनाशनम्
इति माणाद्यं लौहम्
”इति वैद्यकरसेन्द्रसारसंग्रहे अर्शोऽधिकारे
“सर्व्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः ।तैस्तु प्रतिहतो वायुरपानः सन्निवर्त्तते
ततो व्यानेन सङ्गम्य ज्योतिमृद्नाति देहिनाम्
”इति सुश्रुते निदानस्थाने तृतीयेऽध्याये
)