| YouTube Channel

दुर्धरः (durdharaH)

 
Apte Hindi
Hindi
दुर्धरः
पुं*
दुर्- धरः -
पारा
Wordnet
Sanskrit
Synonyms:
दुर्धरः
noun
राक्षसविशेषः महिषासुरस्य सेनापतिश्च।
"दुर्धरस्य वर्णनं पुराणेषु अस्ति।"
Synonyms:
दुर्धरः
noun
धृतराष्ट्रस्य शतेषु पुत्रेषु अन्यतमः।
"दुर्धरस्य वर्णनं महाभारते अस्ति।"
Synonyms:
दुर्धरः
noun
रावणसेनायाः राक्षसविशेषः।
"दुर्धरस्य वर्णनं रामायणे अस्ति।"
Synonyms:
दुर्धरः
noun
एकः राक्षसः।
"दुर्धरस्य वर्णनं दुर्गासप्तशत्यां वर्तते।"
Synonyms:
असाध्यः, निरौषधः, दुर्धरः, असाधः, अवारणीयः, निरुपक्रमः, दुराचरः, क्षेत्रियः, क्रियापथमतिक्रान्तः, विवर्जनीयः
adjective
चिकित्सातिक्रान्तः।
"रक्तक्षयः असाध्यः रोगः अस्ति।"
Synonyms:
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः
noun
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
"पारदः निखिलयोगवाहकः अस्ति।"
Synonyms:
दुर्धरः
noun
एकः महिषः
"दुर्धरस्य उल्लेखः कोशे वर्तते"
Synonyms:
दुर्धरः
noun
एकः शम्बरः
"दुर्धरस्य उल्लेखः हरिवंशे वर्तते"
Synonyms:
भल्लातकः, दुर्धरः
noun
एकः क्षुपः
"भल्लातकस्य उल्लेखः कोशे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
दुर्ध(र्द्ध)रः,
पुं,
(दुर्दुःखेन ध्रियते इति दुर् + धृ +“ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ।१२६ इति खल् ।) नरकविशेषः ऋषभौ-षधिः इति मेदिनी रे, १६९
पारदः भल्ला-तकः इति राजनिर्घण्टः
महिषासुरस्यसेनापतिविशेषः यथा, मार्कण्डेये ८३ १९ ।“दुर्द्धरं दुर्म्मुखञ्चोभौ शरैर्निन्ये यमक्षयम्
”(धृतराष्ट्रपुत्त्रभेदः यथा, महाभारते ।१३३ ३० ।“नामृष्यन्त महेश्वासाः सोदर्य्याः पञ्च भारत ! ।दुर्म्मर्षणो दुःसहश्च दुर्म्मदो दुर्धरो जयः ।पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्
”शम्बरासुरस्य मन्त्रिविशेषः यथा, हरिवंशे ।१६२ १८ ।“दुर्धरः केतुमाली णत्रुहन्ता प्रमर्द्दनः ।एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे
”विष्णुः यथा, महाभारते १३ १४९ ८९ ।तस्य सहस्रनामकथने ।“दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः
”“न शक्या धारणा यस्य प्रणिधानादिषुसर्व्वोपाधिविनिर्म्मुक्तत्वात्तथापि तत्प्रसादादतःकिञ्चिद्दुःखेन धार्य्यते जन्मान्तरसहस्रेषु भाव-नात् तस्मात् दुर्धरः ।‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते
’इति भगवद्वचनात्
इति तद्भाष्ये शङ्करः
तथा तत्रैव ४२ श्लोके ।“सुभुजो दुर्घरो वाग्मी महेन्द्रो वसुदो वसुः
”“पृथिव्यादीनि धारकाण्यन्येन धारयितुमशक्य-त्वात् केनापि धारयितुं शक्यते इति दुर्धरः ।दुःखेन ध्यानसमये मुमुक्षुभिर्हृदयेन धार्य्यतेइति दुर्धरः ।” इति तद्भाष्यम्
एतेन व्युत्पत्ति-भेदात् नामभेदोत्पत्त्या द्बिरुक्तिः सहस्रनाम-पूर्त्तिश्च जाता
) दुःखधार्य्ये, त्रि इति हेम-चन्द्रः
(यथा, महाभारते १३४ ९८ ।“अथाब्रवीन्महात्मानं भारद्वाजो महारथम् ।गृहाणेदं महाबाहो ! विशिष्टमिति दुर्धरम्
अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्त्तनम्
”दुर्जये यथा, महाभारते ११७ ।“निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ।हार्द्दिक्यं योधवर्य्यञ्च प्राप्तं मन्ये धनञ्जयम्
”)